#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00128 Uniform title: śaktisaṃgamatantra kālīkhanda Editor : baṭṭācārya b Description: Transcribed from śaktisaṃgamatantra critically edited by Benoytosh Bhattacharyya, In three Volumes Vol. I kālīkhanda Baroda Oriental Institute 1941 Notes: Transcribed by the staff of Muktabodha under the direction of Mark Dyczkowski. Revision 0: Sept. 22, 2008 Publisher : Baroda Oriental Institute Publication year : 1941 Publication city : Baroda Publication country : India #################################################### शक्तिसङ्गमतन्त्रम् | प्रथमो भागः | कालीखण्डः | श्रीगुरुभ्यो नमः | श्रीशक्तिसङ्गमतन्त्रम् | कालीखण्डः || प्रथमः पटलः | श्रीदेव्युवाच | अनादिरूप भूतेश शशिशेखर शङ्कर | देवाधिदेव विश्वेश विश्वाराध्य सुरेश्वर || १-१ || निरञ्जन निराकार नित्यानन्द गुणाकर | गुणातीत परस्वामिन् सर्वातीत परात्पर || १-२ || त्वत्सम्भूतं जगत् सर्वं स्थावरं जङ्गमादिकम् | श्रुतानि सर्वतन्त्राणि लक्षकोट्यर्बुदानि च || १-३ || तन्त्रार्णवादिकं देव राजराजेश्वर प्रभो | तन्त्रराजः श्रुतो देव नानाभेदाश्च संश्रुताः || १-४ || रसायनं श्रुतं देव सिद्धयो विविधाः श्रुताः | शक्तिसङ्गमनामानं तन्त्रराजोत्तमोत्तमम् || १-५ || सूचितं देवदेवेश मन्त्रसिद्ध्यभिधागमे | न मह्यं कथितं देव संशयं छेदय प्रभो || १-६ || प्. २) चतुःखण्डेन संयुक्तं सर्वसारोत्तमोत्तमम् | तन्त्रं कथय देवेश सम्प्रदायक्रमागतम् || १-७ || समग्रं तन्त्रराजेन्द्रं सापेक्ष रहितं प्रभो | सम्प्रदायप्रभ्रष्टानां मार्गसन्दर्शकारकम् || १-८ || कलौ सिद्धिप्रदं तन्त्रं कथयस्व मम प्रभो | श्रीशिव उवाच | तन्त्रराजः पूर्वमुक्तः खण्डाष्टकसमुज्वलः || १-९ || पूर्वार्धमुत्तरार्द्धं च सार्द्धद्वयसमन्वितः | पूर्वार्द्धं कादिसंज्ञं तु द्वितीयं हादिसंज्ञकम् || १-१० || कादौ तु वेदखण्डानि हादावपि चतुष्टयम् | प्रतिखण्डे महेशानि त्रिसहस्रं च षट्शतम् || १-११ || प्रत्यध्याये शतश्लोकाः षट्त्रिंसत्पटलानि च | इत्येकं खण्डमित्युक्तमेवं खण्डाष्टकं विदुः || १-१२ || दिव्यौघ रचितो ग्रन्थो गुरुद्वारो भविष्यति | शक्तिसङ्गमनामाख्यं श्रीबृहत्तन्त्रराजकम् || १-१३ || वेदखण्डसमायुक्तं षष्टिसाहस्रिकं (?) शुभम् | दिव्यौघरचितं तन्त्रं सर्वतन्त्रोत्तमोत्तमम् || १-१४ || अनादिकाल्या रचितं तारारूपं द्वितीयकम् | तृतीयं सुन्दरीरूपं चतुर्थी छिन्नमस्तका || १-१५ || युगे युगे चन्द्र संख्यं कलौ खण्डचतुष्टयम् | षट्शतीवत्सरान्ते तु द्विसप्तत्युत्तरं शिवे || १-१६ || प्. ३) आविर्भवति देवेशि दिव्यौघद्वारतः शिवे | बौद्धपाषण्डनाशार्थं सम्प्रदायार्थमेव च || १-१७ || सम्प्रदायसंकराणां विनाशार्थमिहेश्वरि | सम्प्रदायस्थापनार्थं ब्राह्मण्यरक्षणाय च || १-१८ || मन्त्रशास्त्रस्य सिद्ध्यर्थमाविर्भवति पार्वति | तन्त्रेषु कालिका तारा सदा तिष्ठति पार्वति || १-१९ || अथोद्दण्डं विधायेत्थं श्रीमहादक्षिणेश्वरि | अनादिविद्या श्रीकाली महाताराभिधा परा || १-२० || षट्शाम्भवेश्वरि विद्या वाच्यातीता परा कला | महाप्रलयमासाद्य कोटि ब्रह्माण्डनायिका || १-२१ || शिवशक्तिमयं देहमेकीकृत्य सदा स्थिता | कोटिवक्रा भवाद्यास्तु ब्रह्माणः प्रेतरूपिणः || १-२२ || तत्श्मशाने प्रनृत्यन्ति गायन्ति व्यालसङ्कुलाः | चितिरक्षास्वरूपत्वं प्राप्य तिष्ठन्ति पार्वति || १-२३ || माहेश्वराणामानन्त्यं विष्णुरूपेऽप्यनन्तता | शक्रादीनां तु गणना नास्त्येव प्रियवादिनि || १-२४ || नद्यां तु वालुका यावत्तावदिन्द्राः पुरेरिताः | कोटिब्रह्माण्डपर्यन्तं स्थावरं जङ्गमादिकम् || १-२५ || एकैकवारमिन्द्रत्वं गतं तत्पुनरप्यलम् | अनन्तकोटिब्रह्माण्डे यावन्तः परमाणवः || १-२६ || तावन्तः सन्ति तद्भूमौ चितिधूलिस्वरूपतः | माहेश्वरीसमेतानां ब्रह्माण्डकोटिकोटयः || १-२७ || प्. ४) तत्र तिष्ठन्ति देवेशि चतुर्वेदाः शवाः स्मृताः | युगाश्च शवरूपेण सप्तप्रेतगताः पराः || १-२८ || सागरस्यं समासाद्य सर्वरूपा हि पार्वति | चिद्व्यापकस्वरूपेण स्वयं च विभ्रती पराम् || १-२९ || एतस्मिन्नेव काले तु स्वबिम्बं पश्यति शिवा | तद्बिम्बं तु भवेन्माया तत्र मानसिकं शिवम् || १-३० || सृष्टेरुत्पादनार्थं तु भर्तृरूपं प्रकल्पयेत् | आदिनाथं तु मनसा कल्पातीतस्वरूपिणम् || १-३१ || तं विलोक्य महेशानि सृष्ट्युत्पादनकारणात् | आदिनाथं मानसिकं स्वभर्तारं प्रकल्पयेत् || १-३२ || विपरीतरतिं कृत्वा महाशून्यं विधाय च | त्रिंशदर्बुदषट्वृन्दपञ्चाशत्पद्मकोटयः || १-३३ || युगानि परमेशानि विपरीतरताऽभवत् | विपरीतरतौ देवि बिन्दुरेकोऽभवत् पुरा || १-३४ || तत्रैका सुन्दरी जाता महालावण्यकालिका | श्रीमहासुन्दरीरूपं बिभ्रती परमा कला || १-३५ || तस्याश्च मानसी शक्तिस्तत्र जाता परात्परा | तस्या नाम महाकाली सुन्दरीति प्रकल्प्यते || १-३६ || तां विलोक्य महाकालो महामोहपरो भवेत् | कालीं प्रति वदन् कालो वाणीं गर्वान्वितां पराम् || १-३७ || बिन्दुध्वनिसकाशात्तु प्रत्येकं वर्णजातयः | मातृकार्णास्तदा जाता अक्षरेति तदाऽभवत् || १-३८ || प्. ५) ध्वनिना व्याप्तमखिलं जगदेतच्चराचरम् | अद्यापि देवदेवेशि कादम्बर्या ध्वनिश्रुतिः || १-३९ || उवाच सुन्दरीं कालो महाप्राणप्रिये परे | त्रैलोक्यसुन्दरि श्रीशे कारुण्यामृतसागरे || १-४० || द्वितीयवाक्ये देवेशि कालीमुवाच शङ्करः | महाघोरे शिवारावे क्रूरदंष्ट्रे करालिनि || १-४१ || ललज्जिह्वे भीमनादे इत्येवं वचनं वदन् | ईदृशं वचनं श्रुत्वा निर्गुणा परचण्डिका || १-४२ || अनादिरूपा श्रीकाली मायोत्पादनतत्परा | कालो मोहवशं यातः श्रीकालीमायया शिवे || १-४३ || अनादिसृष्टेरुत्पत्तिः कारणार्थं महेश्वरि | ब्रह्माण्डानामथानन्त्यं तन्मया कथितं क्षणात् || १-४४ || कालस्य मायां दत्वा तु स्वयं व्यापारतां गता | कालस्तु चकितो जातः सा वै कुत्र गता प्रिया || १-४५ || हा हा प्राणप्रिया काली सा वै कुत्र गता प्रिया | इति मोहवशं यातः श्मशानाटनतत्परः || १-४६ || हा हा प्राणप्रिया काली सा वै कुत्र गता प्रिया | एवं मोहवशं यातो भ्रान्तचित्तस्ततोऽभवत् || १-४७ || दर्शनार्थं तपस्तेपे पञ्चाशत्पद्मकोटयः | युगानि तत्र जातानि न कालीदर्शनं शिवे || १-४८ || कालस्य जातं देवेशि मार्गभ्रष्टपरायणः | इति ज्ञात्वा महाकाली ज्ञानं दत्तं महेश्वरि || १-४९ || प्. ६) आकर्षणाख्या बुद्धिस्तु दत्ता कालस्य पार्वति | भक्तप्रीता महाकाली श्रीमहादक्षिणानना || १-५० || वरदानेषु चतुरा तेनेयं दक्षिणा स्मृता | आकर्षणं कृतं तेन जातं तत्क्षणमात्रकम् || १-५१ || काल्या ज्ञानं महेशानि मार्गच्युतिपरायणः | कालो जातो महेशानि महाभक्तप्रिया वरा || १-५२ || शिवाकर्षणकं कर्म मिथुनत्वप्रदायकम् | इति ज्ञात्वा महेशानि आगत्य तु शिवान्तिकम् || १-५३ || तदा समरसानां तु शक्तिं कृत्वा महेश्वरि | आनीय दत्ता कालस्य मार्गाभ्यासार्थमेव तु || १-५४ || मार्गं विना महेशानि गतिरत्र कथं भवेत् | तत्राभ्यासपरः कालः कुण्डलीध्यानतत्परः || १-५५ || मनुष्याणां कुण्डली तु सार्द्धत्रिवलया स्मृता | श्रीदेव्या कुण्डली देवि स्वेच्छया गुणिता शिवा || १-५६ || त्रिगुणा श्रीः त्रिशक्तिश्च यदा वेदगुणा भवेत् | चतुर्वर्णा चैकजटा चतुर्वेदेस्वरी परा || १-५७ || यदा पञ्चगुणा देवि महोग्रा तु तदा भवेत् | यदा षड्गुणिता शक्तिः सिद्धिकाली प्रकीर्तिता || १-५८ || यदा सप्तगुणा शक्तिः सप्तार्णा कालसुन्दरी | यदाष्टगुणिता शक्तिरष्टार्णा भुवनाम्बिका || १-५९ || यदा नवगुणा शक्तिः नवार्णा चण्डिकेश्वरी | यदा दशगुणा शक्तिर्दशविद्यास्वरूपिणी || १-६० || यदा रुद्रगुणा जाता श्मशानकालिका भवेत् | प्. ७) यदा सूर्यगुणा देवि द्वादशी चण्डभैरवी || १-६१ || यदा कामगुणा देवि कामभेदा च तारिणी | चतुर्दशगुणा जाता वशीकरणकालिका || १-६२ || यदा पक्षगुणा जाता महापञ्चदशी स्मृता | कलागुणा यदा शक्तिः श्रीमहाषोडशी तदा || १-६३ || कलातीतगुणा देवि छिन्नमस्ता तदा भवेत् | अष्टादशगुणा देवि महामधुमती भवेत् || १-६४ || ऊनविंशद्गुणा देवि महापद्मावती तदा | गुणिता विंशतिपदा विंशद्वर्णा रमा भवेत् || १-६५ || एकविंशद्गुणा देवि प्रोक्ता श्रीकामसुन्दरी | द्वाविंशद्गुणिता देवि दक्षिणाकालिका तदा || १-६६ || त्रयोविंशद्गुणा देवि विद्येशीति तदा भवेत् | गुणिता तत्त्वसंख्याभिर्गायत्री स्यात्तदा शिवे || १-६७ || पञ्चविंशद्गुणा देवि पञ्चमी सुन्दरी तदा | षड्विंशद्गुणिता शक्तिः षष्ठी विद्या प्रकीर्तिता || १-६८ || सप्तविंशद्गुणा देवि महारत्नेश्वरी परा | अष्टाविंशतिधा सा वै गुणिता परमा कला || १-६९ || अष्टविंशाक्षरी विद्या मृतसञ्जीवनी परा | ऊनत्रिंशद्गुणा देवि महानीलसरस्वती || १-७० || त्रिंशद्गुणा यदा विद्या वसोर्धारा तदा स्मृता | एकत्रिंशद्गुणा देवि त्रैलोक्यमोहिनी भवेत् || १-७१ || द्वात्रिंशद्गुणिता चेत्स्यात् त्रैलोक्यविजया स्मृता | त्रयस्त्रिंशद्गुणा चेत्स्यात् श्रीमत्कामाख्यतारिणी || १-७२ || प्. ८) चतुस्त्रिंशद्गुणा शक्तिरघोराख्या तदा भवेत् | पञ्चत्रिंशद्गुणा देवि सङ्गीतमोहिनी भवेत् || १-७३ || षट्त्रिंशद्गुणिता विद्या बगलाख्या तदा भवेत् | सप्तत्रिंशद्गुणा शक्तिः प्रोक्ता विद्या स्वरुन्धती || १-७४ || अष्टत्रिंशद्गुणा चेत् स्यादन्नपूर्णेश्वरी मता | गुणितोनचत्वारिंशत् नाकुली परिकीर्तिता || १-७५ || चत्वारिंशद्गुणा शक्तिः प्रोक्ता विद्या त्रिकण्टकी | गुणिता चैकचत्वारिंशत्तदा राजेश्वरी कला || १-७६ || द्विचत्वारिंशद्गुणिता त्रैलोक्याकर्षिणी तदा | त्रिचत्वारिंशद्गुणिता राजराजेश्वरी स्मृता || १-७७ || चतुश्चत्वारिंशद्गुणिता कुक्कुटी परिकीर्तिता | चत्वारिंशद्वाणगुणा सिद्धविद्या प्रकीर्तिता || १-७८ || चत्वारिंशद्रसगुणा प्रोक्ता श्रीमृत्युहारिणी | चत्वारिंशन्मुनिगुणा महाभोगवती मता || १-७९ || चत्वारिंशद्वसुगुणा वासवी परिकीर्तिता | चत्वारिंशद्रन्ध्रगुणां फेत्कारी परिकीर्तिता || १-८० || पञ्चाशद्गुणिता देवी महाश्रीमातृसुन्दरी | पञ्चाशच्चन्द्रगुणिता मातृकोत्पत्तिसुन्दरी || १-८१ || एकैकं मातृकावर्णं प्रतिविद्याप्रकाशतः | उत्पन्ना परमेशानि स्वोत्पत्तिषु परायणा || १-८२ || यो भावो यस्य वै प्रोक्तस्तद्भावे संस्थिता परा | स्वेच्छया वलयं कृत्वा यथा कुण्डलिनी स्थिता || १-८३ || प्. ९) तथा विद्या सुसंजाता अक्षोम्यमुनिरूपिणी | सार्धत्रिवलया देवि मनुष्यस्य प्रकीर्तिता || १-८४ || एवं विद्या समुत्पन्ना कुण्डलीतो महेश्वरि | बालाम्बा तु ततो जाता पूर्वाभ्यासार्थमेव तु || १-८५ || पूर्वाभ्यासप्रभावेन सुन्दरी पतिता भवेत् | स कालत्वं च संप्राप्तः सुन्दरीसामरस्यतः || १-८६ || विद्यया पंचमीरूपं धृत्वा कालसमागमः | भक्तप्राणप्रिया देवि तस्य सङ्गपरायणा || १-८७ || पंचमीरूपमासाद्य संस्थिता परमा कला | तस्याः सङ्गाभ्यासयोगात् महाकालत्वतां गतः || १-८८ || येन दृष्टा तु या पूर्वं स तस्या ऋषिरीरितः | उपासकास्तदान्ये स्युरिति संक्षेपतो मतम् || १-८९ || अथातो ब्रह्म देवेशि व्याख्यास्यामि यथाक्रमम् | बीजाङ्कुरस्फटिकजं तद् ब्रह्म परिकीर्तितम् || १-९० || तदेव ब्रह्म चाख्यातं कालकालीमयं परम् | यावद्विवर्णितुं शक्यं तावत् सगुणतां गतम् || १-९१ || तदेव सगुणं ब्रह्म वर्णना शक्तिगोचरम् | वर्णनायामशक्तिर्हि यदा जाता महेश्वरि || १-९२ || तदेव निर्गुणं प्रोक्तं सगुणं वाच्यगोचरम् | वाग्भवं मुखमित्युक्तं मुखादुच्चार्यते च तत् || १-९३ || अवाच्यं यद् भवेत् ब्रह्म तत्कथं मुखगोचरम् | वाक्शक्त्या यन्त्रितं तच्च तस्माच्छक्तेः प्रधानता || १-९४ || प्. १०) काली माया तु सा शक्तिर्बिम्बाद्यप्रतिबिम्बका | कालीव्यापकसच्छाया महाकालः प्रकीर्तितः || १-९५ || महाकालात् भवेन्माया सा प्रोक्ता भुवनेश्वरी | ब्रह्मविष्ण्वादयो देवि तत्रोत्पन्ना महेश्वरि || १-९६ || लोकपालास्ततो जाता वाग्भवा मातृकाः स्मृताः | अथैकगुणिता देवि प्रथमाक्षरसम्भवा || १-९७ || अविनाशत्वलोपेन तेन चाक्षररूपता | शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते || १-९८ || सर्वाद्या तु भवेच्छक्तिरानन्दघनगोचरा | ब्रह्मरूपचिदानन्दा परब्रह्मैव केवलम् || १-९९ || प्रकृतौ विद्यमानायां विकृतिर्न बलीयसी | प्रकृतिः परमा शक्तिर्विकृतिः प्रतिबिम्बता || १-१०० || आद्या कृष्णा महाकाली द्वितीया सुन्दरी स्मृता | रक्तवर्णा महेशानि तृतीया बालभैरवी || १-१०१ || चतुर्थी पंचमी विद्या यस्याभ्यासात्तु कालताम् | प्रपञ्चमूला सा शक्तिः प्रपञ्चेशी प्रकीर्तिता || १-१०२ || तन्मायारूपधारित्वं प्रपञ्चात्मा शिवो भवेत् | त्रिनेत्रा त्रिगुणा जाता त्रिगुणात्मा तथेश्वरः || १-१०३ || ततः सदाशिवो जातस्तत्कृपालेशतः शिवे | तत्रस्था परमेशानि सौन्दर्यगुणसंयुता || १-१०४ || सुन्दर्यास्तु प्रपञ्चोऽस्ति निर्गुणेन प्रपञ्चता | आद्या श्रीर्निर्गुणा काली वाच्यातीता परात्परा || १-१०५ || प्. ११) प्रकर्षेण तु पंचानां संयोगो युगपद्भवेत् | प्रपञ्चेशी तेन विद्या सुन्दरी परिकीर्तिता || १-१०६ || यदारभ्य धृतं रूपं सुन्दरं सुमनोहरम् | तदारभ्य प्रपञ्चोऽयं संजातः परमेश्वरि || १-१०७ || शक्तिकोणे महेशानि ब्रह्माण्डानामनन्तकम् | सर्वं तिष्ठति देवेशि जगदेतच्चराचरन् || १-१०८ || तस्याः कुण्डलिनी शक्तिरक्षोभ्यनागरूपिणी | स्वेच्छया गुणिता देवि स्वेच्छावर्णस्वरूपिणी || १-१०९ || ब्रह्माण्डगोले देवेशि काल्या तस्यै प्रदर्शितः | ब्रह्मगोलो विष्णुगोलो रुद्रगोलस्तृतीयकः || १-११० || लोकेशगोलो देवेशि देवगोलस्ततः शिवे | ततो हि ऋषिगोलो हि क्रमाद्गोलाश्च कोटिशः || १-१११ || परब्रह्माच्च प्रकृतिः प्रतिबिम्बस्वरूपिणी | महत्तत्वं ततो जातं अहङ्कारस्ततः परम् || १-११२ || आकाशस्तु ततो जातस्ततो वायुः प्रकीर्तितः | ततोऽग्निश्च प्रजातोऽत्र अग्नेरापः प्रकीर्तिताः || १-११३ || पानीयात् पृथिवी जाता ततश्चौषधयः शुभाः | ओषधीभ्यो भवेदन्नं अन्नात् प्राणः प्रकीर्तिताः || १-११४ || प्राणाज्जीवो हि सञ्जातो जीवात्मपरमात्मकौ | ब्रह्मबिम्बात्सर्वमेतज्जगदेतच्चराचरम् || १-११५ || अत एव भवेद्ब्रह्म जगदेतच्चराचरम् | भावनावशतां यातो ब्रह्मरूपः सनातनः || १-११६ || जीवः कीटस्ततो भृङ्गी भृङ्गी कीटो न वै शिवे | जीवो ब्रह्म पुनर्ब्रह्म ततो ब्रह्म पुनश्च सः || १-११७ || प्. १२) पुण्यद्रवात् पात्रयोगात् वह्नौ चोष्णात्मकं यथा | केवलं तु जलं देवि यदि वह्नौ प्रदीयते || १-११८ || वह्निनाशो भवेद्देवि नात्र कार्या विचारणा | देहपात्रस्य संयोगात् परमात्मा च देवता || १-११९ || सौख्यं दुःखं जयो लाभोऽहङ्कारो दम्भ एव च | मोहः कामः क्षुधा जृम्भा पिपासा स्पर्शनं गतिः || १-१२० || सर्वमेतन्महेशानि तद्वज्जातं महेश्वरि | तत्र ज्ञाने समुत्पन्ने न सौख्यं न च दुःखता || १-१२१ || देहाभिमाने गलिते विदिते परमात्मनि | न सौख्यं न च वै दुःखं परब्रह्मैव केवलम् || १-१२२ || यथा दाहो वह्निशक्तिर्वह्नौ तिष्ठति पार्वति | तद्वद्ब्रह्म जीवमात्रे सदा तिष्ठति पार्वति || १-१२३ || विस्फुलिंगा यथा वह्नेर्नानास्थलगता भवेत् | जले नाशत्वतां यान्ति तृणे वर्द्धिष्णुता भवेत् || १-१२४ || काष्ठे स्फुलिंगतां यान्ति जीवे ब्रह्म तथा शिवे | पात्रयोगात् सर्वमेतत् जयलाभादिकं शिवे || १-१२५ || न सौख्य न च वै दुःखं परब्रह्मैव केवलम् | तज्ज्ञानं मन्त्रयोगेन स्फुटं भवति पार्वति || १-१२६ || कामक्रोधादिभिर्युक्ते जीवरूपे परात्मनि | अन्ययोगात् महेशानि दुःखं भवति नान्यथा || १-१२७ || मनोऽन्यत्र शिवोऽन्यत्र कथं योगो भवेत् शिवे | अन्ययोगे समारब्धे स्त्रीसङ्गश्चेद्यदा भवेत् || १-१२८ || प्. १३) विनाशाद्वायुरोधस्य देहनाशादिकं भवेत् | मन्त्रयोगे भावनायां न तथा परमेश्वरि || १-१२९ || यावद्धि भावना जाता तावद्देवो महेश्वरः | भावना गलिता चेत् स्यात्तदा जीवेश्वरो नरः || १-१३० || अत्रैव नियमो नास्ति तत्रावधिः प्रकीर्तितः | परब्रह्माथ वा जीवो द्वयोरेकतरः शिवे || १-१३१ || इति संक्षेपतः प्रोक्तं अकाराक्षरतत्त्वकम् || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमद्क्षोभ्यमहोग्रतारासंवादे ग्रन्थप्रवर्तनं नाम प्रथमः पटलः || १ || द्वितीयः पटलः | उग्रतारोवाच | अक्षोभ्य श्रोतुमिच्छामि यत् पूर्वं सूचितं त्वया | तन्मे कथय देवेश यद्यहं तव वल्लभा || २-१ || अक्षोभ्य उवाच | रहस्यातिरहस्यं च महोग्रे शृणु साम्प्रतम् | ब्रह्मभूम्यन्तकं प्रोक्तं भूमिब्रह्माण्डकं शिवे || २-२ || संहारे जायते देवि तत्र लीनं जगद्भवेत् | चतुर्वक्त्रविधिं देवि प्रमुखीकृत्य शाश्वतम् || २-३ || कोटिवक्त्रान्तपर्यन्तं ब्रह्माणः सन्ति गोलके | चतुर्वक्त्रं तु भूगोलं ब्रह्माण्डाख्यं च कोटिजे || २-४ || ब्रह्माण्डानामथानन्त्यमेवं तिष्ठति पार्वति | अनन्तकोटिब्रह्माण्डनायिका नीलशारदा || २-५ || ब्रह्मगोलं च तदधः सुन्दरीगोचरं भवेत् | भूगोलं परमेशानि भुवनागोचरं भवेत् || २-६ || अधिकारो हि संदत्तः सुन्दर्या एव पार्वति | महाविद्या कोटिसंख्या तन्मध्ये गोलगोचरा || २-७ || अथ वै राजराजेशी महापरमसुन्दरी | एकस्मिन् समये देवि गोलोत्पत्तिपरायणा || २-८ || तस्या द्वारि महेशानि सर्व तिष्ठति पार्वति | न्यासजालादिकं देवि पंचाङ्गानामनेकशः || २-९ || प्. १५) तथैव निर्मितं देवि कालिकाज्ञानुसारतः | प्रत्यहं क्रियते यद्यत्तत् सर्वं कालिकाग्रतः || २-१० || गत्वा च कथ्यते देवि सुन्दर्या नित्यमेव तु | कालीतारामयं ब्रह्म तदग्रे कथ्यते शिवे || २-११ || भूगोलो हि महेशानि त्रिःस्कन्धे सूचितो मया | ममैव लेशसंजाता मुनयः शङ्करादयः || २-१२ || चित्तस्कन्धे महेशानि ब्रह्माण्डाख्यः प्रकीर्तितः | भूगोलानां च पंचाशत् कोटिसंख्या महेश्वरि || २-१३ || न्यूनं पंचसहस्रैस्तु ब्रह्माण्डगोलके भवेत् | पंचाशच्छतविस्तीर्णो भूगोलः परिकीर्तितः || २-१४ || भूगोलस्तु महेशानि कदम्बकुसुमप्रभः | सदा भ्रमति देवेशि क्रियापंचकसंयुतः || २-१५ || घटाकारो महेशानि ध्रुवद्वयसमन्वितः | दक्षध्रुवे मुखं देवि वामे बुध्नमुखाकृतिः || २-१६ || कम्बुग्रीवो घटः प्रोक्तः श्रीचक्रकलशः स्मृतः | विंशत्संख्यादयः शब्दाः सदैकत्वे व्यवस्थिताः || २-१७ || शतान्तान्ता निगदिता संख्या साहस्रलक्षके | दशसंख्या प्रयोक्तव्या कोट्यादौ शतमात्रकम् || २-१८ || अर्बुदे तु सहस्रं स्यात् खर्वे लक्षाभिधं भवेत् | एवं क्रमेण देवेशि परार्धान्तं मेह्श्वरि || २-१९ || अक्षरादिसमायुक्तो दक्षे न्यूना भवेच्छिवे | उत्तरे त्वधिका देवि यथायोगेन योजयेत् || २-२० || प्. १६) कदम्बकुसुमं देवि श्रीचक्रवाटिकागतम् | तद्वाटिकासेचनार्थं कम्बुग्रीवायुतो घटः || २-२१ || छत्राकारेण देवेशि परितो ब्रह्मगोलकम् | तत्तद्बिम्बे महेशानि महाश्रीचक्रनायिका || २-२२ || सदा तिष्ठति देवेशि नात्र कार्या विचारणा | परमाणुरणुश्चैव द्व्यणुकत्र्यणुक एव च || २-२३ || लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव च | ततः क्षणं महेशानि ततश्चैव पलं भवेत् || २-२४ || तत्षष्टिसंख्या नाडी स्यादिति संक्षेपतो मतम् | घटिका च मुहूर्तञ्च प्रहरो दिवसस्तथा || २-२५ || अहोरात्रस्ततः पक्षो मासश्चैव तत ऋतुः | अयनं वत्सरयुगे प्रलयश्चतुरात्मकः || २-२६ || चतुर्युगानामेकं हि महद्युगमितीरितम् | एकसप्ततिभिश्चैव मनुरेकः प्रकीर्तितः || २-२७ || चतुर्दशैव सप्तत्या मनवस्तु चतुर्दश | इन्द्राश्चतुर्दश शिवे तथैव परिकीर्तिताः || २-२८ || चतुर्युगसहस्राणि ब्रह्माहः परिकीर्तितम् | तावद्युगानि वै रात्रौ दिवा इन्द्राश्चतुर्दश || २-२९ || वृक्षकीटे प्रस्तराश्च तृणानि कृमयस्तथा | ब्रह्माण्डगोले यत्किञ्चित् जातं संजायमानकम् || २-३० || एकैकवारमिन्द्रत्वं तेषां च परिकीर्तितम् | कीटात् ब्रह्माण्डपर्यन्तं प्रपञ्चार्थं भविष्यति || २-३१ || प्. १७) मनवस्तु तथैवोक्ता पक्षश्चैव तथा भवेत् | मासर्तुश्च महेशानि त्वयनं हायनं ततः || २-३२ || एवं हि शतवर्षाणि ब्रह्मायुः परिकीर्तितम् | विधीनां दशसाहस्रं विष्णोर्दिवस ईरितः || २-३३ || पक्षमासादि वर्षादि ज्ञातव्यं परमेश्वरि | दशसाहस्रवर्षाणि विष्णोरायुः प्रकीर्तितम् || २-३४ || तल्लक्षायुः शिवस्याथ तद्द्वैगुण्यमथैश्वरम् | सदाशिवस्य तल्लक्षं गणना तु परात्परे || २-३५ || तदुत्तरं महेशानि स्वराट्चक्रं भविष्यति | विराट्चक्रं तद्द्विगुणात् सर्वराट् द्विगुणात्ततः || २-३६ || सर्वराहुत्तरं देवि ततः शून्यं भविष्यति | ततः शून्या परा रूपा श्रीमहासुन्दरी कला || २-३७ || सुन्दरी राजराजेशी महाब्रह्माण्डनायिका | महाशून्या ततस्तारा तद्द्वैगुण्यक्रमेण च || २-३८ || मुक्तौ संयोज्य सर्वं तु महासुन्दर्यनन्ततः | एवं हि शतवर्षाणि महाप्रलयकारिणी || २-३९ || महाप्रलयनामा तु सकृदेव प्रवर्तते | महाप्रलयके जाते ततः शून्यं भविष्यति || २-४० || ब्रह्मरूपा परानन्दा केवला तारिणी परा | सर्वं तस्यां तु संलीनं तद्रूपं सर्वमेव तु || २-४१ || एवं देवि महाशून्यं महादक्षिणकालिका | व्याप्य तिष्ठति देवेशि शून्यं कृष्णस्वरूपकम् || २-४२ || प्. १८) इति संक्षेपतः प्रोक्तं रचनां गोलके शृणु | आणव्यं कार्मणं चैव मायाप्रकृतिमेव च || २-४३ || अहङ्कारः पंचमः स्यात् सृष्टिस्थितिलयस्तथा | प्रधानानुग्रहो देवि व्यवस्थां शृणु यत्नतः || २-४४ || आणव्य जीवमात्रं स्याद्ब्रह्मविष्णोश्च कार्मणम् | मायामूलस्तु रुद्रस्य प्राकृतस्तु तथेश्वरे || २-४५ || सदाशिवस्याहङ्कारः परशम्भोर्न किञ्चन | सृष्टिस्थितिलयश्चैव तिरोधानं त्वनुग्रहः || २-४६ || क्रमेण पंचकं जातं परशम्भोस्तु मायया | वर्णाध्वा चैव मात्राध्वा तत्त्वाध्वा तदनन्तरम् || २-४७ || मन्त्राध्वा भुवनाध्वा च कलाध्वा ऋतुसंज्ञकः | अयमध्वा त्रिधा प्रोक्तस्त्वचिद्देहक्रमेण च || २-४८ || आधिभूतं चाधिदैवं देहचक्रं तथाण्डके | त्रिधा तु कथितं देवि रचनां शृणु यत्नतः || २-४९ || पुरीषट्कमध्यगता लङ्काचीनक्रमेण च | लङ्कापुर्यभिधो देवि मध्यभागे प्रतिष्ठितः || २-५० || परितः समभागत्वान्मेरुकार्ये नियोजिता | लङ्कातो दक्षभागे तु सप्त वै सागराः स्मृताः || २-५१ || तत्र द्वीपा महेशानि संख्या त्वष्टादशैव तु | समुद्राः सप्त देवेशि सागरास्ते प्रकीर्तिताः || २-५२ || स्वादूदकास्ते देवेशि तत्र वै वडवानलः | तदन्ते नरकाः प्रोक्ता मध्ये भोगवती पुरी || २-५३ || प्. १९) लङ्का तु भूमिमध्यस्था सर्वतो हि समा शिवे | गन्धमादनपार्श्वे तु हिममेरुः प्रकीर्तितः || २-५४ || तदुत्तरे स्वर्गभूमिस्तत्र लोकाः प्रतिष्ठिताः | उपर्यधस्ताल्लोकाश्च शतकक्ष्यासमन्विताः || २-५५ || दक्षोत्तरे ध्रुवद्वन्द्वं ब्रह्माण्डं तत्र वै स्थितम् | अधस्तात् सप्तपातालं सप्तलोकास्तदूर्ध्वके || २-५६ || एवं लोकत्रयं जातं तदण्डं परिवर्तते | ग्रहनक्षत्रसूर्यस्ये सोमस्येन्द्रस्य दिग्ग्रहाः || २-५७ || एतद्धामाः समाख्याता मध्ये तु किन्नरादयः | ब्रह्मविष्णुशिवादीनां ततो लोकाः प्रकीर्तिताः || २-५८ || ईश्वराख्यस्ततो देवि ततश्चैव सदाशिवः | ततो हि दण्डिनीनाथलोकश्च परिकीर्तितः || २-५९ || मंत्रिण्यंबागृहं तत्र सप्तप्राकारभूषितम् | परापरं ततः प्रोक्तं ततश्चैव परात्परम् || २-६० || परातीता ततः प्रोक्ता चित्परा तदनन्तरम् | सप्तमं श्रीपुरं देवि तदूर्ध्वं कोटियोजनम् || २-६१ || चतुरस्रं कोटिलक्षं योजनं तारिणीपुरम् | नवप्राकारसंयुक्तं अनन्तायामविस्तृतम् || २-६२ || कालचक्रं तत्र देवि कालनित्या क्रमेण च | कालनित्यापुरे देवि श्रीचक्रं परितिष्ठितम् || २-६३ || तत्र बिन्दौ महेशानि निर्वाणाख्यं पुरं भवेत् | तद्बिन्दौ परमेशानि शाम्भवाख्यं पुरं भवेत् || २-६४ || तद्बिन्दौ राजसं देवि शान्त्यतीतं कलायुतम् | चतुष्कशवसंयुक्तपर्यङ्केन सदाशिवम् || २-६५ || प्. २०) तत्र कामकलातीतं महाकामेश्वरं परम् | तत्पर्यङ्के महेशानि शान्त्यतीतां कलां पराम् || २-६६ || नवात्मकेश्वरीमम्बां कोटिब्रह्माण्डनायिकाम् | सर्वाढ्यमेतद्ब्रह्माण्डं कीर्तितं परमेश्वरि || २-६७ || कलाप्राकारसंयुक्तं श्मशानं तत्र पार्वति | प्रत्यालीढपदाख्यं च तत्र श्रीतारिणीपुरम् || २-६८ || चतुष्षष्टिशूलं शुक्लमनन्तायामविस्तृतम् | श्रीदक्षिणाश्मशानं च श्मशानाष्टकमेव तत् || २-६९ || परितो देवदेवेशि शतद्वारसमन्वितम् | कोटिब्रह्माण्डप्रेतैस्तु भूषितं भैरवीयुतम् || २-७० || त्रिंशन्निखर्वषट्पद्माः शरभैः संयुतं शिवे | महाज्वालानलैर्दीप्तं मुण्डबिन्दुविभूषितम् || २-७१ || सप्तप्रेतगता काली दक्षिणा तत्र तिष्ठति | तदाज्ञया धनुर्वेदाः सुन्दरीद्वारि संस्थिताः || २-७२ || सुन्दरीद्वारि देवेशि चतुर्वेदाः षडङ्गकाः | ऋग्वेदोऽथ यजुर्वेदः साम्वेदो अथर्वणः(?) || २-७३ || शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तकम् | षडङ्गमिति संप्रोक्तं तथा षट्दर्शनानि च || २-७४ || षडाम्नाया महेशानि तथा षट्शाम्भवं शिवे | कादिहादिक्रमेणैव द्विविधं परिकीर्तितम् || २-७५ || कादावष्टादशविधं हादावष्टादश प्रिये | उपवेदचतुष्कं च तदाख्यं शृणु पार्वति || २-७६ || ऋग्वेदस्य धनुर्वेदः शाखाभिः परिभूषितः | प्. २१) आयुर्वेदो यजुर्वेदाच्छाखाशतकसङ्कुलः || २-७७ || सामवेदस्य गान्धर्ववेदः प्रोक्तो महेश्वरि | शाखाभिर्भूषितो देवि कालप्रियकरः परः || २-७८ || अथर्वणस्य निगमस्तच्छाखाभिर्विभूषितः | पंचाशद्वै महाभागे निगमः परिकीर्तितः || २-७९ || समग्रकालिकाद्वारि त्रिलोके त्रिक्रमेण च | चतुष्पदं ब्राह्मणानां त्रिपदं क्षत्रजन्मिनाम् || २-८० || अथर्वणे नाधिकारः क्षत्रियाणां कदाचन | तत्कर्माचरणं देवि ब्राह्मणद्वारतश्चरेत् || २-८१ || संस्कार एव तुर्यस्य क्षत्रियाणां द्विजेश्वरः | चतुष्पदा ब्रह्मणाः स्युस्त्रिपदाः क्षत्रियाः स्मृताः || २-८२ || चतुर्दशमहाभारः स्वर्गे श्रीसुन्दरीगृहे | दिक्महाभारसंख्या च पाताले पद्मिनीगृहे || २-८३ || तत्त्वसंख्यमहाभारो मर्त्यलोके प्रतिष्ठितः | सिद्धानां नवनाथानां देवानामोघसन्निधौ || २-८४ || सरस्वतीगृहे देवि क्रमात्तिष्ठति पार्वति | शाक्तं शैवं गाणपतं सौरं वैष्णवमेव च || २-८५ || बौद्धं तु देवदेवेशि ताराषड्दर्शनानि च | वैदिकं चैव सौरं च गाणपत्यन्तमेव च || २-८६ || बौद्धं तु देवदेवेशि त्रिपुरादर्शनानि च | प्. २२) चान्द्रं स्वायंभुवं जैनं चीनं नीलं महेश्वरि || २- ८७ || च्छिन्नाषट्दर्शन्नान्येव कीर्तितानि त्रिधा शिवे | दर्शनत्रितयं देवि कालीविद्याप्रगोचरम् || २-८८ || अष्टादशपुराणानि तथैवोपपुराणकम् | वेदस्य गदितं देवि उपवेदस्य पार्वति || २-८९ || अष्टादशपुराणानि तथैवोपशमानि च | एकवीरा च त्वरिता कालिका सुन्दरी तथा || २-९० || छिन्ना मातङ्गिनी चैव गणेशार्काः प्रकीर्तिताः | बगला मालिनी तारा त्रिजटाऽक्षोभ्यकालके || २-९१ || बटुकः सुन्दरः शम्भुः शाम्भवस्तु नवात्मकः | अष्टादशपुराणानि उपसंख्यानि पार्वति || २-९२ || श्रुतिर्वेदश्च देवेशि उपवेदश्च वै स्मृतिः | चतुःषष्टिकला देवि चतुःषष्टिर्हि सिद्धयः || २-९३ || तथोपनिषदोऽन्यत्र द्विपंचाशन्महेश्वरि | उपदिष्टानि देवेशि चतुःषष्टि भवन्ति च || २-९४ || सूक्तानि त्रिसहस्राणि ताण्डवानां शतं शिवे | त्रिशतं कौशलाः प्रोक्ताः कौमुदी तु कलाभिधा || २-९५ || दीपिकानां चतुःषष्टिः प्रकाशानां च सप्ततिः | सांख्यायनानां पंचाशत् सूराणां पंचकं शिवे || २-९६ || वार्तिकानां द्वयं देवि तन्त्रराजद्वयं शिवे | नित्याषोडशतन्त्राख्यं खण्डाष्टकसमन्वितम् || २-९७ || हादिकादिमतत्वेन हादिकादिक्रमेण च | प्. २३) पूर्वार्धं चोत्तरार्धं च मिलित्वा तु विराड्मतम् || २-९८ || शक्तिसंगमनामानं तन्त्रराजं कहात्मकम् | चतुःख्ण्डसमायुक्तं तन्त्रराजोत्तमोत्तमम् || २-९९ || पंचाशदध्यायैर्युक्तं षट्कपंचकसंयुतम् | एवं क्रमेण देवेशि तन्त्राण्याम्नायके शिवे || २-१०० || आधारभूतं देवेशि सूक्ष्मब्रह्मा,न्,दमत्र तु | अनेकानि च देवेशि ब्रह्माण्डानि च मध्यतः || २-१०१ || तस्योपरि महेशानि ब्रह्माण्डकलिकाकृतिम् | जम्बुद्वीपे यदाभासस्तदा द्वीपेश्वरो भवेत् || २-१०२ || विश्वरूपक्रमेणैव देहमात्रप्रगोचरम् | दिवारात्रिर्महेशानि नराणां षष्टिनाडिभिः || २-१०३ || पितॄणां तु महेशानि मासद्वितयमेव च | ऋतुमात्रे दिवारात्रिः सिद्धानां परिकीर्तिता || २-१०४ || देवानां तु महेशानि हायनद्वितयं भवेत् | दक्षिणाख्यो भवेद्रात्रिस्तदन्यो दिवसो भवेत् || २-१०५ || कालिकाया महेशानि षष्टिशून्ये तु नाडिका | नाडिषष्टिभिरेवात्र दिवसः परिकीर्तितः || २-१०६ || एवं क्रमेण देवेशि सर्वदा शून्यमध्यगा | अविनाशी सदा स्याता कोटिब्रह्माण्डचर्वणा || २-१०७ || राजदन्तद्वये देवि ब्रह्माण्डानामनन्तकम् | स्थूलसूक्ष्मप्रभेदेन द्विविधं परिकीर्तितम् || २-१०८ || कालनित्या महेशानि सर्वदा व्याप्य तिष्ठति | प्. २४) विंशत्साहस्रकं सप्तशती षट्त्रिंशदीरिता || २-१०९ || कालनित्या महेशानि परमाण्वादिरूपिणी | पलमध्ये घटीमध्ये कालनित्या प्रकीर्तिता || २-११० || सपादघटिकारूपा सप्त वै वासराः स्मृताः | मुहूर्तरूपो देवेशि पक्षश्चात्र प्रकीर्तितः || २-१११ || तद्द्वयेन भवेन्मासस्तद्द्वयं ऋतुरेव च | तत्त्रयं त्वयनं देवि तद्द्वयं हायनं भवेत् || २-११२ || प्रत्येकं व्याप्य देवेशि कालनित्या प्रकीर्तिता | परमाणुं समारभ्य हायनान्तं महेश्वरि || २-११३ || कालनित्या च संव्याप्य तिष्ठति परमेश्वरि | मुहूर्ताख्यपदे देवि नाडीद्वयमुदीरितम् || २-११४ || मुख्यमानेन देवेशि सार्द्धनाडीद्वयं भवेत् | दिनसपकमध्ये तु देवेशि वासराः स्मृताः || २-११५ || दिनपंचदशान्तं च तथा मासान्तकं शिवे | ऋत्वन्तमयनान्तं च हायनान्तं महेश्वरि || २-११६ || स्थूलमानमिदं प्रोक्तं शृणु पारायणक्रमम् | दिनतो वारतः पक्षात् मासात् षट्त्रिंशता दिनैः || २-११७ || स्थूलसूक्ष्मप्रभेदेन राशिलग्नादिकं भवेत् | तथा ग्रहादिकं देवि सर्वमेतत् प्रवर्तते || २-११८ || यः संक्रमो विद्यमानः स राशिः प्रातरेव तु | सूक्ष्मा राशिरियं प्रोक्ता प्रेतानां त्वनुराशिका || २-११९ || पलमात्रं भवेल्लग्नं स्थूले तु षष्ठिनाडिभिः | प्. २५) पललग्नं घटीलग्नं मुहूर्तं प्रहरे शिवे || २-१२० || त्रिंशन्नाडीक्रमेणैव दिवारात्रिक्रमेण च | लग्नमेतत्त्रिधा प्रोक्तं राशिसंक्रममूलतः || २-१२१ || लग्नं तात्कालिकं प्रोक्तं चतुर्धाऽत्र ग्रहाः शिवे | मुनिनन्दरवीन्द्रैश्च स्थूलसूक्ष्मप्रभेदतः || २-१२२ || सूर्योदये तु यो वारस्तद्वारश्च ग्रहात्ततः | पलनाडीक्रमेणैव ग्रहाणां परिवर्तनम् || २-१२३ || सूर्योदये तु यो वारस्तद्वारो वासरः स्मृतः | अहोरात्रं घटी देवि पलयाममुहूर्तकैः || २-१२४ || ब्रह्मादिदेवजातीनां यो भोगो वर्षमात्रतः | मनुष्याणां स भोगो हि वारस्तत्र भवेत् शिवे || २-१२५ || सूक्ष्ममानेन देवेशि स भोगः परिवर्तते | सूक्ष्मज्ञानं समासाद्य स्थूलज्ञानं ततश्चरेत् || २-१२६ || तत्कालोदयवर्णस्य कालनित्याविधौ शिवे | संयोगश्च प्रकर्तव्यः सा प्रोक्ता तूदयाक्षरी || २-१२७ || उदयाक्षरसंयोगः कालनित्याविधौ शिवे | गुणनेन चरेद्देवि सा तु कालेश्वरी भवेत् || २-१२८ || दिगक्षरस्य संयोगः कालनित्याविधौ यदा | तदा दिगीश्वरी प्रोक्ता त्वरितं फलदायिनी || २-१२९ || पृच्छकाद्वर्णसंयोगात् कालनित्याविधौ यदा | तदा जीवेश्वरी प्रोक्ता सर्वजीवप्रसाक्षिणी || २-१३० || तथा मासक्रमेणैव मासः पंचविधो भवेत् | चान्द्रसावननाक्षत्रसौरबार्हस्पतक्रमात् || २-१३१ || पौर्णिमात् पौर्णिमान्तो हि चान्द्रमासः प्रकीर्तितः | प्. २६) चन्द्रदर्शात् चंद्रदर्शं द्विधा चान्द्रः प्रकीर्तितः || २- १३२ || अमामारभ्य देवेशि पुनः सा वै यदा भवेत् | सावनाख्यो महेशानि मासोऽयं च प्रकीर्तितः || २-१३३ || ऋक्षादृक्षं समारभ्य नाक्षत्रः कीर्तितः शिवे | संक्रमान्तं च देवेशि सौर इत्यभिधीयते || २-१३४ || बार्हस्पत्यभिधो मासः षट्त्रिंशद्दिवसात्मकः | नित्या षोडशभिर्देवि मासः षोडशकं भवेत् || २-१३५ || अष्टादशदिनैर्देवि पक्षश्चात्र प्रकीर्तितः | तद्द्वयैर्मास इत्युक्तस्तत्क्रमं शृणु पार्वति || २-१३६ || पूजाक्रमे महेशानि नित्या षोडशमण्डलम् | नित्याषोडशकं देवि शान्तिः सप्तदशी शिवे || २-१३७ || शान्त्यतीता तदन्ते स्यादेवमष्टादश प्रिये | नन्हासो न च वृद्धिश्च नित्यादिवसमण्डले || २-१३८ || उदयार्णक्रमेणैव सम्पूर्णो दिवसो भवेत् | तुर्यमासो महेशानि पंचाशद्दिवसात्मकः || २-१३९ || वर्णमासाभिधः प्रोक्तः प्रत्यहं वर्णमात्रकः | चत्वारिंशत्तथाष्टौ च ऊनपंचाशदेव वा || २-१४० || पंचाशन्मातृकावर्णान्मण्डलं त्रिविधं स्मृतम् | पूर्वं बटुकसंमत्या द्वितीये कालसम्मतिः || २-१४१ || द्वितीये त्रिविधत्वं च कीर्तितं परमेश्वरि | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || २-१४२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे कालनित्याविधिर्नाम द्वितीयः पटलः || २ || तृतीयः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि भूतादियुगनिर्णयम् | श्रीशिव उवाच | रहस्यातिरहस्यं च संक्षेपात् कथ्यते शृणु || ३-१ || ब्रह्मणोत्पत्तिमारभ्य वर्तमानदिनावधिः | अहर्गणस्य विज्ञानं सिद्धान्तः परिकीर्तितः || ३-२ || कलेराररम्भदिवसात् वर्तमानदिनावधिः | अहर्गणस्य विज्ञानं तन्त्रमित्यभिधीयते || ३-३ || युगादिदिनमारभ्य शकाहान्तं महेश्वरि | अहर्गणस्य विज्ञानं करणं कीर्तितं मया || ३-४ || कृतादीनां युगानां तु दिनेष्वेकैकशः क्रमात् | दिननित्या भवेत्तत्र स दिनं प्रतिवासरम् || ३-५ || आदौ कलावतीते तु वर्षेष्वेकादशस्वथ | वर्षे द्वादशमे मासे चैत्राख्ये नवमीतिथौ || ३-६ || वारे रबेरतीते च नाथे विश्वेशसम्भवे | तदारभ्योदयक्षान्ता वर्णाः षट्त्रिंशदात्मकाः || ३-७ || युगवासरभेदेन वर्तन्ते परमेश्वरि | स्वराः षोडशभिस्तान्तु गणयेदक्षरं प्रति || ३-८ || प्. २८) एकैकस्वरयुक्तेन वर्णेनावान्तरो युगः | मवान्तरयुगा ज्ञेया दिवसा वर्णसंख्यया || ३-९ || क्रमात् षट्त्रिंशद्वर्णाः स्युः प्रत्येकं प्रतिवासरम् | युगैः षोडशभिस्त्वेवमेको वर्णो युगो मतः || ३-१० || षत्सप्तत्युत्तरैः पंचशतसंख्यैश्च वासरैः | एतैर्वर्णयुगैः प्रोक्तः षट्त्रिंशद्भिर्महायुगः || ३-११ || सहस्राणां च विंशत्या षट्त्रिंशदधिकैः शतैः | सप्तभिश्च दिनानां तु संख्या प्रोक्ता महायुगे || ३-१२ || आ ई पल्लवितेत्यत्र सिद्धा वर्णात्र सूचिताः | वसराः सप्तपंचाशत् मासाः सप्त दिनानि षट् || ३-१३ || कलेनैव वत्सराणां एकपर्याय ईष्यते | पर्यायश्च कलौ सप्त सहस्राणि ततः परम् || ३-१४ || एकादशोत्तरत्वं च षट्शतानि भवन्तिहि | इदं संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || ३-१५ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पीठानां तु विनिर्णयम् | यस्य विज्ञानमात्रेण साधकः सिद्धिमाप्नुयात् || ३-१६ || श्रीशिव उवाच | पीठं तु पंचधा प्रोक्तं पंचायतनमार्गतः | सा(?)सोपानसंयुक्तं मेरुकैलासमार्गतः || ३-१७ || सिद्धक्रान्तं च देव्यां वै शैवे वृषभरूपकम् | वैष्णवे गरुडाक्रान्तं गजाक्रान्तं च गाणपे || ३-१८ || प्. २९) हंसाक्रान्तं सौरमन्त्रे काल्यां प्रेतसमन्वितम् | नवसोपानसंयुक्तं सुन्दर्याः पीठमीरितम् || ३-१९ || सोपानेन समायुक्तमङ्गुलोत्सेधमेव च | इति पीठं मया प्रोक्तं ऋतुशाम्भवकं शृणु || ३-२० || चैत्रादिमासमारभ्य फाल्गुनान्तं महेश्वरि | वसन्तादि समारभ्य हेमन्तान्तं महेश्वरि || ३-२१ || ऋतुषट्कं मया प्रोक्तं अत्रैवं शाम्भवक्रमः | कृष्णशुक्लपक्षयोगात् द्विमासे षष्टिवासराः || ३-२२ || षष्टिषट्कप्रयोगेन त्रिशतं षष्टिरश्मयुः | मधुकृष्णा वसन्ताख्या प्रतिपत् परिकीर्तिता || ३-२३ || मधुकृष्णा वसन्ताख्या द्वितीया परिकीर्तिता | एवं क्रमेण देवेशि शुक्लपक्षेऽपि योजयेत् || ३-२४ || माधवकृष्णप्रतिपद् द्वितीया च ततः शिवे | एवं शुक्लक्रमेणैव सर्वत्र विनियोजनम् || ३-२५ | अथवाऽन्यक्रमेणैव शाम्भवं शृणु साम्प्रतम् | षट्पंचाशन्महापुर्य पार्थिवे परिकीर्तिताः || ३-२६ || जलग्रामा महेशानि द्विपंचाशत् प्रकीर्तिताः | आग्नेयरश्मयो देवि द्विषष्टिरिति कीर्तिताः || ३-२७ || वायव्यग्रामा देवेशि चतुःपंचाशदीरिताः | अथ नाभसग्रामाणां संख्या द्विसप्ततिर्भवेत् || ३-२८ || अथ मानसग्रामाणां संख्यां शृणु महेश्वरि | चतुःषष्टिरिति प्रोक्ता क्रमात् षट्शाम्भवे भवेत् || ३-२९ || श्रीपुरादिमहापुर्यः पार्थिवाख्ये प्रकीर्तिताः | षट्शाम्भवादिग्रामाणां संख्यामग्रे प्रकथ्यते || ३-३० || प्. ३०) प्रत्येकं चैव नामानि कथ्यन्ते सिद्धिकेरले | पूर्वं संसूचितं ते यत्तदद्य कथ्यते शृणु || ३-३१ || गोपनीयं महेशानि स्वयोनिरपरा यथा | श्रीकाल्युपासका ये च तत् कुलं परिकीर्तितम् || ३-३२ || तेषां समूहो देवेशि कुलं संकीर्तितं मया | कालीविद्योपासकैस्तु कुलपूजाविधौ शिवे || ३-३३ || गन्तव्यं यत्नतो देवि नान्यत्र प्रव्रजेत्क्वचित् | अन्यत्र यदि वै गच्छेत्तदुच्छिष्टं भवेच्छिवे || ३-३४ || यस्य या देवता प्रोक्ता सा तस्येष्टा प्रकीर्तिता | माध्वीकं पात्रमध्यस्थं तर्पणोच्छिष्टमेव तु || ३-३५ || उच्छिष्टतर्पणादेव देवताशापमाप्नुयात् | अत एव महेशानि बन्धनानि प्रजायते || ३-२६ || एवं सर्वं तु विज्ञाय सङ्गं त्यक्त्वा सुखी भवेत् | एतच्चक्रे महेशानि गच्छेच्चैव कुलाकुलम् || ३-३७ || रहस्यं तु महेशानि पूजान्ते शृणु सादरम् | घटस्यशुद्धिसहितं तृतीयादि सपंचमम् || ३-३८ || देव्यै निवेद्यते देवि तदन्ते वीरभोजनम् | तद्वीरभोजने देवि स्वदेवतर्पणं भवेत् || ३-३९ || उच्छिष्टेन महेशानि कथं तु तर्पणं भवेत् | एतदज्ञानतो देवि देवताशापमाप्नुयात् || ३-४० || जाते तु देवताशापे बन्धनं जायते ध्रुवम् | कुलाकुलमिदं प्रोक्तमकुलं शृणु पार्वति || ३-४१ || प्. ३१) सुन्दरी भैरवी धूम्रा त्वकुलत्वेन कीर्तिता | अकुलास्तु महेशानि तत्पूजायां व्रजेत् सदा || ३-४२ || तैर्नान्यत्र प्रगन्तव्यं इति संक्षेपतो मतम् | प्रमादात् यदि गच्छेद्वै तेषां शापो भवेद् ध्रुवम् || ३-४३ || पूर्णाभिषेकराहित्यं वीरपक्षे मतं शिवे | पूर्णचक्रे महेशानि पूर्णचक्री भवेद् ध्रुवम् || ३-४४ || ऊर्ध्वाम्नाये महेशानि ऊर्ध्वाम्नायी व्रजेत् सदा | निर्वाणदीक्षितो देवि निर्वाणपूजने व्रजेत् || ३-४५ || षट्शाम्भवक्रमे देवि शाम्भवार्चाविधौ व्रजेत् | मेधादीक्षाविधौ देवि नेदं मानं मयेरितम् || ३-४६ || सिद्धरूपे महेशानि स्वेच्छया कर्म वा चरेत् | गौडदक्षिणकाश्मीरसम्प्रदायक्रमाद्भवेत् || ३-४७ || गौडे सर्वत्र गमनं कीर्तितं तु मया तव | षडाम्नाये महेशानि काश्मीरे गमनं भवेत् || ३-४८ || कुलाकुलविभेदेन केरले गमनं भवेत् | पूणाभिषेकयुक्तानां सर्वत्र गमनं शुभम् || ३-४९ || पूर्णाभिषेकी देवेशि यस्मिन् देशे विराजते | स देशो धन्यतां याति समन्ताल्लक्षयोजनम् || ३-५० || पूर्णाभिषेकयुक्तानां शक्तिपातः प्रजायते | अयोग्यस्यापि कालेन कालीविद्यारतस्य च || ३-५१ || चतुःषष्टिविधौ देवि शक्तिपातो भवेत् ध्रुवम् | नीलसारस्वते तन्त्रे पंचधा परिकीर्तितः || ३-५२ || श्रीसुन्दर्या महेशानि शक्तिपातोऽष्टधा भवेत् | प्. ३२) छिन्नाविद्याविधौ देवि शक्तिपातश्चतुर्विधः || ३-५३ || बगलाद्यासु विद्यासु शक्तिपातो द्विधा भवेत् | वैष्णवाद्यागमे देवि शक्तिपातस्तु पंचधा || ३-५४ || इति संक्षेपतः प्रोक्तं रहस्यं सादरं शृणु | शक्तिं विना महेशानि पूजनं यः समचरेत् || ३-५५ || स दरिद्रो मम द्रोही तस्य नाशो भविष्यति | शक्तिशिवात्म्यमासाद्य पूजनं समुपाचरेत् || ३-५६ || एवं यः कुरुते मर्त्यः स शिवो नात्र संशयः | शक्तेस्तु पूजनं कार्यं दिव्यभावफलाप्तये || ३-५७ || इति संक्षेपतः प्रोक्तं पात्रभेदं शृणु प्रिये | रसवेदमितैः पात्रैः संख्या सर्वोत्तमा भवेत् || ३-५८ || कलासंख्यामितैः पात्रैः संख्या प्रोक्ता तु मध्यमा | नाथसंख्यामितैः पात्रैः संख्या प्रोक्ता कनिष्ठिका || ३-५९ || बाणसंख्यामितैः पात्रैः संख्या सामान्यकर्मणि | केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः || ३-६० || केरलाख्यमते देवि वारिपात्रं तु दक्षिणे | काश्मीरे तर्पणे भेदो गौडे वामकरे भवेत् || ३-६१ || देवीप्रणवनामा च निर्गुणप्रणवस्तथा | बगला कमला वाणी पराद्याश्च शतोत्तराः || ३-६२ || अथातः संप्रवक्ष्यामि निर्णयं प्रणवस्य च | कलापञ्चकसंयुक्तस्तत्क्रमं शृणु पार्वति || ३-६३ || अकारश्च उकारश्च मकारश्च तृतीयकः | नादश्चतुर्थो गदितः पंचमो बिन्दुरीरितः || ३-६४ || प्. ३३) ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः | एते पञ्च महाप्रेताः प्रणवं च समाश्रिताः || ३-६५ || शृणु यत्नेन देवेशि कलासप्तकरूपिणम् | कलासप्तस्वरूपं च पञ्चधा भेद ईरितः || ३-६६ || अकारश्च उकारश्च मकारश्च तृतीयकः | नादबिन्दुस्ततो देवि नादातीतस्ततो भवेत् || ३-६७ || बिन्द्वतीता सप्तमी स्याच्छाम्भवी परिकीर्तिता | शक्तीः शृणु महेशानि किमितोऽपि रहस्यकम् || ३-६८ || अकारश्च उकारश्च् मकारश्च तृतीयकः | नादश्च तदतीतश्च बिन्दुश्चैव ततः परम् || ३-६९ || बिन्द्वतीता सप्तमी स्यादेवं शक्तिकला शिवे | शाक्तशक्ति क्रमेणैव कलासप्तकमीरितम् || ३-७० || आदौ परा विनिर्दिष्टा ततश्चैव परात्परा | तदतीता तृतीया स्यात् चित्परा च चतुर्थिका || ३-७१ || तत्परा पञ्चमी ज्ञेया तदतीता रसाभिधा | सर्वातीता सप्तमी स्यादेवं सप्तविधाः कलाः || ३-७२ || पञ्च क्रमेण देवेशि शृणु सप्तकलासतीम् | ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः || ३-७३ || शान्तिश्च तदतीता च कलासप्तकमीरितम् | चतुष्टयं तु कशिपुः मृतकश्च सदाशिवः || ३-७४ || ब्रह्मादयश्चतुष्पादाः कशिपुस्तु सदाशिवः | आच्छादनं तु कामेशस्तत्रस्था सुन्दरी कला || ३-७५ || प्. ३४) प्रणवः सुन्दरीरूपः कलासप्तकसंयुतः | पञ्चप्रणवयोगे तु कलासप्तकपञ्चके || ३-७६ || सप्ततारेति विख्याता कथिता पूर्वमेव तत् | हंसरूपा कामकला तत्स्वरूपं निगद्यते || ३-७७ || हकारेण बहिर्याति सकारेण विशेत् पुनः | हकारस्य सकारस्य लोपे कामकला भवेत् || ३-७८ || पक्षद्वयेन रहितो हंसः कामकला भवेत् | सोऽहमेतस्य देवेशि रूपं कामकलाभिधम् || ३-७९ || सोऽहमित्यत्र देवेशि प्रणवः परिनिष्ठितः | जीवः पक्षद्वयत्यागात् प्रणवः परिकीर्त्तितः || ३-८० || पराप्रासादविद्यायां एवमेव प्रकीर्तितम् | पक्षद्वयं सकारे च गगनेऽपि द्वयं भवेत् || ३-८१ || रकारद्वययोगे तु सकारोत्पत्तिरीरिता | ईकारैकारयोगे तु हकारः कीर्तितो मया || ३-८२ || अत एव महेशानि चतुःपक्षस्वरूपिणी | चतुश्चरणरूपा च परा प्रासाददेवता || ३-८३ || आद्ये आद्यं परित्यज्य चरमे तु तदन्तकम् | पक्षद्वयेन संत्यक्तः प्रणवः परिकीर्त्तितः || ३-८४ || रकारः प्रथमः पक्षस्त्वेकारस्तु द्वितीयकः | मायाबीजादिके देवि रतिबीजादिकेऽपि च || ३-८५ || प्रणवस्य समुत्पत्तिर्वर्तते प्रियवादिनि | अर्द्धनारीश्वरो देवि हकारः परिकीर्तितः || ३-८६ || शक्तिबीजं तथा प्रोक्तं शृणु कामकलां शिवे | प्. ३५) ईकारार्द्धमतं बिन्दुमुखं भानुरधोगतम् || ३-८७ || स्तनौ दहनशीतांशुर्योनिर्हार्द्धं कला भवेत् | हकारार्द्धपदे देवि ईकारैकारमीरितम् || ३-८८ || मुखं बिन्दुर्महेशानि तदधस्तु कुचद्वयम् | हकारार्द्धकलारूपं योनिचक्रं विदुः प्रिये || ३-८९ || अधोबिन्दुर्महेशानि परारूपः प्रकीर्त्तितः | योनिबिन्दुर्महेशानि तत्परारूपवान् भवेत् || ३-९० || कुचबिन्दुर्महेशानि तदतीता प्रकीर्तिता | चित्परा तु द्वितीयस्तु तदतीता मुखे भवेत् || ३-९१ || सर्वातीता चण्डरूपा बीजादूर्ध्वं व्यवस्थिता | वाच्यातीतां कलां विद्धि ईकारोर्ध्वकलां शिवे || ३-९२ || इति कामकलारूपं कीर्त्तितं तु मया तव | अन्यच्चैव शकारन्तु शक्तिद्वयपुटं भवेत् || ३-९३ || रकारस्तु महेशानि काली कामकला मनुः | काली कामकला देवि मुख्या हंसगता भवेत् || ३-९४ || इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि | श्रीशिव उवाच | गृहवास्तुं प्रवक्ष्यामि येन देव मयो भवेत् || ३-९५ || ईशानादिनिर्-ऋत्यन्तं वास्तुसर्पः प्रकीर्त्तितः | वायवादिवह्निपर्यन्तं सर्पहस्तद्वयं भवेत् || ३-९६ || पैत्र्यां पादयुगं देवि ऐशान्यां शिर एव च | सर्पगात्रमिदं प्रोक्तं ज्ञात्वा कर्माणि कारयेत् || ३-९७ || शिरोघाताद्भवेन्मृत्युः पुच्छे सर्वार्थनाशनम् | प्. ३६) पिण्डिकायां भवेद्दुखं क्रोडे सर्वार्थसाधनम् || ३-९८ || चलस्थिरप्रभेदेन द्विधा वास्तु प्रकीर्तितम् | नैर्-ऋत्यां पूजयेद्देवि वास्तुसर्पगृहाधिपम् || ३-९९ || वास्तुपूजां विधायाथ कूर्मं ज्ञात्वा प्रयत्नतः | स्थानसंशोधनं कृत्वा स्वयं तु व्रतवान् भवे || ३-१०० || परात्रं(?) च(?) परद्रव्यं तथैव तु प्रतिग्रहम् | परत्री परनिन्दां च मनसाऽपि विवर्जयेत् || ३-१०१ || जिह्वादग्धा(?) परान्नेन करौ दग्धौ प्रतिग्रहात् | मनो दग्धं परस्त्रीभिः कथं सिद्धिर्वरानने || ३-१०२ || प्रतिग्रहं(?) महेशानि सर्वथा परिवर्जयेत् | प्रतिग्रहोत्थपापं(?) तु शृणु यत्नेन शाम्भवि || ३-१०३ || मृते तु नरकं यायात् स्वस्वकर्मानुसारतः | भोगोत्तरं(?) महेशानि पितृलोकं व्रजन्ति ते || ३-१०४ || ततो व्रजन्ति ते देवि सूर्यलोकं प्रतिग्रही | तत चन्द्र(?)पुरं गच्छेत् ततश्चन्द्रत्वतां व्रजेत् || ३-१०५ || भारत्वं(?) प्राप्य(?) देवेशि भूमौ वर्षति योगतः | पूर्वदत्तं तदन्नं हि इह प्रत्यक्षगोचरम् || ३-१०६ || दत्तं विना महेशानि न पूर्त्तिः क्वापि दृश्यते | तदन्नं भाण्डगोपेन चाग्नौ दाहत्वतां व्रजेत् || ३-१०७ || पाके तूदरपूर्त्त्यर्थं भुज्यते सर्वजन्तुभिः | यावत्तु पूर्वजनुषि दत्तं दापितमेव तु || ३-१०८ || तदेव प्राप्यते देवि नादत्तमुपतिष्ठते | नाधिकं न च वै न्यूनं प्राप्यते जन्तुभिः क्वचित् || ३-१०९ || प्. ३७) तदन्नं देवदेवेशि तस्य विष्ठात्वतां व्रजेत् | तत्र देवि कृमिर्भूत्वा तदन्ते(?) चान्ययोनिभाक् || ३-११० || प्रतिग्रहं परित्यज्य मन्त्रसिद्धिं समाचरेत् | जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् || ३-१११ || सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति | जन्मसूतकजं देवि संस्कारदशकं शिवे || ३-११२ || जननादिषु गुप्तान्तं संस्कारदशकं शिवे | दिवसा दश वै देवि सूतके परिकीर्तिताः || ३-११३ || दशसंस्कारयोगेन जातसूतकवारणम् | जपादिभोजनातं हि दशाङ्का(?) तु पुरस्क्रिया || ३-११४ || मृत सूतकमेतद्धि दशाहं(?) सूतकं मतम् | जीवहीनो यथा देही सर्वकर्म्मसु न क्षमः || ३-११५ || पुरश्चरणहीनो हि तथा मन्त्रः प्रकीर्त्तितः | द्वितीयं तु मया प्रोक्तं किमन्यत् श्रोतुमिच्छसि || ३-११६ || श्रीदेव्युवाच | विश्वेश श्रोतुमिच्छामि चक्रमष्टाष्टकाभिधम् | रहस्यातिरहस्यं च वद मे करुणानिधे || ३-११७ || ईश्वर उवाच | रहस्यातिरहस्यं हि कथ्यते गोपनं कुरु | उत्तमं मध्यमं चैव तृतीयमधमं भवेत् || ३-११८ || उत्तमं शिवचक्रं स्यान्मध्यमं वैष्णवं भवेत् | अधमं कामचक्रं स्याज्जीवचक्रमिति स्मृतम् || ३-११९ || प्. ३८) जीवचक्रं तथा प्रोक्तं जीवमेरुस्तथा त्वयम् | पंक्त्याकारेण देवेशि चक्राकारेण वा जपेत् || ३-१२० || बिन्दुस्थाने स्वयं स्थित्वा निर्विकल्पो जितेन्द्रियः | अविकारं समासाद्य पूजां कुर्ययात्प्रयत्नतः || ३-१२१ || विकारी जायमानस्तु साधको नश्यति ध्रुवम् | त्रिशतं षष्टि देवेशि देव्यावरणशक्तयः || ३-१२२ || पञ्चविंशति देवेशि पञ्चिकाशक्तयः क्रमात् | षट् षड्दर्शने प्रोक्ता षडाम्नाये तु षड्भवेत् || ३-१२३ || द्विसप्ततिर्महेशानि निर्वाणशक्तयः स्मृताः | त्रिशतंषष्टि देवेशि शाम्भवक्रमरश्मयः || ३-१२४ || योगिनीनां चतुःषष्टिकोटिरुक्ता महेश्वरि | षोढान्यासोदिताशेषशक्तयो याः प्रकीर्तिताः || ३-१२५ || प्रतिशक्तौ महेशानि कोटिसंख्या प्रकीर्तिता | तदष्टगुणितं कुर्यादष्टकं कीर्तीतं मया || ३-१२६ || सर्वत्राष्टगुणं कुर्याद्भवेदष्टाष्टकं क्रमात् | शैवाष्टकमिदं प्रोक्तं शम्भुसाध्यं न चान्यथा || ३-१२७ || प्रत्येकमष्टकोटिर्वा कलाकोटिश्च वा प्रिये | श्रीविद्यायां कनिष्ठं स्यान्निर्वाणे मध्यमं भवेत् || ३-१२८ || षट्शाम्भवादिमेधान्तदीक्षायां परमेश्वरि | उत्तमः कथितो देवि क्रमस्त्वष्टाष्टकाभिधः || ३-१२९ || अष्टाष्टकं वैष्णवाख्यं कथ्यते शृणु साम्प्रतम् | आवृत्तिशक्तयो देवि त्रिशतं षष्टि कीर्तिताः || ३-१३० || प्रत्तिशक्तौ त्वष्टशक्तिः पूजयेद्यत्नतः शिवे | प्. ३९) द्विसहस्रं चाष्टशती त्वशीतिः शक्तयोः मताः || ३-१३१ || प्रत्येकाष्टगुणं चक्रं प्रोक्तमष्टाष्टकं त्विदम् | अष्टाष्टकमिदं प्रोक्तं पूर्वमष्टगुणं यदा || ३-१३२ || तदानन्दभैरवाख्यं प्रोक्तमष्टाष्टकं शिवे | लक्षद्वयं महेशानि चत्वारिंशत्सहस्रकम् || ३-१३३ || एतद्द्विगुणितं देवि चतुर्लक्षं महेश्वरि | षष्टिसाहस्रकं देवि अशीतिः शक्तयो मताः || ३-१३४ || द्विशतं विंशतिरिति त्वानन्दाष्टकमीरितम् | चतुर्विंशतिसाहस्रं चत्वारिंशतिशक्तयः || ३-१३५ || आवृत्तौ तु महेशानि त्रिशतं षष्टिरश्मयः | एवमेकं पूजनं तु त्वष्टावरणसंयुतम् || ३-१३६ || एकाष्टकमिदं प्रोक्तमेवमष्टाष्टकं भवेत् | द्विसहस्रं चाष्टशतमशीतिः शक्तयो भवेत् || ३-१३७ || अष्टाष्टकमिदं प्रोक्तं पञ्चपञ्चक्रमेण तु | पूर्णाभिषेकसंयुक्तस्तूर्ध्वाम्नायप्रदीक्षितः || ३-१३८ || षट्शाम्भवक्रमे देवि कुर्यादष्टाष्टकं क्रमात् | अष्टाष्टकस्य विज्ञानी शिव एव न संशयः || ३-१३९ || शिरो देयं धनं देयं देया स्त्रीर्यत्नतः शिवे | वसुपूर्णं गृहं देयं त्विदं साधनमुत्तमम् || ३-१४० || रहस्यातिरहस्यं हि गोप्याद्गोप्यं महेश्वरि | प्रोक्तमेतन्मया देवि किमन्यच्छ्रोतुमिच्छसि || ३-१४१ || एतस्य फलबाहुल्यं मया वक्तुं न शक्यते | स्त्रियो देवाः स्त्रियः सृष्टिः स्त्रियः कल्याणकारिणी || ३-१४२ || स्त्रीरूपं तु महेशानि यत्किंचिज्जगतीतले | प्. ४०) एका चेत् युवती पूज्या समस्तं जगतीतलम् || ३-१४३ || स्त्रीणां दर्शनमात्रेण जगतीतलपूजनम् | कृतं भवति देवेशि नात्र कार्यया विचारणा || ३-१४४ || रूपं दृष्ट्वा तु प्रणमेद्रूपमानन्दकारकम् | रूपानन्दे समायाते किमन्यत्र प्रयोजनम् || ३-१४५ || रूपं रूपं परं धाम रूपं रूपं परं तपः | रूपं रूपं परं वस्तु न भूतं न भविष्यति || ३-१४६ || इति संक्षेपः प्रोक्तं किमन्यत् श्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उत्तरकेरले अष्टाष्टकनिरूपणं नाम तृतीयः पटलः || ३ || चतुर्थः पटलः | श्रीदेव्युवाच | अष्टाष्टकं त्वया प्रोक्तं सर्वसिद्धिकरं भुवि | किं सम्प्रदायमार्गेण पात्रज्ञानं च कीर्तितम् || ४-१ || तन्मे वद महादेव यद्यहं तव वल्लभा | श्रीशिव उवाच | रहस्य च प्रवक्ष्यामि ज्ञानं संकथ्यते शृणु || ४-२ || केरलश्चैव काश्मीरो गौडमार्गस्तृतीयकः | षट्पंचाशद्देशभेदात् सर्वत्र व्याप्य तिष्ठति || ४-३ || अष्टादशसु देशेषु गौडमार्गः प्रकीर्तितः | नेपालदेशमारभ्य कलिङ्गान्तं महे * *? || ४-४ || आर्यावर्त समारभ्य समुद्रा * * * * *? | केरलाख्यः क्रमः प्रोक्तस्तून विंशतिदेशके || ४-५ || तदन्यदेशे देवेशि काश्मीराख्यः क्रमः शुभः | शङ्करस्तु भवेद्बाह्यो वेदबाह्यो द्विजो यथा || ४-६ || केरलादिक्रमेणैव शृणु पात्रविनिर्णयम् | विश्वामित्रकपालं तु केरले परिकीर्तितम् || ४-७ || पात्रं तुम्बीकपालं तु काश्मीराख्यक्रमे भवेत् | महाकपालपात्रं च गौडमार्गे प्रकीर्तितम् || ४-८ || कपालं त्रिविधं प्रोक्तं सम्प्रदायक्रमेण च | महाकपालं त्रिविधं शंखशुक्तिकपर्द्दिकाः || ४-९ || कपर्द्दिकाभिधं पात्रं सर्वपात्रोत्तमोत्तमम् | प्. ४२) सम्प्रदायक्रमेणैव महाकपालमीरितम् || ४-१० || सामान्यार्घ्ये स्फाटिकं स्याद्विश्वामित्रं विशेषजे | रौप्यमर्घ्ये महेशानि सौवर्ण गुरुपात्रकम् || ४-११ || भैरवे शुक्तिपात्रं च वीरे शङ्खाभिधं भवेत् | शक्तिपात्रं काचभावं योगिन्यां तु कपालम् || ४-१२ || बलिपात्रं ताम्रजं च पाद्यादीनि यथाक्रमात् | रत्नजानि महेशानि तदभावे तु पूर्ववत् || ४-१३ || केरलाख्यः क्रमः प्रोक्तः काश्मीरं शृणु पार्वति | सामान्यार्घ्यं महेशानि ताम्रजेन प्रकल्पयेत् || ४-१४ || विशेषार्घ्ये यत्र तुम्बी किंवा स्फटिकजं च वा | शुक्तिजं गुरुपात्रं च घटो रौप्यसमुद्भवः || ४-१५ || भैरवे तु कपालं स्याद्वीरे मुनिकपालजम् | स्फाटिकं शक्तिपात्रं च योगिन्यास्ताम्रजं भवेत् || ४-१६ || बलिपात्रं काचमवं शुक्तिजं पाद्यकर्म्मणि | अर्घ्याचमनकर्मादौ शङ्खजं परिकीर्तितम् || ४-१७ || अन्यानि ताम्रपात्राणि शर्करोत्थं तु भोगकम् | शुक्तिपात्रं गौडमार्गे सामान्यर्घ्ये च वा भवेत् || ४-१८ || विशेषार्घ्ये कपालाख्यमभावे स्फाटिकं भवेत् | स्वर्णोद्भवो घटः प्रोक्तो गुरुपात्रं तु रौप्यजम् || ४-१९ || भैरवाख्यं महेशानि नारिकेलाभिधं भवेत् | काचपात्रं वीरपात्रं शक्तौ तु शर्करोद्भवम् || ४-२० || रत्नपात्रं तु योगिन्यां बलिपात्रं तु कूर्म्मजम् | पाद्यादीनि महेशानि यथाकालेन धारयेत् || ४-२१ || भोगपात्रं तु काश्मीरे गौडे स्यादात्मपात्रकम् | दिव्य पात्रं केरले स्यादिति पात्रस्य निर्णयः || ४-२२ || प्. ४३) विज्ञानकेरले देवि शृणु पात्रस्य निर्णयम् | शुक्तिपात्रं तु सामान्ये विशेषे नारिकेलजम् || ४-२३ || स्फाटिकं गुरुपात्रं च काचजन्यो घटो भवेत् | पात्रं तुम्बी भैरवस्य वीरपात्रं तु शार्करम् || ४-२४ || शक्तिपात्रं तु कापालं योगिन्यां ताम्रजं भवेत् | शङ्खजं वीरपात्रं च पाद्यपात्रं च ताम्रजम् || ४-२५ || रौप्यमाचमने प्रोक्तं स्वर्णमर्घ्यादिकर्मसु | अथार्घ्ये मधुपर्के च तथैवाचमने शिवे || ४-२६ || स्नानपात्रं रत्नजं स्याद्विज्ञानकेरले शिवे | केरले नारिकेलेन सर्वकार्याणि साधयेत् || ४-२७ || केवलं वीरपात्रेण सर्वपात्राणि कारयेत् | केवलं स्वर्णपात्रेण सर्वपात्राणि कारयेत् || ४-२८ || केवलं रौप्यपात्रेण सर्वपात्राणि कारयेत् | अथोक्तपात्रमध्ये तु एकेन सर्वकल्पनम् || ४-२९ || एकजातीयपात्रेण सर्वपात्राणि वा शिवे | कुर्ययाद्यत्नेन देवेशि सम्प्रदायक्रमेण च || ४-३० || कांस्यं लोहं तथा रौप्यं सौवर्णं परमेश्वरि | स्फाटिकं पारदोत्थं च तथा मारकतं शिवे || ४-३१ || रत्नवैडूर्यजं वापि नवरत्नभवं च वा | नारिकेलं महाशङ्खसम्भवं च यथोत्तरम् || ४-३२ || उत्तरोत्तरतः श्रेष्ठं सर्वसिद्धिप्रदायकम् | वृक्षेषु देवदेवेशि सर्वसिद्धिप्रदायकम् || ४-३३ || वृक्षेषु देवदेवेशि यद्यद्दारुभवं शिवे | प्. ४४) श्रीफलोत्थं खड्गजं च यथायोगेन कारयेत् || ४-३४ || अश्वत्थपत्राकारं वा कुतपाकारमेव च | त्रिकोणरूपं यत् पात्रं कुतपः परिकीर्तितः || ४-३५ || योनिरूपं कलालास्यसन्निभं सुमनोहरम् | सुन्दर्यया रत्नजं पात्रं ताराच्छिन्नाविधौ स्मृतम् || ४-३६ || दलरूपं महेशानि मंत्रमात्रे प्रकीर्तितम् | अश्वत्थपत्राकारं तु विद्यापञ्चकगोचरम् || ४-३७ || क्रियानियुक्तं देवेशि त्रित्रिशक्तौ प्रकीर्त्तितम् | त्रिशक्तिस्त्रिविधा देवि त्रितयं त्रितयं त्रिषु || ४-३८ || त्रिकोणपात्रं देवेशि मन्त्रमात्रे प्रकीर्तितम् | वर्त्तुलं वैष्णवे प्रोक्तं सालम्बा शिवगोचरा || ४-३९ || कपालपात्राभावे तु विश्वामित्रकपालजम् | तदभावे महेशानि तद्रूपं धातुगोचरम् || ४-४० || कर्त्तव्यं यत्नतो देवि बगलायां च काचजम् | वामदक्षक्रमेणैव विपरीतं तथा भवेत् || ४-४१ || अथवा देवदेवेशि कपालं सर्वगोचरम् | यत्र तुम्बीकपालं तु प्रोक्तं कापालिके मते || ४-४२ || कपालपात्रं देवेशि नीलचीनक्रमे मते | अथवा देवदेवेशि महापात्रं कपर्द्दिकम् || पात्रमध्ये कपर्द्दीशस्तत्र तिष्ठति पार्वति | त्वरितं सिद्धिदानत्वात् पञ्चविद्याविधौ स्मृतम् || ४-४४ || विश्वामित्रकपालं च ब्राह्मणस्य प्रकीर्त्तितम् | प्. ४५) तदभावे महेशानि कुलपात्रसमं परम् || ४-४५ || अर्घ्यपात्रं शुभं विद्धि सर्वसिद्धिप्रदं शिवे | वर्षाणां तु चतुःषष्टिस्ताम्रार्घ्ये देवता स्थिता || ४-४६ || शतं वर्षाणि रौप्ये च सहस्रं स्वर्णपात्रके | दशसाहस्रकं देवि स्फटिके देवता स्थिता || ४-४७ || तथा मारकते देवि रत्नजे रत्नयुग्मकम् | विश्वामित्रकपाले तु लक्षवर्षाणि पार्वति || ४-४८ || कपालपात्रे देवेशि दशलक्षाणि पार्वति | खद्गजे दशसाहस्रं मौक्तिके विंशतिः प्रिये || ४-४९ || विश्वामित्रकपाले वा कपाले वा महेश्वरि | देवता वरदाः सर्वाः स एव परमेश्वरः || ४-५० || स धन्यः स च विज्ञानी स एव दर्शनी मतः | स सर्वयज्ञयाजी च सर्वविद्यारहस्यवित् || ४-५१ || स ब्रह्मवित् सर्वमन्त्ररहस्यरूप एव हि | आनन्दात्मा परात्मा सः सकलादिप्रभेदतः || ४-५२ || विश्वामित्रकपाले वा सर्वपात्राणि कारयेत् | कपद्दर्यां वा महेशानि सर्वपात्राणि कारयेत् || ४-५३ || एके कपाले देवेशि सर्वपात्राणि भावयेत् | विश्वामित्रकपालस्य कपालस्यापि पार्वति || ४-५४ || शिवशक्त्योर्यथा ज्ञानं नहि कोऽपि विजानते | तथा कपालविज्ञानं नहि कोऽपि विजानते || ४-५५ || कपर्द्दी च भवेद्यद्यत्तदेव नारिकेलतः | पात्रमालां यथा यन्त्रं कारयेत् परमेश्वरि || ४-५६ || प्. ४६) तृतीयः स्फाटिको देवि सकलो निष्कलो मतः | सूर्ययाद्वह्निकरो देवि सकलः परिकीर्त्तितः || ४-५७ || पूर्वोत्तरप्रभेदेन चापरं सकलं शृणु | चन्द्रदर्शनमात्रेण पौर्णमायामथाश्विने || ४-५८ || सकलः कीर्त्तितो देवि जलस्रावी महोत्तमः | कालीं तारां तर्पयेद्धि तेनामृतजलेन च || ४-५९ || केरलाख्ये सम्प्रदाये नारिकेलार्घ्यपूजनम् | काश्मीराख्ये सम्प्रदाये स्फाटिकार्घ्यप्रपूजनम् || ४-६० || गौडमार्गे महेशानि कपालार्घ्ये प्रपूजनम् | काश्मीरगौडयोर्देवि द्रव्यभेदोऽस्ति वै क्वचित् || ४-६१ || नारिकेलं समादाय सुपक्वं सुन्दरं दृढम् | मध्ये स्फोटं समाचर्य नेत्रनासासुलक्षणम् || ४-६२ || नेत्रद्वयं तु संस्थाप्य चारुरूपं गुणोत्तरम् | नववर्णमयं कृत्वा पञ्चवर्णमयं च वा || ४-६३ || रौप्यनेत्रे स्वर्णनेत्रे नीलरत्नादिनेत्रके | समासाद्य महेशानि तत्र नासां समाचरेत् || ४-६४ || नेत्रयुग्मस्य मध्ये तु मुखं कार्यं महेश्वरि | ईदृशं सूक्ष्मरूपं च मालार्थे परिकीर्त्तितम् || ४-६५ || तद्रूपं स्फाटिकोत्थं च काश्मीराख्यमते मतम् | त्रिकोणयोनिरूपो वा स्फाटिकः शुभदायकः || ४-६६ || गौडे कपालं संप्रोक्तं नासायां मुखमाचरेत् | ऊर्ध्वाम्नायः केरलः स्यात् काश्मीरः पश्चिमो भवेत् || ४-६७ || विलासाख्यो वैष्णवाख्यो दक्षिणाम्नाय एव च | पूर्वे चैतन्य आख्यातस्तूत्तरे गौड एव च || ४-६८ || प्. ४७) विद्यासङ्केतभेदाभ्यां कपालं तारिणीत्रयम् | महाशङ्खेऽप्यसक्तश्चेत् स्फाटिक्या मालया जपेत् || ४-६९ || कपालालाभतो देवि स्फाटिकं कारयेद्ध्रुवम् | पात्राणां निर्णयं वक्ष्ये संख्याभेदक्रमेण च || ४-७० || सम्प्रदायक्रमेणैव पात्राणां स्थापनं शिवे | महाकलाकलारन्ध्रवर्णेति वेद्य भावयेत् || ४-७१ || सामान्यार्घ्यो भवेदादौ सामान्यार्घ्यो द्विधा स्मृतः | सकलो निष्कलश्चैव सकलो द्वारपूजनात् || ४-७२ || निष्कलः केवलो यश्च निष्कलः सर्वगोचरः | सामान्यार्घ्यद्वयं देवि घटश्चैव तृतीयकः || ४-७३ || विशेषार्घ्यश्चतुर्थः स्याद्गुरुपात्रं तु पञ्चमम् | दिव्यौघाख्यं च संप्रोक्तं सिधौघाख्यं रसाभिधम् || ४-७४ || मानवौघाभिधं देवि सप्तमं परिकीर्त्तितम् | गुरुपात्रं ततः प्रोक्तं भैरवाख्यं च रन्ध्रकम् || ४-७५ || शक्तिपात्रं च दशमं वीरपात्रं शिवाभिधम् | ततः श्रीयोगिनीपात्रं सूर्ययसंख्याभिधं भवेत् || ४-७६ || नव वै बलिपात्राणि सकलादिप्रभेदतः | बल्यर्पणाभिधं पात्रं सकलं परिकीर्त्तितम् || ४-७७ || निष्कलानि महेशानि वटुकादीनि सिद्धयः | वटुको योगिनीक्षेत्रं गणपाः परमेश्वरि || ४-७८ || सर्वभूतानि देवेशि ताराक्षोभ्यस्तथैव च | पाद्यत्रयं तथा देवि प्रोक्तमाचमनीयकम् || ४-७९ || अर्घ्यपात्रत्रयं देवि मधुपर्के त्रयं भवेत् | प्. ४८) पञ्चामृते पञ्चकं च स्नानार्थं गुणसंख्यकम् || ४- ८० || ततस्तु प्रोक्षणीपात्रं करक्षालनजं ततः | गन्धपात्रं पुष्पपात्रं ततो नैवेद्यपात्रकम् || ४-८१ || शुद्धोदकाभिधं पात्रं भोगात्मपात्रकं ततः | ततः पाचकपात्रं तु ततो नीराजनादिकम् || ४-८२ || स्थानीयपीठपात्रं च दीपपात्रचतुष्टयम् | घृततैले दक्षवामे सौगन्ध्यमदने तथा || ४-८३ || पात्राणां च चतुःषष्टिः संख्या प्रोक्ता तु केरले | काश्मीरे पीठमेवं स्यात् कलासंख्यानि वै शृणु || ४-८४ || दिव्योत्तमोत्तमौ प्रोक्तौ सद्यः सिद्धिकरौ परौ | अथ षोडशपात्राणि शृणुष्व परमेश्वरि || ४-८५ || सामान्यार्घ्यं विशेषार्घ्यं श्रीपीठं गुरुपात्रकम् | भैरवाख्यं पञ्चमं तु वीरपात्रं रसाभिधम् || ४-८६ || शक्तिपात्रं योगिनीं च बलिपाद्ये तथैव च | आचमनीयाख्यपात्रं चार्घ्यपात्र तथैव च || ४-८७ || मधुपर्काभिधं पात्रं पञ्चामृतमनन्तरम् | स्नानपात्रं हस्तशुद्धिपात्रं च प्रोक्षणीं तथा || ४-८८ || पात्रं षोडशकं प्रोक्तं केरले पश्चिमेऽपि च | मधुपर्कोत्तरं देवि शङ्खेति कौलिकेऽपि च || ४-८९ || चिदानन्दसम्प्रदाये शृणु पात्राणि पार्वति | सामान्यं च विशेषं च कलशं गुरुपात्रकम् || ४-९० || भोगपात्रं शक्तिपात्रं योगिनीवीरपात्रके | बलिपाद्याचमनीयं च अर्घ्यस्नानाभिधं प्रिये || ४-९१ || प्. ४९) देवीशङ्खेति देवेशि पात्राण्येवं तु षोडश | अथवा कलशं शङ्खं शक्तिपात्रत्रयं भवेत् || ४-९२ || श्रीगुरुभोगपात्राणि त्रिषु पात्रेष्वयं विधिः | आनन्दाख्ये मते देवि पात्राणि कीर्त्तितानि च || ४-९३ || सामान्यार्घ्यो विशेषार्घ्यो घटः श्रिगुरुभोजनात् | शक्तिपात्रं योगिनी च वीरपात्रं बलिस्तथा || ४-९४ || पाद्यमाचमनीयं च भोगचाराभिधे भवेत् | देवीपात्रं श्रीगुरुश्च भोगश्च योगिनी तथा || ४-९५ || बलिपात्रं शक्तिपात्रं वीरपात्रं तथैव च | तथाचमनपात्रं च चिदानन्देष्वयं विधिः || ४-९६ || देवीगुरुभोगपात्रं योगिनीब्रह्मशक्तिजम् | सिद्धचैतन्यमार्गस्य पात्राणि परमेश्वरि || ४-९७ || योगिनीवीरपाद्यादि पंचचक्रमते भवेत् | आनन्दवीरदेवस्य क्रमः प्रोक्तो महेश्वरि || ४-९८ || सामान्यार्थ्यो विशेषार्घ्यः कलशो गुरुभैरवः | एते सर्वादौ संप्रोक्ताः सामान्यपरिभाषया || ४-९९ || बलिः पाद्याचमनीये च अर्घ्येति नव पार्वति | पंचमानन्दनाथस्य मार्गः प्रोक्तो मया तव || ४-१०० || पंचकं भोगशक्ती च विश्वरूपाभिधे भवेत् | देवीगुरुभोगशक्तियोगिनीवीरपात्रकम् || ४-१०१ || बलिः पाद्याचमनीये च अर्घ्येति योगरूपजे | सृष्टिसंहारमार्गेण परिवर्तक्रमेण च || ४-१०२ || ओड्यानं चतुरस्रं च कामरूपं च वर्त्तुलम् | प्. ५०) जालन्धरं त्वर्द्धचन्द्रं त्र्यस्रः पूर्णगिरिर्भवेत् || ४-१०३ || शङ्खमंत्र भोगपूजाबलिपात्राणि पंच च | स्वदक्षिणादिवामान्तं संस्थाप्य पूजयेच्छिवाम् || ४-१०४ || कुलनाथमतं प्रोक्तं भैरवस्य मतं शृणु | स्ववामभागे देवेशि अर्घ्यादिस्थापनक्रियाम् || ४-१०५ || पाद्यार्घ्याचमनीयानि सामान्यार्घ्यविशेषकम् | सामान्यार्घघटो देवि श्रीपात्रं देवताग्रके || ४-१०६ || स्ववामे कलशस्याङ्के मधुपर्को महेश्वरि | तद्दक्षिण आचमनीयं पाद्यं यत्नेन संचरेत् || ४-१०७ || निवापाख्यमतं प्रोक्तं संक्षेपेण महेश्वरि | अथ वक्ष्यामि देवेशि शम्भुनाथमतं शृणु || ४-१०८ || आदौ कुम्भं तथा शङ्खं श्रीपात्रं शक्तिपात्रकम् | गुरुपात्रं भोगपात्रं बलिपाद्यादिपात्रकम् || ४-१०९ || योगिनीवीर पात्रं च वामावर्तक्रमेण च | सामान्यार्घ्यघटं चैव श्रीपात्रं तदनन्तरम् || ४-११० || श्रीपात्रघटयोर्मध्ये सर्वपात्राणि पातयेत् | गुरुपात्रं घटस्यान्ते तदन्ते भोगपात्रकम् || ४-१११ || तदन्ते शक्तिपात्रं च योगिनीनां तु पात्रकम् | तदन्ते वीरपात्रं च तदन्ते बलिपात्रकम् || ४-११२ || पाद्यं चाचमनीयञ्च तदन्ते चार्घ्यपात्रकम् | पुनराचमनीयं च मधुपर्कस्तथैव च || ४-११३ || स्नानीयं प्रोक्षणी चेति काश्मीराख्ये कलाभिधाः | करक्षालनजं चैव तथा पञ्चामृतेति च || ४-११४ || तदाष्टादश पात्राणि काश्मीराख्यमते शिवे | प्. ५१) सामान्यार्घ्यविशेषार्घ्यो श्रीघटः परमेश्वरि || ४-११५ || घटान्ते गुरुपात्रं च तदन्ते भैरवाभिधम् | शक्तिपात्रं ततः प्रोक्तं वीरपात्रं ततः शिवे || ४-११६ || बलिपात्रं योगिनां च पानपात्रं तथैव च | भोगपात्रं च देवेशि नव पात्राणि पार्वति || ४-११७ || पाद्यादीनि महेशानि सामान्यत्वेन पश्चिमे | तद्दक्षिणे पाद्यपात्रमर्घ्यमाचमनीयकम् || ४-११८ || प्रोक्षणीति महेशानि स्थापयेदाद्यवत् शिव | गुरुपात्रं तत्पदाभ्यां भैरवं बटुकेन च || ४-११९ || शक्तिपात्रं भुवनेश्या वीरपात्रं शिवेन च | बलिपात्रं गणेशाद्यैर्योगिन्यां तन्मनुर्भवेत् || ४-१२० || अन्यानि प्रणवेनैवं सर्वपात्रेष्वयं विधिः | विशेषार्घ्येण दिव्यौघान् गुरुपात्रे गुरून् यजेत् || ४-१२१ || पुरुषं भैरवेणैवं श्रीपात्रेणाऽमृतेश्वरि | मूलदेवीपदे देवी प्रोक्ता तु मूलशारदा || ४-१२२ || आनन्दभैरवं देवं भैरवेन प्रतर्पयेत् | बलिना तु गणेशादीन् योगिन्या योगिनीं शिवे || ४-१२३ || हृदि देवीं विशेषेण श्रीपात्रेण तु सावृतिम् | विशेषेण हृदा प्रोक्तः प्रोत्सर्गः श्रीजलेन च || ४-१२४ || अन्येषां चैव सामान्यपात्रेण परमेश्वरि | वीरपात्रेण लोकेशाः शक्त्या ब्राह्म्यादिमातरः || ४-१२५ || विशेषपात्राद्या पूजा सा पूजा सर्वतोत्तमा | प्रत्यावृत्तौ महेशानि देवताभ्यो निवेदनम् || ४-१२६ || प्. ५२) प्राणायामप्रमाणं च षडङ्गध्यानके ततः | पुनरावरणं पूज्यं पञ्च षोडश वै दश || ४-१२७ || जपं कृत्वा सन्निवेद्य प्राणायामादिपूर्वकम् | पुनरावरणं पूज्यं प्रोक्तमावरणक्रमः || ४-१२८ || एवं क्रमेण देवेशि सर्वावृतिं प्रपूजयेत् | प्रत्यावृत्तो प्रोक्तमुद्रां दर्शयेद्विधिपूर्वकम् || ४-१२९ || अनुक्तमुद्रावरणे तदायुधमयी भवेत् | संघट्टना योनिमुद्रा खेचरी च तदायुधा || ४-१३० || यदावरणसंक्षेपस्तदावरणमयी च सा | विस्तारश्चेत् महेशानि संघट्टाद्यास्तदन्तकाः || ४-१३१ || पुनः पुष्पाञ्जलिं दत्त्वा सायुधेति सवाहना | सशक्ती च समुद्रा च ससिद्धी च समुच्चरेत् || ४-१३२ || सम्प्रदायत्रयेऽपि स्यात्काण्डानुसमयो ह्यहम् | सामान्यार्घ्यघटे देवि विशेषार्घ्यस्तृतीयकः || ४-१३३ || पात्रत्रयक्रमेणैव पूजनं वा भवेत् शिवे | सामान्यं च विशेषं च श्रीघटश्च तृतीयकः || ४-१३४ || केवलं तु विशेषेण पूजनं तु महेश्वरि | गौडमार्गे महेशानि पात्राणां निर्णयं शृणु || ४-१३५ || सामान्यं द्वितयं देवि द्वारदेशान्तमार्गतः | देवाग्रे तु विशेषार्घ्यो घटान्ते गुरुपात्रकम् || ४-१३६ || श्रीपात्रसंज्ञा देवेशि विशेषार्घ्ये प्रकीर्तिता | भोगपात्रं ततो देवि शक्तिपात्रं ततः शिवे || ४-१३७ || योगिनीवीरपात्रे तु बलिपात्रं ततः शिवे | प्. ५३) आचमनीयं महेशानि प्रोक्तमन्यद्विशेषतः || ४-१३८ || अर्घ्यत्रयं गुरोः पात्रं भैरवीपात्रकं ततः | शक्तिपात्रं योगिनी च बलिपात्रं ततः शिवे || ४-१३९ || अर्घ्यस्य त्रीणि पात्राणि पाद्यस्यापि त्रयं भवेत् | आचमने त्रयं देवि मधुपर्कस्ततः शिवे || ४-१४० || स्नानीयं करशुद्धिश्च यजुर्गौडे विधिः स्मृतः | स्वदक्षे प्रोक्षणीपात्रं आदायाद्भिः प्रपूरयेत् || ४-१४१ || किंचिदर्घ्याम्बु संगृह्य प्रोक्षण्यम्भसि योजयेत् | ततः साधारकं पात्रं पुरतः स्थापयेद्बुधः || ४-१४२ || तत्पार्श्वे पाद्यदानं च तत्पार्श्वे चार्घ्यदानकम् | आचमनीयं च तत्पार्श्वे वामे तु मधुपर्ककम् || ४-१४३ || पुनराचमनीयं च स्नानीयं तत् क्रमान्न्यसेत् | गन्धपुष्पं तथा दक्षे पृष्ठे तु करक्षालनम् || ४-१४४ || स्ववामे स्थापयेत् कुम्भं वामहस्तेन धारयेत् | ओं आ/ इति च मन्त्रेण पार्श्वे धृत्वा च तज्जलम् || ४-१४५ || नु क्षौर इति मन्त्रेण देवतीर्थेन संस्पृशेत् | आत्मानं यागवस्तूनि गन्धपुष्पादिकानि च || ४-१४६ || प्रोक्षयेत् प्रोक्षणीतोयैर्गायत्र्या मूलमन्त्रतः | साध्यसाधकयोर्मध्ये षट्त्रिंशदङ्गुलं भवेत् || ४-१४७ || द्वादशाङ्गुलमूर्द्ध्वं च अधोभागे तथाङ्गुलम् | द्वादशाङ्गुलमध्यस्य तत्र संस्थापयेद्बुधः || ४-१४८ || आत्मनः पुरतो वामे त्रिकोणं विलिखेद्भुवि | सार्धद्वादश वै देवि चार्घ्यार्थं द्वादश प्रिये || ४-१४९ || प्. ५४) आराधनं स्थापनं च पूजनं पूरणं तथा | गन्धपुष्पे मण्डलस्य विन्यासः पुष्पसंश्रयः || ४-१५० || अमृतीकरणं पात्रं प्रतिपत्तिरियन्नव | सामगौडे विधिरयं संक्षेपेण प्रकाशितः || ४-१५१ || पात्राणां विंशतिः शिवे सामगौडे विधिः शिवे | आद्यत्रयं गुरुर्भोगः शक्तिश्च योगिनी शिवे || ४-१५२ || वीरपात्रं बलिपात्रं पाद्यार्घ्याचमनीयकम् | करक्षालनपात्रं च मूलानां च प्रवर्तकम् || ४-१५३ || सामान्यार्घ्यादाचमान्तमर्घ्यं च करशुद्धिजम् | उच्छिष्टबलिपात्रं च बलिपात्राणि सप्त च || ४-१५४ || अथ पाचकपात्रं च क्रूरगौडे विधिः शिवे | एकविंशतिपात्राणि गौडे चैवात्र सन्ति च || ४-१५५ || शाक्ते प्रोक्तमिदं देवि वीरशाक्ते तु शङ्करि | शङ्खं न मुख्यं देवेशि शैवे शाक्ते न कारयेत् || ४-१५६ || लोक सन्दर्शनार्थं तु शङ्खस्य स्थापनं चरेत् | शैवे पङ्क्तिक्रमेणैव पात्राणां स्थापनं चरेत् || ४-१५७ || सामान्यार्घ्यो विशेषश्च घटश्च पाद्यपात्रकः | आचमनीयं तथार्घ्यं च पुनराचमनीयकम् || ४-१५८ || मधुपर्कामृते देवि स्नानीयं प्रोक्षणी तथा | शक्तियुक्तो यदा शम्भुस्तदा कलशपूजनम् || ४-१५९ || नो चेत्तु जलवत् स्थाप्य पूज्यो वैदिककर्मणा | पूर्णदीक्षाप्रयुक्तश्चेच्छक्तिपात्रादिकं चरेत् || ४-१६० || प्. ५५) बिल्वपात्रेण देवेशि विश्वामित्रेण वाचरेत् | वैष्णवे तु महेशानि पुरः सामान्यपात्रकम् || ४-१६१ || शङ्खपात्रं वामभागे स्वस्य देवस्य पार्वति | पूजाद्रव्यं दक्षभागे तन्मध्ये परमेश्वरम् || ४-१६२ || वैष्णवे देवदक्षे तु शङ्खं तद्दिक्षु पार्वति | पाद्यार्घ्याचमनीयं च मधुपर्कं क्रमाद्भवेत् || ४-१६३ || तदुदकषट्पात्रं च जलसंस्थापनाय च | सिद्धकल्पितदिङ्मार्गाद्वामदक्षे घटो भवेत् || ४-१६४ || शक्तियुक्तवैष्णवस्य प्रोक्तमेतन्मया तव | अयुक्तस्य महेशानि न सामान्यघटो भवेत् || ४-१६५ || विशेषदीक्षितश्चेत्स्याच्छक्तिवीरादि कारयेत् | शैवेपि स्वस्य दक्षात्तु सामान्यात्प्रोक्षणीति च || ४-१६६ || तदन्ते स्थापयेद्देवि सौरे शृणु महेश्वरि | सौरे गौडे च सामान्याद्द्वावर्ष्यौ सूर्यगोचरौ || ४-१६७ || विशेषात् प्रोक्षण्यन्तं च स्थापयेत्परमेश्वरि | जैने बौद्धे तु तारावद्भैरवे कालिकाविधिः || ४-१६८ || दर्शनायतने देवि विशेषार्घ्यघटादिकम् | प्रोक्षण्यंतं समासाद्य केरलादिक्रमेण च || ४-१६९ || गणेशे चोभयं देवि शङ्खस्त्वाचमने भवेत् | सामान्यार्घ्ये भवेद्वारि सामान्यं च विशेषकम् || ४-१७० || श्रीपात्रमिति देवेशि चार्घ्ये स्वायंभुवेऽपि च | गणेशवत्प्रकर्तव्यं नान्यथा शाङ्करं वचः || ४-१७१ || सर्वत्र शक्तियोगैश्च शाक्तवत् परमेश्वरि | प्. ५६) वामावर्त्तक्रमेणैव गौडे कौले तु पात्रकम् || ४-१७२ || काश्मीरे दक्षवदने केरले मण्डलक्रमात् | केवलं शङ्खमात्रेण केरले चरितार्थता || ४-१७३ || पूजोपकरणं दक्षे पृष्ठे नैवेद्यमेव च | करक्षालनपात्रं तु स्वपृष्ठे परिकीर्त्तितम् || ४-१७४ || घृतदीपो भवेद्दक्षे तैलदीपो हि वामतः | त्रिकोणाकारतो वापि वह्निचक्रक्रमेण च || ४-१७५ || मेधादीक्षाविधौ देवि स्थापनं परिकीर्तितम् | सर्वपात्राणि संस्थाप्य स्ववामे तु घटोत्तरे || ४-१७६ || घटस्य तु मुखं देवि परितः परिकीर्त्तितम् | शङ्खस्य देवी शङ्खस्य मुखे तु देवताग्रतः || ४-१७७ || पूजयामि तर्पयामि नमोऽन्तं केरले मतम् | तर्पयामि पूजयामि नमः काश्मीरगोचरः || ४-१७८ || हृदयस्यास्य योगे तु साम्राट्केरल ईरितः | पूजयामि नमो देवि तर्पयामि नमस्तथा ||| ४-१७९ || आदिकेरलसाम्राज्ये महत्पूर्वादि कीर्त्तितम् | नमः पूजा तर्पणे तु केरले परमेश्वरि || ४-१८० || पूर्णानन्दश्चिदानन्दो बोधानन्दः प्रकीर्त्तितः | अष्टौ भेदा महेशानि हृदाद्यन्तप्रयोगतः || ४-१८१ || मध्ययोगादपि शिवे सभेदाः परिकीर्त्तिताः | आदौ मध्ये तथा चान्ते बलिदानं तु गौडके || ४-१८२ || आदौ च बलिदानं च काश्मीरे परिकीर्त्तितम् | अन्ते बलिः केरले तु केवलं तर्पणं यदि || ४-१८३ || प्. ५७) विलासाख्यस्तदा देवि पूजनं तर्पणं च वा | विश्वरूपविधौ देवि केरले पूजने सति || ४-१८४ || श्रीपूर्वा पादुका वापि केवलापादुकापि वा | तद्देवतातर्पणं वा ह्रस्वं दीर्घं च वा प्रिये || ४-१८५ || सबिन्दुं वा महेशानि संपूर्णं वा समाचरेत् | चीनमार्गेऽपि तारिण्यां मंजुघोषेऽपि पार्वति || ४-१८६ || वज्रपुष्पं प्रतीच्छेति स्वाहान्तेन प्रपूजनम् | वामावर्त्तक्रमेणैव दक्षवामक्रमेण च || ४-१८७ || केवलं दक्षावर्त्तेन केवलं वामहस्ततः | भेदाष्टत्रिंशतिः शिवे कीर्त्तितः परमेश्वरि || ४-१८८ || केवलानन्दयोगेन केवलानन्दयोगतः | आनन्दनाथयोगेन नाथानन्दक्रमेण च || ४-१८९ || सिद्धमानवदिव्यादिप्रज्ञाचैतन्यबोधतः | विलासक्रमयोगेन तथा सरस्वतीक्रमात् || ४-१९० || वक्ष्यमाणक्रमेणैव भेदबाहुल्यमीरितम् | इति संक्षेपतः प्रोक्तं विशेषः कथ्यते प्रिये || ४-१९१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे पात्रनिर्णयकथनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु पार्वति || ५-१ || सद्ब्रह्मवासनां कृत्वा पूर्वं परशिवस्थिता | ध्यानस्य संश्रुतिर्जाता सा ब्रह्मवासनागता || ५-२ || यदारभ्य परं रूपं विज्ञानं सुमनोहरम् | रूपं धृतं महेशानि तदारभ्य प्रपंचता || ५-३ || यदि कादिमतं चैकं वर्त्तते परसुन्दरि | तदा पुमांसः सर्वेऽपि महाकालस्वरूपिणः || ५-४ || सर्वाः स्त्रियो महेशानि कालीतारामयाः स्मृताः | एवं बुद्धिर्यदा चेत्स्यान्नहि संसारकल्पना || ५-५ || संसारोत्पत्तिकार्ययार्थं प्रपञ्चोऽयं विनिर्मितः | शाक्तं शैवं गाणपत्यं वैष्णवं सौरबौद्धकम् || ५-६ || एवं क्रमेण देवेशि मतमेतद्विनिर्मितम् | मतानि बहुसंख्यानि तदारभ्य महेश्वरि || ५-७ || संजातानि महेशानि प्रपञ्चार्थं हि निश्चितम् | अम्भोधिर्जलधिश्चैव समुद्रः सागरो यथा || ५-८ || यथा एते तु पर्ययायास्तथैतानि मतानि च | प्. ५९) वैदिके शक्तिनिन्दा च शैवे वैष्णवनिन्दनम् || ५-९ || वैष्णवे गणनिन्दा च गाणपे सौरनिन्दनम् | सौरे चान्द्रस्य निन्दा च चान्द्रे बौद्धस्य निन्दनम् || ५-१० || स्वायम्भुवस्य निन्दा च बौद्धमार्गे महेश्वरि | सौभर्यां चीननिन्दा च चीने जैनस्य निन्दनम् || ५-११ || पौराणे जैननिन्दा च जैने पौराणनिन्दनम् | पौराणे मन्त्रशास्त्रस्य निन्दनं परमेश्वरि || ५-१२ || धर्मशास्त्रे महेशानि तथा कौलिकनिन्दनम् | एवं भिन्नमतान्येवं संजातानि महेश्वरि || ५-१३ || वेदानां शास्त्रबाहुल्यं प्रपंचार्थं महेश्वरि | एवं निन्दासमापन्ने भेदे जाते महेश्वरि || ५-१४ || नैकत्र तु मनो लग्नं कस्यचित्परमेश्वरि | सर्वत्रान्योन्यनिन्दा च तदैक्यं न प्रजायते || ५-१५ || तदैक्यस्य सुसिद्ध्यर्थं प्रपंचार्थं प्रकीर्त्तितम् | भीन्नं भीन्नं प्रशंसन्ति निन्दन्ति च परस्परम् || ५-१६ || न विद्यासिद्धिमाप्नोति संभ्रमन्ति पिशाचवत् | अन्योन्यैर्यदि निन्दा न तदैक्यं च प्रजायते || ५-१७ || तदैक्यस्य सुसिद्ध्यर्थं कालिकां तारिणीं यजेत् | पुनर्वै दैत्यनाशाय भक्तानुग्रहणाय च || ५-१८ || सुन्दरं क्रूरमत्युग्रं रूपं संबिभ्रती शिवा | रूपमेतत् प्रपंचार्थं कीर्त्तितं तु मया तव || ५-१९ || पुराणन्यायमीमांसासांख्यपातञ्जलस्तथा | वेदान्तो व्याकृतिर्देवि धर्मशास्त्राङ्गमिश्रिताः || ५-२० || प्. ६०) छन्दो ज्योतिर्वैद्यकादि विद्या एताश्चतुर्द्दश | प्रपञ्चार्थं मया प्रोक्तमेकत्वं परिणामजे || ५-२१ || प्रकृतं कथ्यते देवि शृणु सावहिता भव | चतुर्वेदेश्वरी प्रोक्ता श्रीमहाभवतारिणी || ५-२२ || अथर्ववेदाधिष्ठात्री श्रीमहाकालिका परा | विना कालीं विना तारां नाथर्वणविधिः क्वचित् || ५-२३ || केरले कालिका प्रोक्ता काश्मीरे त्रिपुरा मता | गौडे तारेति संप्रोक्ता सैव लोकोत्तरा भवेत् || ५-२४ || हादौ त्रितयमेतद्धि संक्षेपेण प्रकीर्त्तितम् | अथ कादौ केरले तु त्रिपुरा सा प्रकीर्त्तिता || ५-२५ || काश्मीरे तारिणी बाला गौडे काली प्रकीर्त्तिता | शिवदेवी परा जाता दक्षिणामूर्त्तिभेदतः || ५-२६ || अथानन्दभैरवाख्यमतभेदेन पार्वति | देवीसकाशाद्या प्राप्ता स्वगुर्वन्तं तु शक्तितः || ५-२७ || शक्तेः परम्परा या तु न विच्छिन्ना महेश्वरि | तन्नामाज्ञाक्रमेणैव ज्ञेया देवी परंपरा || ५-२८ || शम्भोः सकाशाद्या प्राप्ता स्वगुर्वन्तं महेश्वरि | तन्नामाज्ञाक्रमेणैव सा शिवस्य परपरा || ५-२९ || दक्षिणामूर्त्तितो देवि स्वगुर्वन्तक्रमेण च | तन्नामाज्ञाक्रमेणैव सा वै तस्य परंपरा || ५-३० || अविच्छिन्ना यदा सा वै चतुःशङ्करयोगतः | तदान्यः सम्प्रदायो हि भविष्यति महेश्वरि || ५-३१ || केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः | प्. ६१) चतुर्णामपि देवेशि त्रितयं तिष्ठति प्रिये || ५-३२ || गृह्णामि च प्रगृह्णीयात् विलासे पानकर्म्म च | जुहोमि च जुषस्वेति केरले पानकर्म च || ५-३३ || होष्यामि प्रजुषस्वेति काश्मीरे पानमीरितम् | सदा मत्तो भवेन्नाथो विद्यासिद्धादिपानतः || ५-३४ || अनुक्रमेण त्रितये पूजानन्दी यदा नरः | नन्दनाथी च संप्रोक्तस्तद्रूपो यस्तु मानवः || ५-३५ || महानन्दाभिधः प्रोक्तो गौडे पानक्रमं शृणु | वामहस्तात् पानपूजा क्रमाद्वामी प्रकीर्त्तितः || ५-३६ || दक्षहस्तात् पानयोगाद्वामहस्तप्रतर्पणात् | दक्षहस्तात्पूजनाद्धि कौल इत्यभिधीयते || ५-३७ || केवलं दक्षहस्तेन पूजनाद्दक्षिणाभिधः | स एव केरलः प्रोक्तः शुद्धमार्गः प्रकीर्त्तितः || ५-३८ || दक्षिणामूर्त्तिभेदे तु दिव्यौघादित्रयं भवेत् | तद्भेदेन त्रिभेदत्वं प्रत्येकं नवभेदता || ५-३९ || आनन्दभैरवमते पञ्चाशीतिगुरुक्रमः | दिव्यसिद्धमानवादि पञ्चाशीतिः प्रकीर्त्तितः || ५-४० || प्रत्येकं त्रितयत्वेन सप्तसप्तक्रमेण तु | पञ्चषष्ठी तु संप्रोक्ता नामाज्ञा तत्क्रमेण च || ५-४१ || नवनाथक्रमेणैव नव भेदा भवन्ति च | चतुरशीतिसिद्धानां क्रमदीक्षाप्रभेदतः || ५-४२ || चतुरशीतिभेदाश्च तन्नामाज्ञाक्रमेण च | ऋणं धनं च विज्ञाय नामाज्ञां दापयेद्गुरुः || ५-४३ || प्. ६२) ऋणचक्रं प्रवक्ष्यामि षड्भेदेनापि पार्वति | साध्यार्ण साधकार्णादि व्यञ्जनस्वरभेदतः || ५-४४ || तावदङ्कास्तु संग्राह्या मातृकागणनाक्रमात् | साध्यनामत्रिगुणितं साधकेन समन्वितम् || ५-४५ || सप्तभिस्तु हरेद्भागं तदन्यद्विपरीतकम् | पूर्वाङ्कवैपरीत्येन ऋणिधनविशोधनम् || ५-४६ || यस्याधिकाङ्को देवेशि स एव हि ऋणी मतः | न्यूनाङ्को यस्य देवेशि स धनी परिकीर्त्तितः || ५-४७ || साधकस्य धनित्वं च विद्यायास्तु ऋणित्वकम् | गुणनं निर्धनं वापि त्रिभिर्वा सप्तभिश्च वा || ५-४८ || त्रिसप्तव्यत्ययत्वेन नियमः परिकीर्त्तितः | यत्र द्वाभ्यां वर्द्धनं तु गजैस्तत्र तु भेदनम् || ५-४९ || शून्यं दृष्ट्वा न भागोऽस्ति संक्षेपादिदमीरितम् | वर्धनं तु त्रिभिर्यत्र सप्तभिर्भेदनं ततः || ५-५० || यत्राष्टभिर्भेदनं तु तत्र द्वाभ्यां तु वर्धनम् | मन्त्रसाधकयोर्वर्णान् गणनाविधिपूर्वकम् || ५-५१ || भिन्नान् कृत्वाऽथवा देवि स्वरव्यञ्जनभेदतः | साध्यनामद्विगुणितं साधकेन समन्वितम् || ५-५२ || अग्निभिस्तु हरेद्भागं तदन्यद्विपरीतकम् | मन्त्रसाधकवर्णानां पञ्चाशन्मातृकाक्रमात् || ५-५३ || कियत्तमो भवेद्वर्णस्तावदङ्कांस्तु संहरेत् | स्वरव्यञ्जनभेदेन अथवा वर्णमात्रकम् || ५-५४ || तावदङ्कास्तु कर्त्तव्या वर्णानामुभयोरपि | प्. ६३) मंत्रार्णान् त्रिगुणीकृत्य साधकेन समन्वितम् || ५-५५ || सप्तभिस्तु हरेद्भागं तदन्यद्विपरीतकम् | अन्यत्र तु प्रकरणात् गुणनं भाजनं भवेत् || ५-५६ || इष्टाङ्कत्वेन गुणनं भाजनं चात्र कीर्त्तितम् | यथाङ्कक्रमयोगेन कीर्त्तितं तु मया तव || ५-५७ || नामाक्षरं समारभ्य यावन्मन्त्रादिमाक्षरम् | त्रिधा कृत्वा स्वरैर्भिद्यात्तदन्यद्विपरीतकम् || ५-५८ || मन्त्राद्यक्षरमारभ्य यावन्नामाक्षरं शिवे | सप्त कृत्वा त्रिधा भिद्यात्तदन्यद्विपरीतकम् || ५-५९ || मातृकावैपरीत्येन मंत्रं नामाक्षरात्मकम् | त्रिधा कृत्वा त्रिभिर्हत्वा मंत्रराशिरियं भवेत् || ५-६० || अन्यानि ऋणचक्राणि कीर्त्तितानि मया तव | भक्तिरूपं ऋणं देवि यथावदवधारय || ५-६१ || कोटितंत्रेषु गुप्तं च तदद्य प्रकटीकृतम् | पूर्वसेवानुषङ्गेण भक्तिर्यत्र दृढा भवेत् || ५-६२ || स मंत्रस्तु ऋणी ज्ञेयो भक्तिरूपं ऋणं प्रिये | नो चेद्भक्तिः कथं देवि भक्तिरूपं ऋणं प्रिये || ५-६३ || इति क्रमेण संप्रोक्तं ऋणिधनविशोधनम् | ऋणं धनं च विज्ञाय नाम दद्यान्महेश्वरि || ५-६४ || अन्यथा नामदाने तु नामानुरूपकं फलम् | न भवेत्परमेशानि भ्रष्टो भवति साधकः || ५-६५ || स मूर्खस्त्वं न जानाति देवे द्वेषपरः कलौ | सर्वमेवं तु विज्ञाय नामाज्ञां दापयेद्गुरुः || ५-६६ || प्. ६४) दिव्यसिद्धमानवे तु फलं च उत्तरोत्तरम् | श्रीदेव्युवाच | नामदानं कथं कार्ययं दर्शनेष्वपि षट्स्वपि || ५-६७ || षडाम्नायेषु देवेश तथा शाम्भवयुग्मके | पञ्चाम्नाये तथा वेदाम्नाये च परमेश्वर || ५-६८ || मेधासाम्राज्यदिव्यान्तःसाम्राज्येन महेश्वर | नामदानं कथं कार्यं तन्मे कथय शङ्कर || ५-६९ || श्रीशिव उवाच | रहस्यातिरहस्यं तु त्वया संपृच्छयते शिवे | अहं जानामि सा काली तारा जानाति नेतराः || ५-७० || ओघाः किंचिच्च जानन्ति तत्रापि दिव्यरूपिणः | सर्वथा गोप्यतां देवि न वाच्यं यस्य कस्यचित् || ५-७१ || षट्चक्रं तत्र संप्रोक्तं चतुःसंज्ञाविधायकम् | प्रथमे वर्णवेधोऽस्ति स्वरवेधो द्वितीयके || ५-७२ || तृतीये शून्यवेधोऽस्ति चतुर्थे कूटवेधता | पञ्चमे गणवेधोऽस्ति षष्ठे चक्रेण किंचन || ५-७३ || षट्चक्राणि महेशानि चक्राण्यन्यान्यपि प्रिये | अन्यानि पञ्चचक्राणि एवं रुद्रविधानि च || ५-७४ || तत्र षट्चक्रमध्ये तु साध्यसिद्धं सुसिद्धकम् | दैवतं च पराख्यं च देवतादर्शनाभिधम् || ५-७५ || देवतादर्शनाख्येन नाम दद्यान्महेश्वरि | ओघत्रयस्थं यन्नाम साधकस्य तथैव च || ५-७६ || प्. ६५) प्रसिद्धं नाम गृह्णीयात् प्रसुप्तो येन जागृयात् | नामाद्यक्षरमारभ्य यावन्मंत्रादिमाक्षरम् || ५-७७ || त्रिगुणीकृत्य देवेशि स्वरव्यञ्जनभेदतः | मातृकागणनात्वेन यावदङ्को भवेच्छिवे || ५-७८ || एकीकृत्य साधकार्णे मिश्रितं सप्तधा हरेत् | नामराशिरियं प्रोक्ता मंत्रराशिरतोऽन्यथा || ५-७९ || ऋणिनामप्रदेयं च सुन्दरं सुमनोहरम् | दिव्यौघनाम भाग्येन गुरुणा दीयते यदि || ५-८० || सिद्धौघनाम देवेशि भाग्येन सिद्धिकारकम् | मानवौघाभिधं नाम ऋणी भाग्येन लभ्यते || ५-८१ || गुरुणालोकितः शिष्यः शिष्येणालोकितो गुरुः | ऋणिनामप्रदानेन मंत्रदोषनिवृत्तता || ५-८२ || पूर्णाभिषेकदीक्षायां नाम चैव प्रदापयेत् | मेधादीक्षादिसाम्राज्यदिव्यसाम्राज्यगोचरम् || ५-८३ || नाम देयं महेशानि सुन्दरं कल्पितं च वा | आदौ प्रसिद्धनाम स्यादलाभे कल्पितं च वा || ५-८४ || मंत्रारूढं च वा नाम विद्याढ्यं वा महेश्वरि | अन्यत्तद्दिन-ऋक्षाक्तमुदयार्णक्रमेण च || ५-८५ || अथोदयार्णनित्याक्तं कालनित्याक्रमेण च | प्रोक्तं तद्युगनित्याक्तं वर्षनित्याक्रमेण च || ५-८६ || तदावरणनित्याक्तं संप्रदायक्रमेण च | काश्मीराख्ये सम्प्रदाये तद्विद्यामंत्रकल्पितम् || ५-८७ || गौडे कालान्तकं नाम केरले सर्वगोचरम् | परस्परं विशोध्याथ नाम दद्यान्महेश्वरि || ५-८८ || प्. ६६) नाथाक्तं चाथ सिद्धाक्तं पूर्वपञ्चकयोगतः | यदेव तु ऋणी भूयात्तदेव वरनायकम् || ५-८९ || ओघत्रयं महेशानि चोत्तरोत्तरसिद्धिदम् | दिव्यौघे चेत्समायाति दिव्यरूपः स जायते || ५-९० || सिद्धौघे चेत्समायाति सिद्धरूपसुसिद्धिदः | मानवौघे किन्नरेशः शाक्तशास्त्रे त्विदं भवेत् || ५-९१ || श्रीदेव्युवाच | शाक्ताख्ये तु महादेव कथं नाम प्रदीयते | श्रीशिव उवाच | वैष्णवे गाणपत्ये च शैवे स्वायंभुवे तथा || ५-९२ || चान्द्रे पाशुपते चीने जैने कालमुखेऽपि च | वैदिकेऽपि महेशानि तदावरणगं च वा || ५-९३ || तत्पर्यायनाम देयं द्वारादुत्तरतस्तथा | मूलान्तं च तदन्तं च दद्यान्नाम महेश्वरि || ५-९४ || बालायां स्पर्शकाल्यां च स्पर्शताराविधौ शिवे | स्पर्शच्छिन्नाविधौ देवि चन्द्रषट्षोडशक्रमात् || ५-९५ || कलाक्रमान्महेशानि रक्तचण्ड्यां तु तत्क्रमात् | दुर्वासा मन्वगस्त्यादि तथा स्वप्नावतीविधौ || ५-९६ || मधुमत्यां च दिव्यौघा भिन्नरूपाः प्रकीर्त्तिताः | षोडश्यां च परायां च पराप्रासादकेऽपि च || ५-९७ || षड्विद्यायां शाम्भवे च गुरवो भिन्नरूपिणः | मालास्थं चाथ न्यासस्थं मूलरश्मिस्थमेव च || ५-९८ || प्. ६७) नामदाने विधिरयं मया प्रोक्तो महेश्वरि | सम्प्रदायक्रमेणैव शाम्भवे पूर्वमीरितम् || ५-९९ || यत्तत्र नोक्तं देवेशि यत् सिद्धमतकेऽपि च | यज्ज्ञेयमत्र देवेशि चतुःखण्डक्रमेण च || ५-१०० || पुनरुक्तिर्न मन्तव्या विद्याभेदाद्विशेषता | श्रीचूलिकोर्मिलाचक्रं राजादिपशुगोचरम् || ५-१०१ || नवचक्राणि देवेशि कथ्यन्ते शृणु यत्नतः | केरलाख्यं च दशमं प्रत्येकं त्रिविधं भवेत् || ५-१०२ || एतद्विवेचनं देवि संक्षेपात् कथ्यते शृणु | त्रैविध्यं चैव श्रीचक्रे क्रमं शृणु महेश्वरि || ५-१०३ || अष्टोत्तरशतं संख्या श्रीचक्रे शक्तयः स्मृताः | चतुःपञ्चाशदेवात्र मध्यचक्रे क्रमो भवेत् || ५-१०४ || शक्तिभिर्नन्दसंख्याभिः कनिष्ठं परिकीर्त्तितम् | चूलिकाख्यं महेशानि त्रिविधं परिकीर्त्तितम् || ५-१०५ || पञ्चाशत्पीठनाम्ना वा षड्त्रिंशज्जातिमध्यतः | दशविद्यारूपजातिगन्धभेदक्रमेण च || ५-१०६ || कुलाकुलक्रमेणैव काश्मीरगौडभेदतः | अष्टकन्यासमायोगात् कनिष्ठं परिकीर्त्तितम् || ५-१०७ || एतत्क्रमं महेशानि यथावदवधारय | शक्तिमाहूय देवेशि कञ्चुकीं गृह्य पार्वति || ५-१०८ || एकैकां कञ्चुकीं देवी शिवहस्ते प्रदापयेत् | वस्त्रग्रन्थिं तु निर्बध्यसामरस्ये नियोजयेत् || ५-१०९ || ऊर्मिलाख्यमिदं देवि चूलाचक्रं शृणु प्रिये | शक्तिमाहूय यत्नेन चूलिकां गृह्य यत्नतः || ५-११० || प्. ६८) कुम्भे संस्थाप्य सम्पूज्य शिवमाहूय सादरम् | यस्य यथा च संप्राप्ता सा तस्य चक्रमध्यगा || ५-१११ || चूलिकाख्यक्रमो देवि कथितः श्रीक्रमं शृणु | परस्परस्नेहयोगात् श्रीचक्रे विनिवेशनम् || ५-११२ || केरलाख्यक्रमे देवि भिन्नं भिन्नं निवेशनम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ५-११३ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यतारासंवादे ऋणिधनिचक्रविनिर्णयं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः श्रीदेव्युवाच | एतेषां च फलं देव कथयस्व ममाधुना | श्रीशिव उवाच | एतज्ज्ञानी महेशानि शिव एव न संशयः || ६-१ || वयस्तम्भाकर्षणं च त्रैलोक्यवश्यता तथा | अञ्जनं तिलकं गुप्तिः पादुका गुटिका तथा || ६-२ || वेतालयक्षिणीसिद्धिस्त्रिधावादस्तदुत्तरम् | खेचर्ययादिमहासिद्धिः परकायप्रवेशनम् || ६-३ || शापानुग्रहणं वाक् च कामरूपत्वमेव च | रसायनं च त्रैलोक्यं महेन्द्रादीन्द्र जालिकम् || ६-४ || अणिमाद्यष्टकं देवि खड्गादृश्ये तथैव च | मूकान्धस्तब्धीकरणं संहारखड्गके तथा || ६-५ || पताकाद्वन्द्वयुद्धस्य जयो वन्ध्यात्वनाशनम् | पौरुषं च मनःस्थैर्ययं रञ्जकः स्वर्णभैरवः || ६-६ || धनदा च तथा शास्ता पद्मा मधुमती तथा | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || ६-७ || गोपनीयं गोपनीयं गोपनीयं पुनः पुनः | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छति || ६-८ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यं परमं वरम् | प्. ७०) श्रीशिव उवाच | सर्वं विशेषतः प्रोक्तमथ कादिक्रमं शृणु || ६-९ || दिव्यसिद्धमानवेशमहाकालक्रमेण च | अतिकालकरालास्यवीरनाथक्रमेण च || ६-१० || पञ्चातिकाले नव च कराले दश पार्वति | कालत्रयं महाकाले नवभेदा गुरुक्रमात् || ६-११ || वीरनाथे शतं देवि गुरुभेदः प्रकीर्त्तितः | नवनाथयुग्मभेदात् सिद्धेः साम्यं कहे भवेत् || ६-१२ || एतत्क्रमेण देवेशि दीक्षणं कादिसम्मते | अस्यामेव महेशानि शम्भोः प्राधान्ययोगतः || ६-१३ || शाम्भवत्वं भवेद्देवि शिवोऽहं निर्गुणेति च | शक्ते प्राधान्याच्छाक्तत्वं देवीरूपाहमेव सा || ६-१४ || कालिकाहं महातारारूपाहं सर्वदैव च | तद्द्वयाच्छैवशक्तिः स्यादिति संक्षेपतो मतम् || ६-१५ || स्थित्वा दिव्यौघपानं च कीर्त्तितं परमेश्वरि | सिद्धौघे स्थापयित्वा तु पानं कुर्यान्महेश्वरि || ६-१६ || मानवौघे समुत्थाय क्रमात् त्रितयमीरितम् | संगीभूत्वा तु चैतन्यं सहयोनिः कुलेश्वरि || ६-१७ || विसर्जनोत्तरं देवि भद्रनाथस्य कीर्त्तितम् | वीरतृप्त्युत्तरं देवि चाति कालमतक्रमः || ६-१८ || शक्तिपात्रं स्थाप्य भिन्नं दक्षिणामूर्त्तिसम्मते | शक्तिपात्रं च गृह्णीयात् वीरनाथमतं शिवे || ६-१९ || प्. ७१) कुलचक्रं भवेत्काल्यामकुलं कालिकामनौ | कुलाकुलं च तारायां सम्प्रदायत्रयान्तरे || ६-२० || दिव्यमार्गवीरमार्गपशुमार्गक्रमेण च | पूर्णाभिषेकयोगेन चाज्ञानाम प्रदापयेत् || ६-२१ || पूर्णाभिषेको देवेशि हादिकादिक्रमेण च | कथ्यते देवदेवेशि शृणु सावहिता भव || ६-२२ || शुभमासे शुभर्क्षे च शुभलग्ने शुभोदये | कालरात्रिदिने प्राप्ते वीररात्रिदिने तथा || ६-२३ || मोहरात्रिदिने चैव महारात्रिदिने तथा | क्रोधरात्रिदिने देवि घोररात्रिदिने तथा || ६-२४ || तारारात्रिदिने चापि अबलारात्रियोगजे | दारुणासङ्गमे वापि मकरे कुम्बसङ्गमे || ६-२५ || विविक्तस्थानमासाद्य स्थानशुद्ध्यादिपूर्वकम् | पर्वते विपिने घोरे शून्यगेहे श्मशानके || ६-२६ || एकलिङ्गे शिवावासे श्मशानाष्टककेऽपि च | चक्रपाणिगृहे नद्या पुर्यां पीठाष्टके शिवे || ६-२७ || पञ्चाशत्पीठमध्ये वा पुष्पिण्युत्सवकेऽपि च | गङ्गागर्भे तडागे च वेश्यावासे च सङ्गमे || ६-२८ || कुलवृक्षवने वापि कदलीवनमध्यतः | अथ पूग वने देवि नारिकेलवने तथा || ६-२९ || कदलीमण्डपे दिव्ये वाटिकायां विचित्रिते | पालाशवनमध्ये च पुण्यक्षेत्रे विशेषतः || ६-३० || स्वैरिणीगृहमध्ये च कुट्टनीनर्त्तमण्डले | विशिष्टस्थानमासाद्य मण्डपं तत्र कारयेत् || ६-३१ || प्. ७२) कलाहस्तं सूर्यहस्तं नवहस्तं महेश्वरि | पञ्चहस्तं महेशानि नवकुण्डीक्रमेण च || ६-३२ || अथवा एककुण्डाख्यक्रमेण परमेश्वरि | मण्डपं कारयेद्देवि मेरुसाधनमार्गतः || ६-३३ || श्रीमेरुमण्डपं देवि यथादीक्षानुसारतः | वितानध्वजभूषाढ्यं प्राकारपरिस्वैर्युतम् || ६-३४ || गोपुरैः संयुतं देवि नानातोरणमण्डितम् | तदग्रे परमेशानि पूजामण्डपमाचरेत् || ६-३५ || अष्टाष्टकत्रिक्रमेण पञ्चपञ्चकमार्गतः | एतासां सन्निवेशो हि यथा भवति पार्वति || ६-३६ || तथा मण्डपमासाद्य अब्जानि रचयेत्ततः | सहस्रकोष्ठजं देवि सर्वतोभद्रमाचरेत् || ६-३७ || तत्र चक्रं ताम्रपात्रे स्वर्णे रौप्ये च भूमिजे | वस्त्रे वा रचयेद्देवि तथा चक्रस्य तच्छृणु || ६-३८ || सर्वतोभद्रपीठं च देवपीठे प्रकीर्त्तितम् | एकाब्जं योगिनीपात्रे पञ्चाब्जं क्षेत्रपालके || ६-३९ || नवाब्जं गणपे प्रोक्तं वटुके लिङ्गभद्रकम् | विरच्य परमेशानि मेरुमण्डपमाचरेत् || ६-४० || मेरुसंसाधनं कर्म्म श्रीविद्योपासकस्य च | सकलं निष्कलं देवि द्विविधं मेरुसाधनम् || ६-४१ || दीक्षाङ्गत्वेन सकलं निष्कलं कामनाङ्गतः | श्रीविद्या कालिका तारा त्रिविद्योपासके शिवे || ६-४२ || मेरुसंसाधनं देवि दीक्षायां परिकीर्त्तितम् | प्. ७३) एतद्भिन्ना महेशानि नहि दीक्षा भवेत् क्वचित् || ६-४३ || श्रीविद्योपासकानां च पारम्पर्यक्रमं शृणु | आदौ बाला विनिर्द्दिष्टा ततः पञ्चदशी मता || ६-४४ || तथा श्रीषोडशीविद्या पराविद्या तदुत्तरम् | ततश्चरणदीक्षा स्यान्निर्वाणदीक्षणं ततः || ६-४५ || ततः षट्शाम्भवाख्या च मेघादीक्षा तदुत्तरम् | अनुक्रमेण संयुक्ता मेधादीक्षाभिधा भवेत् || ६-४६ || अथ चैकतमा याति ततः साम्राज्यदीक्षणम् | दिव्यसाम्राज्यमेधा च तदनन्तरगा भवेत् || ६-४७ || विद्याराज्याभिधा देवि छिन्नाविद्याविधौ भवेत् | साम्राज्यं पारमेष्ठ्यं च बगलामनुगोचरम् || ६-४८ || श्रीविद्याङ्गा तु बगला ताराङ्गा छिन्नमस्तका | एतद्दीक्षोत्तरं देवि नान्या दीक्षास्ति कुत्रचित् || ६-४९ || बालया देहशुद्धिश्च ततो विद्याधिकारता | विद्याधिकारतां याते श्रीषोढोपासनं चरेत् || ६-५० || षोढाधिकारी देवेशि पञ्चषोढां न्यसेत्तनौ | विन्यासी पञ्चषोढायाः पराविद्यां जपेत् सदा || ६-५१ || पराष्ट्कं ततो न्यस्य ततश्चरणचिन्तनम् | ततो निर्वाणं विन्यस्य ततः शाम्भवमाचरेत् || ६-५२ || तत् षोढात्रितयं न्यस्य रश्मिचिन्तनमाचरेत् | श्रीरश्मिं च परारश्मिं द्वितयं विन्यसेत्ततः || ६-५३ || मेधादीक्षा समग्रा तु ततो भवति पार्वति | मेधोत्तरं महेशानि साम्राज्यमेधिकां न्यसेत् || ६-५४ || ततो दिव्याभिधां न्यस्य सदाशिवसमो नरः | प्. ७४) मेरुभेदादिविज्ञानं श्रीमहासिद्धशैवके || ६-५५ || कालिकाम्नायतंत्रे तु ऊर्ध्वाम्नाये प्रकीर्त्तितम् | अत्रापि देवदेवेशि कथ्यते चान्तिमे विधौ || ६-५६ || कुण्डादिरचना देवि तत्रत्यैवं महेश्वरि | क्रमागतात्सूचितं च प्रकृतं शृणु पार्वति || ६-५७ || पूर्वोक्तं मण्डपं कृत्वा नानाचित्रविचित्रितम् | घण्टानादविभूषाढ्यं दर्पणोदरसन्निभम् || ६-५८ || भूमिं कृत्वा महेशानि वक्ष्यमाणं समाचरेत् | विधाय चक्रं तन्मध्ये चक्रे कुम्भं निधाय तम् || ६-५९ || क्वाथोदकैः समापूर्याभिषिञ्चामि वदेन्मनुम् | क्रमागतसमाचारनिरते भक्तिशालिनि || ६-६० || विरच्य विपुलं चक्रं प्रतियोनिं तु षोडश | त्रिकोणानि विधायाथ मध्ये कुम्भं तु विन्यसेत् || ६-६१ || सौवर्णं राजतं ताम्रं काचं मार्त्तिकमेव वा | पूरितं क्षारितं येन क्वथितेनाक्षरौषधैः || ६-६२ || निक्षिप्य नवरत्नानि(?) कन्यानि(?) विविधानि च | हिरण्यानि सताम्राणि वासोम्यामपि वेष्टयेत् || ६-६३ || रक्ताभ्यां चन्दनयुतं पनसाश्वत्थपल्लवैः | शतक्रतुलताबद्धैर्मातुलुङ्गफलान्वितैः || ६-६४ || पिधानकलशानन्यानन्येष्वेकैकशो न्यसेत् | सार्धं सहस्रं त्रिंशच्च षष्टिसंख्या क्रमोदिता || ६-६५ || मध्यचक्रेषु तोयादि कृत्वा बाह्याधिपूज्य च | कालात्मनित्यामंत्रांश्च जपित्वा पूर्ववासरे || ६-६६ || प्. ७५) कालात्मनित्यामंत्राश्च कादावपि महेश्वरि | कादौ श्रीचक्रस्थाने च कालीचक्रं महेश्वरि || ६-६७ || त्रिकोणाद्येषु भेदेषु समता परिकीर्त्तिता | तारायां कालिकास्थाने ताराचक्रं महेश्वरि || ६-६८ || कालात्मनित्यास्थाने च वाग्देव्यङ्गार्णदेवता | सर्वत्र समता प्रोक्ता सर्वं तु कादिवद्भवेत् || ६-६९ || जन्मर्क्षे प्रातरुत्थाय स्वनित्यां तत्र पूजयेत् | काल्यां ताराविधौ देवि नित्यास्थाने मनुं जपेत् || ६-७० || सहस्रं प्रजपेत्पश्चात् होमं कृत्वा समन्ततः | तत्पूर्वं षोडशाह्नाइ प्रायश्चित्तं समाचरेत् || ६-७१ || षष्टिजपः कालनित्यानामपारायणं तथा | मंत्रपारायणं देवि चक्रपारायणं तथा || ६-७२ || यंत्रपारायणं देवि स्वयं वा स्वगुरुश्च वा | दिनतो वारतः पक्षान्मासात्षट्त्रिंशता दिनैः || ६-७३ || सन्ध्याचतुष्टयं हादौ कादौ युग्मे त्रयी भवेत् | प्रायश्चित्तं समाचर्यय सामग्रीमष्टकार्च्चने || ६-७४ || कृत्वा संस्थाप्य यत्नेन विद्योक्तं तिलकं चरेत् | शृङ्गकाहलशङ्खादिवाद्यसङ्गीतनर्त्तनैः || ६-७५ || मुदितैर्योगिनीवृन्दैरेकैकं देवतात्मभिः | वृतैः सम्पूजितैः सर्द्धमभिषिञ्चेद्गुरुः स्वयम् || ६-७६ || षोढाभिषेकमंत्रैश्च कहहादिक्रमोदितैः | मूलभेदैश्च वा देवि सहस्रमभिषेचयेत् || ६-७७ || कालचक्रं रौप्यजं च तत्र चक्रं सुवर्णजम् | प्. ७६) महापात्रे तु संस्थाप्य विद्यां तत्राभिषेचयेत् || ६-७८ || विद्याजलैर्महेशानि गुरोश्च कृपया युतः | अभिषिच्य प्रयत्नेन चक्षुष्मत्यादि सान्तकम् || ६-७९ || सम्प्रदायत्रयेणैव शिष्यं स्वस्तिकमण्डले | संस्थाप्य सिच्य यत्नेन तदङ्गे जपपूर्वकम् || ६-८० || देवीरूपं शिष्यतनुं कलशस्याक्षरैः सह | परकायक्रमेणैव जीवकीटक्रमेण च || ६-८१ || भृङ्गित्वं याति देवेशि तज्जीवं पुत्तलीतनौ | स्थाप्य शिष्यं बोधयेच्च ब्रह्मानन्दपरायणः || ६-८२ || जीवः कीटः पुरा भूत्वा भृङ्गित्वमभिगच्छति | ततः षट्चक्रभेदं च कृत्वा तद्रसभुग्भवेत् || ६-८३ || तत्परागं महेशानि स्थापितं यंत्रपीठके | तेन मंत्रान् लिखेत्तत्र तस्योच्चारणमाचरेत् || ६-८४ || भृङ्गावली तेन याति चक्रमंत्रार्णयोगतः | मन्त्रवर्णान् चक्रवर्णान् कियत्संख्यानि कानि वै || ६-८५ || एतद्विभाव्य गणयेत्तावदंशप्रपूर्णता | जीवकीटस्ततो भृङ्गी ततस्त्वेवं चराचरम् || ६-८६ || तेन भृङ्गावली नाम योगिनामपि दुर्लभा | क्रमदीक्षायुतानां च भृङ्गित्वं सुलभं क्रमात् || ६-८७ || मंत्ररूपो भवेत्तेन सम्राण्मेधा प्रकीर्त्तिता | स्वयं शक्तिस्तद्द्वयं च शक्तिस्वक्रमयोगतः || ६-८८ || शैवशाक्ते शाक्तशैवे तद्द्वयक्रमयोगतः | चक्राणि चैवं विज्ञाय उक्तमार्गेण पार्वति || ६-८९ || प्. ७७) चक्राणि चैव निर्भिद्य स्वरूपं तत्स्वरूपकम् | न कीटत्वं न भृङ्गित्वं स्वरूपेणैव देवता || ६-९० || देवतारूपभावेन क्षणात्तद्रूपता भवेत् | आदौ तु पुत्तलीं कृत्वा तत्र जीवं प्रविन्यसेत् || ६-९१ || ज्ञात्वा तु प्रत्ययं देवि ततश्च संयतेत् शिवे | कलौ पापसमाकीर्णे न समाधिर्न योगता || ६-९२ || यदि योगो भवेद्देवि नहि तत्र फलं भवेत् | तस्मात्कारणतो देवि मंत्रयोगं समभ्यसेत् || ६-९३ || स्वक्रमं सोऽपि कथयेत्तदा प्रभृति सोऽपि तम् | अनुतिष्ठेदविच्छिन्नं पर्ययायं तस्य विच्युतौ || ६-९४ || सहस्रं प्रजपेद्विद्यां अभिषेकसमन्वितः | दिनषोडशकं वापि नवरात्रं च वा प्रिये || ६-९५ || पञ्चरात्रं त्रिरात्रं च यथावत्साधयेद्ध्रुवम् | चक्षुष्मत्यादि मेधान्तं पूर्वं संसाधयेद् ध्रुवम् || ६-९६ || सर्वे मंत्राः प्रयोक्तव्याः षडाम्नायादिभेदजाः | अष्टादशाम्नायमंत्राः कादिहादिक्रमेण च || ६-९७ || षट्दर्शनाभिधा मंत्रा दशविद्याप्रभेदजाः | ते सर्वे चात्र द्रष्टव्याः श्रोतव्याः केचन प्रिये || ६-९८ || जप्तव्याः केऽपि देवेशि दीक्षायोगोऽत्र कारणम् | एवं संप्राप्तयोगो हि शिवरूपो भवेन्नरः || ६-९९ || चक्षुष्मती वाङ्मती च स्पर्शनित्या महेश्वरि | वर्णदीक्षा क्रियादीक्षा तथैव च कलावती || ६-१०० || पञ्चायतनिका चैव तथा वेधमयी शिवे | प्. ७८) वेधः पञ्चविधो देवि पूर्वमेव प्रकाशितः || ६-१०१ || पूर्णदीक्षा महेशानि ऊर्ध्वाम्नायमयी तथा | निर्वाणदीक्षा देवेशि तथा शाम्भवभेदजा || ६-१०२ || वेदबाणपशुपतिक्रमयोगेन वै कहे | मेधा साम्राज्यमेधा च दिव्यसाम्राज्यरूपिणी || ६-१०३ || एतद्युक्तः केरलस्तु संक्षेपेण प्रकाशितः | चक्षुष्मत्यादि ऊर्ध्वान्ता काश्मीरे परिकीर्त्तिता || ६-१०४ || चक्षुष्मत्यादिपूर्णान्ता गौडी दीक्षा प्रकीर्त्तिता | षष्टितत्वाष्टसिद्धिश्च क्रमेण परिकीर्त्तिता || ६-१०५ || महाकालकलारन्ध्रबाणतत्त्वादिपात्रयुक् | दशाङ्गांश्चाष्टपञ्चांगान् पूर्वमेव मयेरितान् || ६-१०६ || तृतीयखण्डे देवेशि सर्वमेतत्प्रकीर्त्तितम् | मनोरथमयी सिद्धिः साम्राण्मेधाविधौ भवेत् || ६-१०७ || अथवा षण्णवत्यष्टकलशांस्तत्र विन्यसेत् | तेषु शक्तीः समावाह्य सम्पूज्यैवाभिषेचयेत् || ६-१०८ || एकान्तसफलं जन्मदिने कृत्वाभिषेचयेत् | नाथैस्तत्त्वैश्च नित्याभिः कालीनित्यान्तविद्यया || ६-१०९ || आधारे हृदये शीर्षे वह्नौ सूर्यये निशाकरे | ध्यायन् त्रिसन्ध्यं प्रजपेत् सर्वगं व्यञ्जनं स्वरम् || ६-११० || न्यसेच्च मातृकास्थाने तथा तद्देहसिद्धये | ग्रहाणां वैपरीत्येषु जन्मर्क्षे ग्रहणे द्वयोः || ६-१११ || कुहुप्राप्तौ रिपुक्लेशे कुर्ययादेवाभिषेचनम् | तेन दोषाः स्पृशन्त्येनं न कदाचिन्न तद्बलात् || ६-११२ || क्षुद्राणि क्रूरकर्माणि कृत्याश्च रिपु कल्पिताः | प्. ७९) श्रीदेव्युवाच | बलं कथं भवेदस्य सेकस्य परमेश्वर || ६-११३ || ब्रूहि मे तद्बलं येन क्लेशा नश्यन्त्यशेषतः | श्रीशिव उवाच | सोमसूर्याग्निरूपेण जलेन स्पर्शयोगतः || ६-११४ || नश्यन्त्यशेषदोषास्तु तस्मात् सेकसमो नहि | सोमसूर्याग्निरूपत्वं जलस्य परिकीर्त्तितम् || ६-११५ || तस्मादशेषदुःखार्तिशान्त्यै स्यादभिषेचनम् | सप्तसूक्तेषु कालेषु पुण्येष्वन्येषु चादरात् || ६-११६ || कुर्ययात्सदक्षिणां पूजां गुरोः प्रत्यक्षमेव वा | उक्तेषूत्थानजातेषु पूजयेत्स्वर्णपुष्पकैः || ६-११७ || अभिषिक्तस्तु विधिना प्रदद्याद्दक्षिणां गुरोः | गुरुं तदग्रतः प्राप्तविद्यं तदनुजं तथा || ६-११८ || गुरोर्गुरुं तद्गुरुं च स्वग्रतो लब्धविद्यकान् | प्रणामपूजास्तवतसेवादिभिरुपासनैः || ६-११९ || (?) तोषयेदन्यथा शक्तिः स्वीया तद्गामिनी भवेत् | बहुचन्दनकाश्मीररत्नकस्तूरिकायुतैः || ६-१२० || पङ्कैर्विदध्यात् सर्वत्र गुरुपादद्वयं शिवे | प्रतिवर्षं महेशानि कुर्ययादेवाभिषेचनम् || ६-१२१ || पूर्णाभिषेकयुक्तो हि ऊर्ध्वाम्नायादि चाष्टकम् | गुरुं प्राप्य महेशानि तद्दीक्षायै पठेत्सदा || ६-१२२ || इति संक्षेपतः प्रोक्ता मेधादीक्षा महेश्वरि | प्. ८०) कादिक्रमे महेशानि कथ्यते शृणु साम्प्रतम् || ६-१२३ || सर्वव्यापकरूपं च शक्ति ज्ञानं महेश्वरि | परम्परात्परं देवि तच्च देवि द्विधा मतम् || ६-१२४ || काद्यं हाद्यं महेशानि काद्यं कालीमतं भवेत् | हाद्यं श्रीत्रिपुराख्यं च कहाख्यं तारिणीमतम् || ६-१२५ || यः कश्चिन्मन्त्रजापी तु तत्र काली वरप्रदा | भाषाभेदाः शाबराणां मंत्रमात्रे महेश्वरि || ६-१२६ || वरदानाधिकारो हि कालिकायाः प्रकीर्त्तितः | एतत्कथाविस्तरस्तु कादिहादिविनिर्णये || ६-१२७ || पूर्वं विस्तरतो देवि मया तत्परिकीर्त्तितम् | उभयत्र भवेन्मेधाभेदः पारायणे क्वचित् || ६-१२८ || कादौ स्पर्शमणिर्देवि तथा चिन्तामणिः प्रिये | सिद्धकाली महाविद्याराज्ञी कामकला ततः || ६-१२९ || हंसकाली गुह्यकाली वेदपञ्चरसक्रमात् | शाम्भवं परमेशानि क्रमान्मेधा प्रकीर्त्तिता || ६-१३० || उभयक्रमतो देवि सम्राण्मेधा प्रकीर्त्तिता | नाडीपारायणं नाम मन्त्रपारायणं तथा || ६-१३१ || चक्रपारायणं देवि पूर्णोर्ध्वाम्न्याय एव च | चरणस्तुर्यचरणस्तथा षट्शाम्भवः शिवे || ६-१३२ || मेधा साम्राज्यमेधा च क्रमेणः परमेश्वरि | तत्प्रश्नविद्याजन्मादिवर्षदेशाख्यजातके || ६-१३३ || कालनित्या कालचक्रं उभयत्र समं भवेत् | तद्द्वयोक्तशिवः प्रोक्तः साक्षात्परशिवो भवेत् || ६-१३४ || प्. ८१) शिवदेवीवटेशाख्यस्तथा चानन्दभैरवः | केरलश्चैव काश्मीरो गौडचैतन्यगः शिवे || ६-१३५ || प्रत्येकं तु निगदितं सम्प्रदायचतुष्ककम् | आज्ञानाम योगपट्टः क्रमेण दापयेद्गुरुः || ६-१३६ || अवधूतः सर्वगः स्यात् पूर्वोक्तनिर्णयो ह्ययम् | कापालिके पञ्चभेदाश्चण्डे भेदद्वयं भवेत् || ६-१३७ || स्वायम्भुवे त्रयं देवि कौले चाष्टौ प्रकीर्त्तिताः | वीरे पञ्च महेशानि वैष्णवे दश पार्वति || ६-१३८ || गाणपेऽष्टौ महेशानि जैने शतद्वयं भवेत् | सौरे पञ्च महेशानि बौद्धानां शतमात्रकम् || ६-१३९ || दश पाशुपते प्रोक्ता मुण्डी त्रिंशन्महेश्वरि | केरलश्चैव काश्मीरगौडभेदेन पार्वति || ६-१४० || केरले भावना प्रोक्ता काश्मीरे चानुकल्पनम् | गौडे प्रत्यक्षदानं च चक्रत्रितयमीरितम् || ६-१४१ || केरले त्रितयं देवि वटवासि मते शिवे | गुप्तोग्रकेरले देवि शुद्धकेरलके तथा || ६-१४२ || तद्द्रव्यभावना देवि सर्वान्ते परिकीर्त्तिता | त्रिधा केरलमेतद्धि वटवासिमते शिवे || ६-१४३ || एतद्भेदा महेशानि तारासूक्ते प्रकाशिताः | दिव्यौषधैर्महेशानि प्रसौ पञ्च प्रकीर्त्तिता || ६-१४४ || आराध्य कलहट्टौ च पुष्पचक्री तथैव च | जीवचक्री महेशानि सम्प्रदायान्तरं शृणु || ६-१४५ || दशावतारपूर्वत्वं चैतन्यस्तदनन्तरम् | ब्रह्मादिपदपूर्वत्वं पञ्चाशदीश्वरान्तकम् || ६-१४६ || प्. ८२) पञ्चाशदीश्वराद्यं च चैतन्यान्तं महेश्वरि | पञ्चाशत् केशवाद्यं च गणपाद्यं तथैव च || ६-१४७ || त्रिपुराद्यं महेशानि कामाद्यं परमेश्वरि | रत्याद्यं वा महेशानि छिन्नायां तु विशेषतः || ६-१४८ || डाकिन्याद्यं तथा देवि भैरवाद्यं च वा भवेत् | नृसिंहाद्यं च चैतन्यं किं वा देशपरंपरा || ६-१४९ || कलहट्टस्त्वाततायी गोमुखी वल्लभस्तथा | विज्ञानी वामविज्ञानी तथैव सिद्धदीक्षितः || ६-१५० || विद्याराट् च विराट् स्वामी सम्राण्मण्डलमेव च | एते देशपरं याता महासिद्धिप्रयोगजाः || ६-१५१ || सम्प्रदायविहीनानां कुलशास्त्रप्रयोजनात् | सर्वगर्हित इत्युक्तो भैरवाख्यः प्रकीर्त्तितः || ६-१५२ || वेदबाह्यो यथा प्रोक्तस्तथैवायं प्रकीर्त्तितः | एतद्देशपरं यातास्त्वन्यान् शृणु हि पार्वति || ६-१५३ || तारावती भोगवती तथैव विमलावती | प्रज्ञावती मधुमती तथा प्रज्ञावती मता || ६-१५४ || उद्भटाम्बावती देवि एते चार्हतभेदजाः | अनुग्रहाख्यश्चैतन्यस्तथैव निग्रहाभिधः || ६-१५५ || निग्रहानुग्रहाख्यश्च राजचैतन्य एव च | कला चैतन्यनामा च श्रीचैतन्यस्तथा शिवे || ६-१५६ || दिव्यचैतन्यको देवि तथा प्रज्ञानवाचकः | शाम्भवाख्यस्तु चैतन्यो विज्ञानाख्यस्तथैव च || ६-१५७ || पराचैतन्यनामाख्यस्त्वात्मचैतन्य एव च | प्. ८३) वैराजाख्यश्च चैतन्यः श्रीचैतन्यस्तथैव च || ६-१५८ || प्रज्ञाचैतन्यनामा च प्रासादाख्यस्तथैव च | निर्वाणाख्यस्तु चैतन्यो मेधाचैतन्य एव च || ६-१५९ || अथ शाम्भवचैतन्यः श्रीचैतन्यस्तथैव च | विद्याचैतन्यनामाख्यः सिद्धचैतन्य एव च || ६-१६० || एते काश्मीरमार्गस्थास्त्रिपुरा कादिभेदतः | रङ्गवारो देववारो मायादेवस्तथा शिवे || ६-१६१ || कालाख्यश्चैव काञ्चीशो ब्रह्मवारस्तथापरः | राजवारः सिद्धवारो विश्वरूपस्तथापरः || ६-१६२ || उन्मत्तभैरवाख्यस्तु वाक्शक्तिः काव्यसिद्धियुक् | भूतभैरवनामाख्यो मूर्त्तिस्फोटश्च विग्रहः || ६-१६३ || विराट्भैरवनामाख्यौ मूर्त्तिचालनवाक्परः | स्वराट्भैरवनामाख्यो वाञ्छावाक्सिद्धिगोचरः || ६-१६४ || सम्राट्भैरवनामाख्यः सर्वरूपत्वसिद्धियुक् | श्रीमद्बटुकनामाख्यः शापानुग्रहकृत् कलौ || ६-१६५ || सर्वत्र सर्वरूपत्वनानन्दभैरवे भवेत् | असिताङ्गो वाक्परश्च तथैवाञ्जनयुक् शिवे || ६-१६६ || रूपभेदकल्पनाख्यसिद्धिर्गुप्तिस्तथैव च | परकायप्रवेशश्च खेचरी चण्डभैरवे || ६-१६७ || अन्यथासृष्टिकरणं क्रोधाख्ये सम्प्रदायके | इन्द्रजालमहेन्द्रादि कपालभैरवे भवेत् || ६-१६८ || नदीसमुद्रशोषादिभीषणाख्यप्रदायके | एते भेदा वीरचक्रे केरले शृणु पार्वति || ६-१६९ || प्. ८४) दिव्यबोधानन्दनाथाः कलानाथान्तवाचकः | केवलं नन्दनाथाख्यः केवलं नामवाचकः || ६-१७० || एकस्मिन् त्रितयं देवि क्रमेण योज्यते शिवे | मानवाख्यस्त्रयान्तो हि सिद्धचैतन्यवह्नियुक् || ६-१७१ || दिव्यचैतन्यगुणयुक् दिव्यप्रज्ञानमेव च | गुणयुक् परमेशानि नाथानन्दक्रमेण च || ६-१७२ || नन्दनाथो महेशानि मिलित्वा बाणसंख्यकः | चैतन्यान्तो विलासाख्यो बाणसंख्याप्रवाचकः || ६-१७३ || सिद्धचैतन्यनामा च पञ्चधा पूर्ववत् प्रिये | सिद्धाद्यश्च विलासान्तो बाणसंख्याप्रवाचकः || ६-१७४ || सत्याद्यो हि विलासान्तो बाणसंख्याप्रवाचकः | सिद्धप्रज्ञो महेशानि बाणसंख्याप्रवाचकः || ६-१७५ || ऋद्धिचैतन्यनामाख्यो बाणसंख्याप्रवाचकः | अणिमाद्यष्टपूर्वत्वमेतदन्तं महेश्वरि || ६-१७६ || चत्वारिंशत्प्रभेदाश्च मातृकाक्रमतोऽपि च | चत्वारिंशत्प्रभेदाश्च क्रमेण परमेश्वरि || ६-१७७ || ओघत्रयं द्वैतमध्यं तदन्ते तु सरस्वती | शम्भवाद्यं मध्यपूर्वं सरस्वत्यन्तकं शिवे || ६-१७८ || बाणमेधा मध्यपूर्वं तदन्ते च सरस्वती | एवं क्रमेण देवेशि दशभेदाः प्रकीर्त्तिताः || ६-१७९ || चिन्मेधा चैव चित्प्रज्ञा श्रीनाथश्च तदन्तरम् | सम्प्रदायत्रयं देवि बाणसंख्याप्रवाचकम् || ६-१८० || सारस्वतपदं पूर्वं तदन्ते सुन्दरी शिवे | प्. ८५) निग्रहाख्यं पदं पूर्वं तदन्ते तु सरस्वती || ६-१८१ || सुन्दर्यन्तं च सिद्धाद्यं शापानुग्रहकारकम् | सुन्दर्यन्तं महेशानि कालाद्यं च सरस्वती || ६-१८२ || साम्राज्याद्यं महेशानि तदन्ते तु सरस्वती | सौभाग्याद्यं महेशानि तदन्ते तु सरस्वती || ६-१८३ || देवीपरम्परायां तु संक्षेपेण प्रकाशितम् | दिव्याद्यं श्रीविलासान्तं बाणसंख्याप्रवाचकम् || ६-१८४ || दिव्याद्यं च महाप्रज्ञा बाणसंख्याप्रवाचकम् | सम्राट् वैराट् च स्वाराज्यमधिराज्यं च राज्यकम् || ६-१८५ || महाराज्यं पारमेष्ठ्यमाधिपत्यं तथैव च | सार्वभौमश्चक्रवर्ती शक्रानन्दस्तथैव च || ६-१८६ || ब्रह्मानन्दश्चिदानन्दः पूर्णानन्दस्तथैव च | महासमरसानन्दो महानन्दस्तथैव च || ६-१८७ || बाणक्रमेण देवेशि भेदानां नवतिर्भवेत् | बटुकस्य मतं प्रोक्तं नामानि सूचितानि च || ६-१८८ || निरुक्तिश्च महेशानि दीक्षाभेदोत्तरं शिवे | कथ्यते परमेशानि किमन्यत् श्रोतुमिच्छसि || ६-१८९ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे नामविवरणं नाम षष्ठः पटलः || ६ || सप्तमः पटलः | श्रीदेव्युवाच | हादिकादिक्रमेणैव सम्प्रदायत्रयं शिव | कथयस्व महादेव यद्यहं तव वल्लभा || ७-१ || श्रीशिव उवाच | सूचिता परिभाषा च विस्तरः कथ्यते शृणु | मेधादीक्षायुतो देवि केरलः परिकीर्त्तितः || ७-२ || षट्शाम्भवः प्रश्नयुतस्तथा चाष्टाष्टकान्वितः | ऋक्केरली महेशानि श्रीयजुःकेरली तथा || ७-३ || श्रीसामकेरली देवि तथा चाथर्वकेरली | अथर्वे बहवो भेदा दिव्यसिद्धादिमाननवैः || ७-४ || आनन्दभैरवशिवा दक्षिणामूर्त्तिरेव च | देवी च नवनाथश्च सिद्धभेदक्रमेण च || ७-५ || ओघत्रये महेशानि शिवशकिक्रमेण च | एतस्य लोपनाल्लोपा पराषोढाक्रमेण च || ७-६ || तत्पराचरणैर्देवी शाम्भवाष्टादशक्रमात् | तदोघक्रमयोगेन अनुलोमक्रमेण च || ७-७ || अगस्तिदुर्गाचण्डीशस्वप्नावतीक्रमेण च | महाविद्यादिक्रमेण तदोघक्रमभेदतः || ७-८ || अथर्वकेरले भेदाः शाक्ता वै ते प्रकीर्त्तिताः | शैववैष्णवसौराणां गाणबौद्धे तु भिन्नतः || ७-९ || प्. ८७) दक्षहस्तेन पूजा स्याद्वामेन तर्पणं भवेत् | तर्पणं च तथा पानं दक्षेण परिकीर्तितम् || ७-१० || वामेन पूजनं देवि क्रमेण परिकीर्तितम् | जलं दुग्धं नष्टदुग्धं संविद्रसवटी तथा || ७-११ || वृंताकः सूरणो देवि दुग्धसारस्तथैव च | कुमारीपूजनं देवि परिभाषा तु केरले || ७-१२ || परमेशसपर्ययादि तद्रूपत्वं सदा भवेत् | अन्यकर्मणि देवेशि प्रवृत्तिस्तस्य वै न च || ७-१३ || तद्धस्तनिःसृतं तोयं मुक्तारूपं क्षणाद्भवेत् | परकायप्रवेशं च चराचरपुरीगतिः || ७-१४ || वयःस्थैर्ययमथाकर्षः सर्वस्थावरजङ्गमे | ब्रह्माण्डगोलके या च या काचिज्जगतीतले || ७-१५ || करामलकवद्देवि साधकस्य भवेद्ध्रुवम् | कादिहादिमते देवि फलमेतत् कहेपि च || ७-१६ || काश्मीरं संप्रवक्ष्यामि शृणु पार्वति सादरम् | ऊर्ध्वाम्नायादिभिर्युक्तं काश्मीरी शक्तिपातयुक् || ७-१७ || अष्टाष्टकसमायुक्तः काश्मीरस्तत्त्वसिद्धियुक् | ऋक्काश्मीरो यजुश्चैव सामकाश्मीर एव च || ७-१८ || अथाथर्वणकाश्मीरो दिव्यसिद्धादिमानवैः | दक्षिणामूर्त्तिभेदेन तथा भैरवभेदतः || ७-१९ || देवः सदाशिवश्चैव नवनाथक्रमेण च | चतुरशीतिसिद्धाश्च दिव्यौघौघशिवादितः || ७-२० || शैवशाक्ते तस्य लोपात् षोडशी तत्परा क्रमात् | चरणत्रययोगेन मन्वगस्तिक्रमेण च || ७-२१ || प्. ८८) लोपा दुर्गा च चण्डेशी तथा स्वप्नावती क्रमात् | दशविद्यौघयोगेन काश्मीरे भेदभाजनम् || ७-२२ || सैववैष्णवगाणपे बौद्धसौरे तु भिन्नता | वामहस्तेन पूजा च दक्षेण तर्पणं मतम् || ७-२३ || दक्षेण पानं देवेशि ह्यनुकल्पाः प्रकीर्त्तिताः | अथ गौडं प्रवक्ष्यामि यथावदवधारय || ७-२४ || पूर्णाभिषेकसंयुक्तस्त्वष्टाष्टकसमन्वितः | ऋग्गौडश्च यजुर्गौडः सामगौडस्तृतीयकः || ७-२५ || अथर्वगौडो देवेशि तद्भेदं शृणु पार्वति | दिव्यसिद्धमानवौघदक्षिणामूर्तिभेदतः || ७-२६ || आनन्दभैरवश्चैव सदाशिवपरंपरा | देवी च नवनाथाश्च सिद्धा अपि महेश्वरि || ७-२७ || त्रितये शिवशक्तिभ्यां तल्लोपक्रमयोगतः | षोडशीमनुलोपां च तथागस्तिक्रमेण च || ७-२८ || दुर्गा चण्डेश्वरी देवी तथा स्वप्नावती क्रमात् | दशविद्यौघभेदेन तदावरणभेदतः || ७-२९ || अथर्वगौडे भेदश्च शाक्तमार्गे प्रकीर्त्तितः | शैववैष्णवसौराणां बौद्धगाणपके शिवे || ७-३० || भिन्नक्रमो महेशानि पूजनं वामहस्ततः | तर्पणं दक्षहस्तेन प्रत्यक्षं पानदानके || ७-३१ || महाविद्या सिद्धविद्या विद्याभेदेन पार्वति | विद्यारूपतदाचार तद्विद्याक्रमयोगतः || ७-३२ || चक्रभेदाम्नायभेदात्तदाचरणभेदतः | प्. ८९) विद्योपास्या गौडमार्गे द्वितयेऽपि क्रमो ह्ययम् || ७-३३ || शक्तिदेहे महेशानि ब्रह्माण्डसरसाः प्रिये | त्रितयेऽपि भवेत् साम्यं नामपारायणं तथा || ७-३४ || मंत्रपारायणं देवि नाडीपारायणं शिवे | चक्रपारायणं देवि प्रोक्तं हादिमतं शिवे || ७-३५ || अथ कादौ महेशानि सम्प्रदायक्रमं शृणु | मेधादीक्षादिसंयुक्तः श्रीकादिकेरली भवेत् || ७-३६ || ऋक्केरली यजुश्चैव तथैव सामकेरली | पञ्चपञ्चकसंयुक्तः शक्तिपातसमन्वितः || ७-३७ || षट्शाम्भवप्रश्नयुक्तस्त्रैकाल्यज्ञानगोचरः | अथर्वकेरलं देवि शृणु यत्नेन साम्प्रतम् || ७-३८ || दिव्यसिद्धमानवौघमहाकालक्रमेण च | अथानन्दभैरवेन सदाशिवक्रमेण च || ७-३९ || देवीक्रमेण देवेशि नवनाथप्रभेदतः | चतुरशीतिसिद्धैस्तु त्रितये शिवशक्तितः || ७-४० || तल्लोपनात्तत्परत्वात् तत्पादक्रमतोऽपि च | चतुश्चरणयोगे च शाम्भवाष्टादशक्रमात् || ७-४१ || तदोघक्रमयोगेन शम्भुपादक्रमेण च | दशविद्यागुरुत्वेन तदावरणयोगतः || ७-४२ || शैवादिपञ्चभेदैश्च पर्ययायक्रमभेदतः | आगमश्च तथा कालो देशाम्नायक्रमेण च || ७-४३ || दर्शनायतनत्वेन भेदबाहुल्यमीरितम् | दक्षेण पूजा वामेन तर्पणं परिकीर्तितम् || ७-४४ || प्. ९०) दक्षेण तर्पणं देवि पानं तेनैव पार्वति | वामेन देवता तर्प्या दक्षेण गुरुतर्पणम् || ७-४५ || केवलं वामहस्तेन द्वयोस्तर्पणमाचरेत् | केवलं दक्षहस्तेन तर्पणं केरली चरेत् || ७-४६ || गुरुं सन्तर्प्य दक्षेण वामहस्तेन देवताम् | ब्रह्मकौलमते देवि तर्पणं परिकीर्त्तितम् || ७-४७ || जलं दुग्धं नष्टदुग्धं संविन्मिश्रं तथैव च | संविद्रसवटी चैव वृन्ताकसूरणे तथा || ७-४८ || दुग्धसारो दुग्धसंविदासवश्च कुमारिका | पूजनं परमेशानि कादिकेरलगोचरम् || ७-४९ || उर्ध्वाम्नायादिसंयुक्तः काश्मीरः शक्तिपातयुक् | ऋक्काश्मीरो यजुश्चैव सामकाश्मीर एव च || ७-५० || अथाथर्वणकाश्मीरो भेदान् संशृणु पार्वति | दिव्यसिद्धमानवौघमहाकालक्रमेण च || ७-५१ || अतिकालकरालाख्यकालवीरक्रमेण च | काली च नवनाथाश्च चतुरशीतिसिद्धयः || ७-५२ || त्रित्यये शिवशक्तिभ्यां तल्लोपा कालिकाक्रमात् | अथ कामकला काली हंसकाली क्रमेण च || ७-५३ || शैवादिपञ्चभेदेन सप्तपर्यायभेदतः | भेदबाहुल्यमात्रं स्याद्वामेन तर्पणं स्मृतम् || ७-५४ || दक्षेण पूजा सम्प्रोक्ता ह्यनुकल्पाः प्रकीर्त्तिताः | अथ गौडं प्रवक्ष्यामि यथायोगक्रमेण च || ७-५५ || पूर्णाभिषेकसंयुक्तो गौडश्च पञ्चपञ्चयुक् | प्. ९१) ऋग्गौडो हि यजुर्गौडः सामगौडस्तथैव च || ७-५६ || अथर्वगौडो देवेशि यथावत् कथ्यते शृणु | दिव्यसिद्धमानवौघमहाकालकरालकाः || ७-५७ || वीरनाथस्तथा देवि नवनाथक्रमेण च | चतुरशीतिसिद्धाद्यैस्त्रितये शिवशक्तितः || ७-५८ || तल्लोपनाद्भवेल्लोपा कला कामकला परा | तद्वदावरणे भेदाः कीर्त्तिताः परमेश्वरि || ७-५९ || शैवादिपञ्चकत्वेन साम्यं पर्ययायसप्तके | बाहुल्यं कीर्त्तितं देवि पूर्वमेव प्रकाशितम् || ७-६० || वामेन तर्पणं देवि दक्षेण पूजनं स्मृतम् | दानं पानं च प्रत्यक्षं महाविद्याक्रमेण च || ७-६१ || सिद्धविद्याक्रमेणैव तथा विद्याक्रमेण च | युगानुरूपतो देवि सिद्धविद्यादिभेदतः || ७-६२ || तद्रूपशक्तिक्रमतस्तदाचारक्रमेण च | चक्रभावाम्नायभेदैस्तदा चरणभेदतः || ७-६३ || शक्तियोगजब्रह्माण्डे सर्वे * *(?) रसाः (?) स्फुटम् | नामपारायणं देवि मंत्रपारायणं तथा || ७-६४ || नाडीपारायणं देवि कादिहादिकहेपि च | कादिहादौ शाम्भवान्त सम्राण्मेधाभिधा भवेत् || ७-६५ || दिव्यसाम्राज्यमेधा च कहान्ता परिकीर्त्तिता | दिनतो वारतः पक्षान्मासात् षट्त्रिंशता दिनैः || ७-६६ || प्रायश्चित्तं समाचर्य कालनित्याक्रमेण च | पञ्चनित्याक्रमेणैव स्वगुरुर्वा स्वयं च वा || ७-६७ || प्. ९२) पूर्वोक्तक्रममासाद्य कलारन्ध्रक्रमेण च | कामबाणगुणत्वेन दीक्षामण्डपगो भवेत् || ७-६८ || होमं कृत्वा पूर्ववच्च सर्वं कार्यं महेश्वरि | आज्ञानाम प्रदद्याद्वै योगपट्टं समभ्यसेत् || ७-६९ || अङ्गावरणमंत्राश्च पञ्चाशत् पद्ममन्त्रकाः | श्रोतव्याश्चैव मन्तव्या द्रष्टव्याः परमेश्वरि || ७-७० || अन्यत् सर्वं पूर्ववत्स्यात् संक्षेपादिदमीरितम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ७-७१ || इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कादिदिक्षाविवरणं नाम सप्तमः पटलः || ७ || अष्टमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | निरुक्तं द्रव्यभेदश्च कथ्यते शृणु साम्प्रतम् || ८-१ || वीरादिकौलभेदाश्च पूर्वमेव प्रकाशिताः | विष्णुपाशुपतादीनां कथ्यन्ते परमेश्वरि || ८-२ || पञ्चरात्रिव्रतं प्राप्ताः पाञ्चरात्राः प्रकीर्त्तिताः | दिनपञ्चकपर्यन्तं शैवानां न विलोकनम् || ८-३ || मुद्रासन्धारिणीं रण्डां कृत्वा सम्पूजयन्ति ये | प्रसादः कस्य वेत्युक्ते श्रीकृष्णस्येति यो वदेत् || ८-४ || स्वभुक्तं चैव नैवेद्यं देवतार्थप्रयोजकः | वर्त्तन्ते वैष्णवा ये च शिवनिन्दापरायणाः || ८-५ || वैष्णवानपि निन्दन्ति पाञ्चरात्राश्च ते मताः | पाषण्डाख्यव्रतं प्राप्ताः पाषण्डास्ते प्रकीर्तिताः || ८-६ || श्मशानभस्मधारी च भस्मधारणसञ्चयः | स्नानसन्ध्यादिकं देवि लौकिकार्थं तु यश्चरेत् || ८-७ || विष्णुद्वेषपरो भूत्वा सर्वं प्रकुरुते नरः | स पाषण्डेति कथितः शृणु कापालिकं शिवे || ८-८ || कपालपात्रसम्भोजी मद्यमांसेषु तत्परः | स्त्रियोनिदर्शको नित्यं मुण्डमालाधरः सदा || ८-९ || प्. ९४) श्मशानाग्निप्रभोजी यः स च कापालिकः स्मृतः | स च द्वादशधा प्रोक्तो महाकापालिक परः || ८-१० || स्नानदानादिरहितः शौचाशौचविवर्जितः | न जपो न तपस्या च न तस्य नियमः क्वचित् || ८-११ || ईदृग्विधो भवेच्चीनः सकलो निष्कलो द्विधा | जैनं शृणु महादेवि कमण्डलुधरः सदा || ८-१२ || जीव एव परं भोगी कर्त्ता हर्ता स एव हि | यदेव तत्सुखं देवि तत्सुखं स्वात्मरूपकम् || ८-१३ || स जैनः कथितो देवि एवं बौद्धादयो मताः | केशसंलुञ्चका देवि तथा श्वेतपटाः प्रिये || ८-१४ || तथा रक्तपटा देवि तथा नीलाम्बरादयः | बृहद्गुरुरिति ख्यातास्तथान्ये परमेश्वरि || ८-१५ || अहिंसकास्तथान्ये च भेदाः संक्षेपतो मताः | मुद्राधिकारिणो देवि कथ्यन्ते शृणु साम्प्रतम् || ८-१६ || ब्राह्मणैर्न तथा कार्यं ब्राह्मण्यं च विनश्यति | मुद्रां तु ब्राह्मणो धृत्वा रौरवं नरकं व्रजेत् || ८-१७ || वेदैस्तु रहितो यो हि स मुद्राधारको भवेत् | मुद्रया सहितो यो हि स कथं ब्राह्मणो भवेत् || ८-१८ || मुद्रा चतुर्विधा देवि चातुर्विध्यं शृणु प्रिये | ब्राह्मणो भावयेद्देहे विष्णुभावप्रबुद्धये || ८-१९ || क्षत्रियो रेखयेद्देहे वैश्यो मुद्रां प्रविन्यसेत् | शूद्राधमादिकानां च तप्तमुद्रा प्रकीर्त्तिता || ८-२० || अत्यन्तभक्तियुक्तोऽपि भावयेन्न तु रेखयेत् | ब्राह्मणो रेखयेत् क्वापि बिम्बयेन्न कदाचन || ८-२१ || प्. ९५) देवो भूत्वा यजेद्देवं नादेवो देवमर्चयेत् | तस्माद्विष्णुस्वरूपत्वं स्वस्मिन् भाव्यं महेश्वरि || ८-२२ || ततो जपं प्रकुर्वीत तस्य सिद्धिर्भवेन्मनोः | एवमेव महेशानि शैवादीनां क्रमो भवेत् || ८-२३ || शङ्खचक्राङ्कितं दृष्ट्वा सचैलं स्नानमाचरेत् | त्रिशूलं डमरूं देवि ब्राह्मणो भावयेत्सदा || ८-२४ || धारणं शिवलिङ्गस्य शिवमुद्रादिधारणम् | द्विजस्तु वर्जयेद्देवि संक्षेपादिह कीर्त्तितम् || ८-२५ || शक्तेरुपासको यस्तु स च शाक्तः प्रकीर्त्तितः | वैखानसादिदीक्षाद्यैर्युक्तो वैष्णव एव च || ८-२६ || षडध्वशाम्भवाद्यैस्तु युक्तः शैवः प्रकीर्त्तितः | केवलं शिवसंपन्नस्त्वन्यदेवस्य निन्दकः || ८-२७ || वीरशैवेति गदितो वीराख्यं वैष्णवं शृणु | केवलं विष्णुनिरतः सर्वदेवप्रनिन्दकः || ८-२८ || वीरवैष्णव इत्युक्तः पापभाजौ नरावुभौ | चन्द्रजापरतो यस्तु स च चान्द्रो महेश्वरि || ८-२९ || सूर्यासक्तमना यस्तु स सौरः परिकीर्त्तितः | ब्रह्मणोपासको यस्तु स च स्वायम्भुवो मतः || ८-३० || दुर्गाचण्ड्यादिसंयुक्तः स च दौर्गः प्रकीर्त्तितः | वेदमूलाः क्रियाः सर्वा वेदमूला परा स्मृतिः || ८-३१ || वेदेन रहितं यत्तु तन्न कुर्याद्द्विजः क्वचित् | वेदमार्गरतो नित्यं ब्राह्मणो भवति ध्रुवम् || ८-३२ || वेदेन रहितो यस्तु च चाण्डालः प्रकीर्त्तितः | स्वस्वधर्म्मं पुरस्कृत्य सर्वं कार्ययं महेश्वरि || ८-३३ || प्. ९६) स्वधर्मनिरतो नित्यं सुखमाप्नोति निश्चितम् | स्वधर्मरहितो विप्रः सुतहारी द्विजाधमः || ८-३४ || तं दृष्ट्वा तु महेशानि प्राजापत्यं समाचरेत् | तदभावे महेशानि सचैलं जलमाविशेत् || ८-३५ || तस्मान्मुद्रादिकद्वेषं ब्राह्मणो वर्जयेत् सदा | अधमानुग्रहार्थं तु मुद्रा प्रोक्ता मया तव || ८-३६ || सत्यं सत्यं महेशानि किमन्यत् श्रोतुमिच्छसि | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि विष्णुभेदान् शिवस्य च || ८-३७ || श्रीशिव उवाच | वैखानसो भवेदादौ श्रीराधावल्लभस्तथा | गोकुलेशो महेशानि तथा वृन्दावनी भवेत् || ८-३८ || पाञ्चरात्रः पञ्चमः स्यात् सष्ठः श्रीवीरवैष्णवः | रामानन्दी हरिव्यासी निम्बार्कश्च महेश्वरि || ८-३९ || ततो भागवतो देवि दशभेदाः प्रकीर्त्तिताः | शिखी मुण्डी जटी चैव द्वित्रिदण्डी क्रमेण च || ८-४० || एकदण्डी महेशानि वीरशैवस्तथैव च | सप्त पाशुपताः प्रोक्ता दशधा वैष्णवा मताः || ८-४१ || एतेषां वासनां देवि शृणु यत्नेन शाम्भवि | वेवेष्टि सर्वं संव्याप्य यस्तिष्ठति स वैष्णवः || ८-४२ || वैखानसादिदीक्षाद्यैर्भूषितः स्मार्त्तवैष्णवः | श्रीराधावल्लभं देवि शृणु यत्नेन शाम्भवि || ८-४३ || प्. ९७) वैष्णवाचारनिरतो विष्णुतंत्रैकपारगः | अनन्यचेताः शान्तात्मा विष्णुचिह्नपरायणः || ८-४४ || श्रीराधावल्लभो देवि गोकुलेशं शृणु प्रिये | नानाभूषणसंपन्नो नानासौगन्धभूषितः || ८-४५ || गवां कुलं प्रीणयिता कलिकृष्णस्वरूपधृक् | शरीरमर्थं प्राणांश्च तन्निवेदनकारकः || ८-४६ || अन्तःशक्तिपरो देवि बहिर्वैष्णवरूपधृक् | गन्धर्वाचारनिरतो लतावेष्टनतत्परः || ८-४७ || सम्प्रदायो गोकुलेशः सर्वसिद्धिकरो भुवि | वृन्दावनाख्यं देवेशि शृणु यत्नेन साम्प्रतम् || ८-४८ || विगताशः प्रसन्नात्मा विष्णुभक्तिपरायणः | कामिनीसङ्गचपलो वनक्रीडाविनोदधृक् || ८-४९ || सौगन्धभूषिततनुः स्त्रीध्यानैकपरायणः | विष्णुसारूप्यतत्त्वज्ञः प्रोक्तो वृन्दावनी शिवे || ८-५० || पाञ्चरात्रो महेशानि तथैव वीरवैष्णवः | पूर्वमेव महेशानि कीर्त्तितः परमेश्वरि || ८-५१ || रा शक्तिरिति विख्याता म शिवः परिकीर्त्तितः | तदानन्दी शान्तचित्तः प्रसन्नात्मा विचारधृक् || ८-५२ || सर्वत्र समरूपश्च रामानन्दी प्रकीर्त्तितः | हरिव्यासं महेशानि यथावदवधारय || ८-५३ || पापसंहारणे शक्तो विष्णुभक्तो जितेन्द्रियः | यमादिनियमैर्युक्तस्त्यक्ताचारपरायणः || ८-५४ || सोपयोगफलग्राही परकार्यपरायणः | प्. ९८) हरिव्यासी महेशानि शिवशक्तिस्वरूपधृक् || ८-५५ || निंबार्काख्यं सम्प्रदायं शृणु यत्नेन साम्प्रतम् | नित्यार्चनक्रमासक्तः स्वतंत्रैकपरायणः || ८-५६ || बाह्यपूजादिनिरतोऽनन्यभक्तः प्रसन्नधीः | आर्यपक्षान्वितः स्वच्छः स्वच्छन्दाचारतत्परः || ८-५७ || स्वतन्त्रः स्मार्त्तविद्वेषी निम्बार्को भगवान् हरिः | अथ भागवतं देवि कथ्यते शृणु साम्प्रतम् || ८-५८ || विष्णुभक्तौ च निपुणो विजितात्मा प्रसन्नधीः | स्मार्त्तकर्मान्वितो देवि तदन्याचारतत्परः || ८-५९ || आर्ययपक्षान्वितो देवि तथा चारुणवेषधृक् | शैवद्वेषी तस्य सङ्गात् पुनःस्नानपरायणः || ८-६० || केवलं विष्णुचित्तज्ञः प्रोक्तो भागवतः शिवे | तेषां व्रतादिकानां तु निर्णयः कथ्यते क्रमात् || ८-६१ || एकादशी सदोपोष्या भक्तियुक्तेन चेतसा | एकादश्यामहोरात्रं न भोक्तव्यं कदाचन || ८-६२ || मुहूर्त्तविद्धा दशमी ततो रौद्रीसमागमः | तस्यां तिथौ न भोक्तव्यं दशम्यां भोजनं चरेत् || ८-६३ || सूर्योदयमभिव्याप्य या तिथिर्याति पार्वति | सा तिथिः सकला ज्ञेया तत्तिथ्युक्तं समाचरेत् || ८-६४ || आद्या शैवेति विख्याता द्वितीया मोहिनी भवेत् | द्वाभ्यां त्वित्थमुपोष्यैव सर्वपापैः प्रमुच्यते || ८-६५ || द्विधा तिथिर्यदा देवि तदेदं परिकीर्त्तितम् | यद्यप्येकादशी पूर्णा द्वितीयेऽह्नि न विद्यते || ८-६६ || प्. ९९) द्वितीये वृद्धिदा देवि द्वादशी यदि दृश्यते | द्वितीये समुपोष्यैव सर्वपापैः प्रमुच्यते || ८-६७ || स्मार्त्तानां मतमाख्यातं वैखानसमतं शृणु | एकादश्यां तु यः कश्चित् प्रमादात् भोजनं चरेत् || ८-६८ || चत्वारि तस्य नश्यन्ति आयुर्विद्या यशो बलम् | कोट्यर्बुदं सन्निवसेत् रौरवे नरके प्रिये || ८-६९ || गोकुलेशमतं देवि कथ्यते शृणु साम्प्रतम् | स्मार्तवैष्णवयोर्मध्ये विवादो हि महानयम् || ८-७० || परस्परं प्रशंसन्ति निन्दन्ति च परस्परम् | ते मूढा नैव जानन्ति पाषण्डशास्त्रमोहिताः || ८-७१ || विष्णुरूपधरः शम्भुः शम्भुरूपधरो हरिः | अत्रार्थे प्रत्ययो देवि रुद्रा एकादश स्मृताः || ८-७२ || विष्णुं मिलित्वा देवेशि द्वादशी परिकीर्त्तिता | एकादशी तु रुद्रस्य द्वादशी श्रीपतेः स्मृता || ८-७३ || कलामात्रान्विता वृद्धा मुहूर्तसंयुतापि चेत् | गोकुलेशमतं प्रोक्तं गोपालसुन्दरी परः || ८-७४ || पूर्णामेकादशीं प्राप्य द्वादश्यां समुपोषणम् | स्मार्त्तद्वेषपरो भूत्वा प्रमादाद्यः समाचरेत् || ८-७५ || एकादशी हानिदा स्यात् पुत्रायुर्धननाशिनी | स्मार्त्तद्वेषपरो भूत्वा एकाश्यां तु भोजनम् || ८-७६ || पाषण्डमतमाश्रित्य सूर्यारुणकलार्धतः | पक्षमाश्रित्य देवेशि यः करोति नराधमः || ८-७७ || कोट्यर्बुदयुगं देवि नरके निवसेद्ध्रुवम् | विष्णुद्वेषपरो भूत्वा रोहिण्यां भोजनं चरेत् || ८-७८ || प्. १००) स दरिद्री महापापी तस्य पातो भविष्यति | अरुणोदयवेधस्तु श्रीनिम्बार्कमतं मतम् || ८-७९ || सूर्योदयाख्यवेधो हि श्रीवैखानससम्मतम् | कलावेधो महेशानि वैष्णवानां प्रकीर्त्तितः || ८-८० || मुहूर्त्तवेधो देवेशि स्मार्त्तानां परिकीर्त्तितः | अथात्र पाञ्चरात्राणां आद्यपक्षः प्रकीर्त्तितः || ८-८१ || कल्पितं वेधमाश्रित्य द्वादशीं कल्पयन्ति च | न लज्जन्ति च ते मूढाः प्रोक्तास्ते यमकिङ्कराः || ८-८२ || सुरेन्द्रसंहिता देवि तथा षट्शाम्भवः शिवे | गोपालपाञ्चरात्रं च षडन्वयमतं तथा || ८-८३ || श्रीगोपीपरिशिष्टं च मोहशक्तीश्वरस्तथा | षट्शाम्भवरहस्यं च क्रमादेते प्रकीर्त्तिताः || ८-८४ || एतद्ग्रन्थक्रमाद्देवि विवेचनमुदीरितम् | अथ पाशुपतानां च वासनां शृणु पार्वति || ८-८५ || शिखिपाशुपतो देवि शिखासूत्रधरः शुभः | समाधितत्परो देवि समाधौ शिवपीठधृक् || ८-८६ || रुद्राक्षं च तथा भस्म लिंगं शैवाभिधं शिवे | प्रसन्नात्मा शान्तचित्तो ब्रह्मचारी प्रकीर्त्तितः || ८-८७ || मतं श्रीबिन्दुमालिन्याः समाश्रित्य प्रतिष्ठति | मुण्डी त्रिंशद्विधो देवि तारासुक्ते प्रकाशितः || ८-८८ || तत्र पाशुपताचारसम्पन्नो मुण्डितो भवेत् | जटी पाशुपतो देवि सोऽपि दशविधः स्फुटम् || ८-८९ || त्रिजटैकजटाधारी तथा बहुजटाधरः | प्. १०१) नग्नस्तपस्वी शान्तात्मा देहक्लेशपरायणः || ८-९० || क्रमत्रितयसम्पन्नो जटी पाशुपतः स्मृतः | द्विदण्डी तु महेशानि वाङ्मनोदण्डसंयुतः || ८-९१ || कायवाङ्मनसो दण्डस्त्रिदण्डी परिकीर्त्तितः | वीरशैवः प्रसिद्धोऽत्र पूर्वमेव प्रकाशितः || ८-९२ || सर्वोत्तमो भवेच्छैवः शाम्भवः परिकीर्त्तितः | चतुर्दशीव्रतासक्तः प्रदोषव्रततत्परः || ८-९३ || शनिप्रदोषे देवेशि महाव्रतपरायणः | दारिद्र्यदहनं नाम व्रतमेतत्प्रकीर्त्तितम् || ८-९४ || कृष्णपक्षे विशेषेण शुक्लपक्षेऽपि पार्वति | अष्टमीसप्तमीसन्धौ प्रदोषव्रतमीरितम् || ८-९५ || एतद्व्रतसमायुक्तः शिवपूजापरायणः | शनिप्रदोषे सम्प्राप्ते शकुनं संशृणु प्रिये || ८-९६ || शनिवारे सोमवारे पुस्तकं चाभिमंत्रयेत् | आदित्यंवासरे देवि राशिं काममितां चरेत् || ८-९७ || यत्रादौ दीयते देवि स चाध्यायः प्रकीर्त्तितः | द्वितीये दशको देवि तृतीये श्लोकसंख्यता || ८-९८ || दशकालामतो देवि सर्वेभ्यो विनियोजनम् | कुमारीं प्रार्थ्य यत्नेन सपुष्पफलसंयुताम् || ८-९९ || स्थापयेद्राशिमध्ये तु दर्पणोदरसन्निभे | गोमयैरुपलिप्ते तु भूमौ स्वस्तिकमण्डले || ८-१०० || प्. १०२) कुमारीं पूजयित्वा च नवकन्याप्रभेदतः | तत्र वाच्यं प्रयत्नेन भूतं भव्यं भविष्यकम् || ८-१०१ || शुभाशुभादिकं कर्म तथा षट्कर्मसाधनम् | षट्कर्म त्रिविधं प्रोक्तं यथावदवधारय || ८-१०२ || वश्याकर्षस्तम्भनं च विद्वेषोच्चाटनं तथा | मारणं चैव देवेशि विरूपाक्षस्य सम्मतम् || ८-१०२ || वश्यस्तम्भनसम्मोहा मारणोच्चाटनं तथा | विद्वेषणं च देवेशि षट्कर्माणि विराण्मते || ८-१०४ || शान्तिस्तम्भौ वशीकारो मारणोच्चाटने तथा | द्वेषणं चेति देवेशि षट्कर्माणि यथाक्रमात् || ८-१०५ || यस्मिन् विद्याविधौ देवि यत्कर्म परिकीर्त्तितम् | तत्कर्माणि समारभ्य षट्कर्माणि जगुः प्रिये || ८-१०६ || बगलेशी तथा वश्ये बगला स्तम्भने तथा | वश्ये पञ्चदशी प्रोक्ता वशीकारस्त्रिधा भवेत् || ८-१०७ || आदौ प्रीतिर्महेशानि मोहनं तु द्वितीयकम् | वशीकारस्तृतीयः स्यात् त्रितयं त्रितयं त्रिषु || ८-१०८ || एके जाते महेशानि त्रितयं जायते शिवे | शनिप्रदोषमाश्रित्य स्थाने शैवविभूषिते || ८-१०९ || पश्चिमाभिमुखं लिङ्गं नन्दिहीनं पुरातनम् | चतुरः पञ्चक्रोशान्ते न लिङ्गं दृश्यते शिवे || ८-११० || तदेकलिङ्गमाख्यातं तत्र सिद्धिरनुत्तमा | ऊर्ध्वपुण्ड्रं त्रिपुण्ड्रं वा पट्टबन्धनमेव च || ८-१११ || अगस्तिपत्राकारं वा स्त्रीणां शून्यकरेण च | प्. ११२) द्वादशाष्टचतुर्योगात् ऊर्ध्वपुण्ड्रं प्रकीर्त्तितम् || ८-११२ || शिवविष्णुशिवायुक्तं त्रिपुण्ड्रं परमेश्वरि | शनिप्रदोषे धृत्वा तु शिवं पूज्य प्रयत्नतः || ८-११३ || भोजयेद्ब्राह्मणान् देवि अकाण्डादिदमीरितम् | गोपनीयं रहस्यं च किमन्यत् श्रोतुमिच्चस्ति || ८-११४ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे प्रदोषविधिर्नामाष्टमः पटलः || ८ || नवमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | पूजाद्रव्यं महादेव सम्प्रदायत्रये वद || ९-१ || श्रीशिव उवाच | षड्दर्शने षडाम्नाये महाविद्याविधौ शिवे | पञ्चायतनके देवि शिवशक्तियुतेऽपि च || ९-२ || अथ गोपालनृहरी गणेशशङ्करौ तथा | हयग्रीवो रामचन्द्रः कालः काली महेश्वरि || ९-३ || तारागणपतिश्चैव ताराबटुक एव च | आद्यन्तक्रमयोगेन द्विधा भेदः प्रकीर्त्तितः || ९-४ || एतेषां सुन्दरीयोगात् यंत्रं शृणु महेश्वरि | मूलयंत्रं समुद्धृत्य तत्र बिन्दौ महेश्वरि || ९-५ || देवयंत्र साङ्गकं तु भावयेद्यतमानसः | विद्यायंत्रौ यथा पूज्यौ देवयंत्रेऽथ वा पुनः || ९-६ || पूजनीया महेशानि गोपालसुन्दरी परा | पूर्वोक्तानां समस्तानां पूजायंत्रं प्रकीर्त्तितम् || ९-७ || एवमेव तु सर्वेषां कथितं तु तृतीयकम् | आदौ यदुच्चरेद्देवि तद्यंत्रं पूजयेद्धरम् || ९-८ || शक्तिर्वा शिवमंत्रो वा यस्य चोच्चारणं भवेत् | तस्य यंत्रं पूजयेत्तु संक्षेपात् गदितं मया || ९-९ || प्. १०५) निरूपाक्षमते तारे पत्रे यंत्रं तु संलिखेत् | सुन्दरी भैरवी देवी तथैव कालसुन्दरी || ९-१० || सुन्दरी काल इत्युक्तः सुन्दरी गोप इत्यपि | इति संक्षेपतः प्रोक्तं द्रव्यभेदं शृणु प्रिये || ९-११ || केरलश्चैव काश्मीरो गौडश्चैव तृतीयकः | शिवशक्तितद्द्वयत्वं सप्तपर्ययायभेदतः || ९-१२ || चतुरशीतियुग्मेन नाथत्रितयमार्गतः | ओघत्रयक्रमेणैव वटवासिक्रमेण च || ९-१३ || दशविद्यागुरुत्वेन भेदबाहुल्यमीरितम् | दुग्धं वृन्ताककं देवि सूरणस्तु तृतीयकः || ९-१४ || दुग्धसारं कुमारी च पञ्चतत्वानि वै जगुः | आत्मविद्या शिवाख्या च सर्वं पूर्णक्रमेण च || ९-१५ || काश्मीरे त्वनुकल्पैश्च ताम्रे गव्यं प्रदापयेत् | पिण्याकं तु द्वितीयं च गृञ्जनं तु तृतीयकम् || ९-१६ || चतुर्थं पायसं दुग्धं पञ्चमं मिथुनं भवेत् | पञ्चानुकल्पा देवेशि काश्मीराख्यक्रमे मताः || ९-१७ || मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च | मकाराः पञ्च वै ख्याता गौडमार्गे महेश्वरि || ९-१८ || सामान्यत्वेन कथितं विशेषं शृणु सादरम् | दुग्धानुकल्पमद्यैश्च पूजयेच्च यथाक्रमात् || ९-१९ || दुग्धेन केरले पूजा काश्मीरे भावना मता | गौडे प्रत्यक्षदानं स्यात् त्रितयं कीर्त्तितं मया || ९-२० || जलाद्दशगुणं देवि शीतलं जलमीरितम् | प्. १०६) ततः शतगुणं प्रोक्तं सौगन्धि जलमत्र तु || ९-२१ || जलात् शतगुणं प्रोक्तं दधि चात्र महेश्वरि | ततः शतगुणं दुग्धं ततः शतगुणं घृतम् || ९-२२ || घृताच्छतगुणं तैलं तैलाच्छतगुणं मधु | ततः शतगुणा संवित् ततः शतगुणं मधु || ९-२३ || उत्तरोत्तरतौ गौडे केरले संहृतिक्रमात् | शुद्धकेरलमार्गे तु जलेन पूजनं चरेत् || ९-२४ || चैतन्यकेरले देवि शीतलेन जलेन च | ऋक्केरले महेशानि सौगन्धिजलतोऽर्चनम् || ९-२५ || गुप्तकेरलमार्गे तु दुग्धेन पूजनं चरेत् | उग्रकेरलमार्गे तु नष्टदुग्धेन पूजनम् || ९-२६ || पञ्चकं गदितं देवि शम्भुतो भैरवान्तकम् | पञ्चके त्रितयं देवि त्रितयं त्रितयं त्रिषु || ९-२७ || शुद्धकाश्मीरमार्गे तु द्रव्यस्य भावना मता | ऋक्काश्मीरे नखजलमुग्राख्ये ह्यनुकल्पनम् || ९-२८ || क्रूरकाश्मीरमार्गे तु नष्टद्रव्यानुकल्पनम् | गुप्तकाश्मीरमार्गे तु गुडार्द्रकरसः स्मृतः || ९-२९ || अथर्वाख्ये तु काश्मीरे ताम्रपात्रे मधु स्मृतम् | काश्मीरः कथितो देवि गौडमार्गं शृणु प्रिये || ९-३० || शुद्धगौडे महेशानि विजया दुग्धमीरितम् | ऋग्गौडे तु महेशानि विजया मधुसंयुता || ९-३१ || यजुर्ग्गौडे महेशानि तत्पाको विनिवेद्यताम् | गुप्तगौडे महेशानि तत्कल्पः परिकीर्त्तितः || ९-३२ || प्. १०७) उग्रगौडे महेशानि मदिरादानमीरितम् | देवतार्थं तु संप्रोक्तं नान्यकर्मणि योजयेत् || ९-३३ || सर्वातिरिक्तो देवेशि विलासाख्यः प्रकीर्त्तितः | विलासाख्ये सम्प्रदाये स्वयमस्ति सदाशिवः || ९-३४ || हार्द्दबाह्यप्रभेदेन द्विविधत्वं च पार्वति | चातुर्वर्ण्यानुयोगेन योजनीयं प्रयत्नतः || ९-३५ || ब्राह्मणेन तथा कार्ययं ब्राह्मण्यं न विनश्यति | ब्राह्मणो मदिरां दृष्ट्वा ब्राह्मण्यादेव हीयते || ९-३६ || ब्राह्मणस्त्वनुकल्पं च दत्त्वा चाण्डालतामियात् | मांसभक्षी द्विजो यस्तु वेदबाह्यो तथा स्मृतः || ९-३७ || तथैव वेदबाह्यो हि स द्विजः परिकीर्त्तितः | श्रीदेव्युवाच | अनुकल्पादिकं प्रोक्तं सन्देहोऽस्ति मम प्रभो || ९-३८ || पञ्चामृतादौ देवेश कथं दुग्धादिकल्पना | श्रीशिव उवाच | ताम्रे गव्यं मधुसमं दैवे पित्र्ये न दुष्यति || ९-३९ || अत एव महेशानि होमे ताम्रं प्रगृह्यते | पूजाद्रव्यं तु सामान्याद्गौडकाश्मीरयोः शृणु || ९-४० || घृतं दुग्धं च देवेशि नवनीतं च तक्रकम् | दधिखण्डं नष्टदुग्धं मधु चैव मधूदकम् || ९-४१ || तैलं गुडार्द्रकं देवि मधु सम्वित्तथैव च | दुग्धं सलवणं चैव दधि दुग्धं तथैव च || ९-४२ || प्. १०८) संविद्दुग्धं तस्य पाकः केवला विजया च वा | जातीपत्रं तत्फलं च म्लेच्छं दिव्यमथापि वा || ९-४३ || नारिकेलोदकं कांस्ये ताम्रे गव्यं महेश्वरि | अहिफेनं धूर्तपुष्पं वनजं नखजं जलम् || ९-४४ || धूर्त्तबीजं वत्सनाभं तथैव शीतलं जलम् | मृत्युभीत्या वत्सनाभं धूर्त्तबीजं विवर्जयेत् || ९-४५ || त्रयोदशविधा देवि मदिरा गौडसम्मता | अरिष्टासवसीध्वादिभेदेन परमेश्वरि || ९-४६ || संविद्दुग्धोऽहिफेनं च जातीकोषलवङ्गकम् | चन्द्रशीतलनीरैश्च योगिनीपानमुत्तमम् || ९-४७ || लवणार्द्रकपिण्याकं गोधूमं मांसपञ्चकम् | लशुनं गृञ्जनं देवि कलिङ्गं बिल्वकं तथा || ९-४८ || कपित्थं दग्धकूरं च तथैव दग्धपायसम् | पलाण्डुगोस्तनीकादि दशकं वारुणीभवम् || ९-४९ || अत्युग्रविद्याविषये द्रव्याण्येतानि साधकः | वीरसाधनकार्यये तु देवि द्रव्याणि चार्पयेत् || ९-५० || वेदमूलाः क्रियाः सर्वा ब्राह्मणो वेद एव च | प्राणा वरं प्रगच्छन्तु ब्राह्मणो नार्पयेत्सुराम् || ९-५१ || ताम्रे मधु सुरातुल्यं घृतेन वर्जितं यदि | नारिकेलोदकं कांस्ये काब्जिका कूरसम्भवा || ९-५२ || हार्द्दबाह्यप्रभेदेन पूर्वसिद्धिसमस्तकम् | द्वितीये भावनामात्रं पूर्वं वै कथितं शिवे || ९-५३ || लताजपे तथा पूजाद्रव्यदाने महेश्वरि | केरले भावनां कृत्वा दृष्ट्वा चैव जपेत्सदा || ९-५४ || प्. १०९) काश्मीरे वा लतासङ्गः जपपूजादिकं चरेत् | गौडे यथोक्तविधिना जपं कुर्यान्महेश्वरि || ९-५५ || त्रितयं कथितं देवि रहस्यातिरहस्यकम् | इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि || ९-५६ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वं संसूचितं च यत् | तन्मे वद महादेव यद्यहं तव वल्लभा || ९-५७ || श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु साम्प्रतम् | मेरुस्तु त्रिविधः प्रोक्तः सामान्यत्वेन पार्वति || ९-५८ || न्यासमेरुर्यंत्रमेरुरग्निमेरुस्तथैव च | प्रत्येकं त्रितयत्वेन त्रयाणां विद्धि पार्वति || ९-५९ || न्यासमेरुर्यंत्रमेरुः प्रत्येकं द्विविधो मतः | बाह्याभ्यन्तरभेदेन द्विविधत्वं प्रकीर्त्तितम् || ९-६० || न्यासमेरुस्त्रिधा देवि शृणु त्वं यत्नतः शिवे | मेरुप्रस्तारविन्यासस्तथा कैलाससंज्ञकः || ९-६१ || भूप्रस्तारस्तृतीयः स्याच्चान्तरत्वाच्चतुर्विधः | यंत्रमेरुस्तथा देवि षड्विधः परिकीर्त्तितः || ९-६२ || न्यासे तु बाह्यन्यसनं मंत्रस्तु भावना मता | यंत्रे तु लेखनं बाह्ये मानसी भावना मता || ९-६३ || प्. ११०) लयमेरुर्योगमेरुर्नादमेरुस्तृतीयकः | योगवीणाख्यमेरुस्तु तुरीयः परिकीर्त्तितः || ९-६४ || कन्यामेरुः पञ्चमः स्यात् पञ्चैते मेरवः स्मृताः | वह्निमेरुः पञ्चधा स्याद्बाह्याभ्यन्तरतो दश || ९-६५ || मंत्रमेरुर्वर्णमेरुर्द्वावेतौ तारिणीमते | वर्णमेरौ तु कोष्ठानि शतभेदेन सप्ततिः || ९-६६ || चतुःशृङ्गाह्वये मेरौ वर्णाः सर्वे प्रतिष्ठिताः | अन्ये संसूचिता देवि तत्राग्निमेरवः शृणु || ९-६७ || वह्निमेरोर्लक्षणानि शृणु यत्नेन साम्प्रतम् | चत्वारिंशत्तथाष्टौ च कुण्डानि कारयेत् प्रिये || ९-६८ || श्रीविद्याभेदयुक्तानां मेरुः प्रोक्तस्त्वयं शिवे | षोडश्युपासकानां तु शतं कुण्डानि चन्द्रयुक् || ९-६९ || चतुश्चरणयुक्तानामष्टोत्तरशतं शिवे | षट्शाम्भवप्रयुक्तानां कुण्डानि रश्मिसंख्यया || ९-७० || मेधादीक्षादियुक्तानां मेरुस्त्वाभ्यन्तरो मतः | श्रीविद्योपास्तियुक्तानां मेरु संकथितो मया || ९-७१ || श्रीविद्यारहितो यस्तु न मेरुसाधनं चरेत् | श्रीविद्यारहितो यस्तु नाचार्यत्वं प्रगच्छति || ९-७२ || पूर्णाभिषेकसंयुक्तस्त्वाचार्ययः कीर्त्तितो मया | ऊर्द्ध्वाम्नायादिसंयुक्तो द्वितीयः परिकीर्त्तितः || ९-७३ || पूर्णाभिषेकरहितस्त्वाचार्ययत्वं करोति यः | तस्य नाशं करिष्यामि योगिनीगणभूषितः || ९-७४ || पूर्णाभिषेकरहिते मेरुसंसाधनं नहि | प्. १११) प्रमादान्मोहतो दम्भात्तस्य पातो भविष्यति || ९-७५ || दुर्भिक्षं राष्ट्रभङ्गं च पृथ्वीकम्पादिकं शिवे | जलाग्निवातसम्भूता बाधा तद्ग्रामगा भवेत् || ९-७६ || त्रिवर्षैः पञ्चवर्षैस्तु धूमकेतुर्भविष्यति | षष्ठिनाडीमभिव्याप्य पलानि पञ्चविंशतिः || ९-७७ || अहिकेतुस्ततो भूयादरिकेतुस्तदुत्तरम् | घटकेतुस्ततो देवि ततश्चैव ध्वजाभिधः || ९-७८ || वर्षमात्रेण देवेशि तत्कुटुम्बं विनश्यति | वेदबाह्यो यथा देवि द्विजबाह्यस्तथा नरः || ९-७९ || कुटुम्बहा भवेत्सोऽपि प्रायश्चित्तेन शुद्ध्यति | तस्य संसर्गमात्रेण राज्यं नश्यति निश्चितम् || ९-८० || दीक्षितो यस्तु कुरुते तस्य शोभां शृणु प्रिये | अणिमाद्यष्टकं देवि वाक्सिद्धिः कामरूपता || ९-८१ || षष्टिसिद्धीश्वरो भूत्वा शिवतुल्यो नरो भवेत् | स देशो धन्यतां याति प्रसन्नाः सर्वदेवताः || ९-८२ || पञ्चाग्नौ द्वादशाग्नौ विज्ञेयं(?) शृणु शाम्भवि | आदौ दृग्दीक्षणं कार्ययं ततो वाग्दीक्षणं भवेत् || ९-८३ || स्पर्शदीक्षा ततः प्रोक्ता ततो वर्णमयी भवेत् | ततः क्रियावती ज्ञेया ततः कलावती भवेत् || ९-८४ || आणवी तु ततो ज्ञेया ततः षड्दर्शनी भवेत् | पञ्चायतनदीक्षा स्यात् ततः श्रीपञ्चपञ्चिका || ९-८५ || ततः पूर्णाभिषेकः स्यात् षडाम्नायक्रमेण च | एवं मेधान्तसंयुक्तः शिव एव न संशयः || ९-८६ || प्. ११२) पञ्चायतनपर्ययन्तं द्वादशाग्न्याधिकारिता | गायत्र्युपासका ये च पञ्चायतनदीक्षिताः || ९-८७ || तैः कार्यं साधनं देवि पञ्चाग्निसूर्यसंज्ञके | एकाग्निरपि नन्दाग्निर्धूम्रपानं महेश्वरि || ९-८८ || जलाकाशाधिवासो हि तैः कार्ययः परमेश्वरि | गायत्र्यामपि संकार्यं तुर्याख्यायां महेश्वरि || ९-८९ || नान्यत्र कार्ययं देवेशि मेरुसंसाधनं शिवे | रहस्यातिरहस्यं च कथ्यते चान्यदेव हि || ९-९० || न्यासे यंत्रे कामकलारूपसंन्यसनं शिवे | तथाग्निमेरौ देवेशि चाङ्कुरारोपणं शिवे || ९-९१ || यथा कामकलाध्यानमङ्कुरारोपणं तथा | यथासनादिसंशुद्धिः तद्वद्वास्तु प्रपूजनम् || ९-९२ || तत्तत्कृत्वा महेशानि चाधिकारी भवेद्ध्रुवम् | वास्तुं विना यः कुरुते तस्य नाशो भविष्यति || ९-९३ || श्रीदेव्युवाच | अथ वै सर्वमेरूणां फलं किं वद शङ्कर | श्रीशिव उवाच | न्यासमेरोः फलं देवि देहसिद्ध्यादिकं शिवे || ९-९४ || यंत्रमेरोः फलं देवि त्रैलोक्यविजयादिकम् | अग्निमेरोः फलं देवि कथ्यते शृणु साम्प्रतम् || ९-९५ || त्रैलोक्यवशकारित्वं लोकसम्मोहनं शिवे | अदृश्यत्वं निस्पृहत्वं सौख्यत्वं परमेश्वरि || ९-९६ || प्. ११३) इन्द्रियाणां संयमनमग्निसंसेवनाद्भवेत् | अग्निसंसेवनाद्देवि दारिद्र्यदहनं भवेत् || ९-९७ || वैराग्यत्वं वाक्पटुत्वं चिरजीवित्वमाप्नुयात् | यं यं कामयते कामं तत्तदाप्नोति निश्चितम् || ९-९८ || नानाचमत्कारकरः सर्वलोकेषु पूजितः | अग्नौ हुतं च दत्तं च तात्कालिकफलप्रदम् || ९-९९ || सदा चाग्निः सेवनीयः पुरश्चर्ययायुतैर्नरैः | पुरश्चर्ययाविहीनस्य नेदं साधनमीरितम् || ९-१०० || न्यसने सात्त्विको मेरुर्यंत्रे तु राजसो भवेत् | तामसस्तु महामेरुर्वह्निसंसेवनाद्भवेत् || ९-१०१ || सात्विकेन विलम्बेन फलं भवति पार्वति | राजसे तु फलं माये किञ्चित् कालेन जायते || ९-१०२ || तात्कालिकफलं देवि तामसे सर्वदा भवेत् | अधिकारादिकं दीक्षा तथा संज्ञादिकं शिवे || ९-१०३ || फलादिकं तथा प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मेरुसंसाधनं नाम नवमः पटलः || ९ || दशमः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वोक्तं च रहस्यकम् | श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि मेरुप्रस्तारनिर्णयम् || १०-१ || कथ्यते परमेशानि मूलमारभ्य पार्वति | एकाग्निं तु समारभ्य श्रीमेधान्तं महेश्वरि || १०-२ || प्रस्तारः कथ्यते देवि पारम्पर्ययक्रमेण च | एकाग्निसाधनं चादौ सूर्यसंज्ञाभिधः स तु || १०-३ || पञ्चाग्निश्च ततो देवि चतुःकुण्डानि कारयेत् | पञ्चमः सूर्ययसंज्ञः स्यान्नन्दाग्निं शृणु यत्नतः || १०-४ || अष्टौ कुण्डान्यष्टदिक्षु नवमः सूर्ययसंज्ञकः | द्वादशाग्निस्ततो देवि कुण्डान्येकादश क्रमात् || १०-५ || द्वादशाग्निः सूर्ययसंज्ञस्तत्क्रमं शृणु पार्वति | दक्षिणे वेदकुण्डानि प्रत्यक्प्राग्वह्नियुग्मतः || १०-६ || उत्तरस्यामेककुण्डं प्राक्प्रत्यग्व्यत्यये तथा | मेरुकुण्डानि देवेशि भेदद्वयक्रमेण च || १०-७ || चत्वारिंशत्तथाष्टौ च तेषां न्यसनमुच्यते | षट्कोणमादौ कृत्वा तु चाष्टकोणं ततश्चरेत् || १०-८ || दशारं द्वादशारं च भुवनारक्रमेण तु | वस्वारयुग्मं षट्कोणं दशारं वसुयुग्मकम् || १०-९ || प्. ११५) वसुमेरुर्निगदितो मध्यमं शृणु पार्वति | आदौ बिन्दुर्महेशानि चत्वरद्वितयं ततः || १०-१० || तृतीयचत्वरे देवि चतुःकुण्डानि कारयेत् | चतुर्थचत्वरे देवि वसुकुण्डानि कारयेत् || १०-११ || बाणाख्यचत्वरे देवि कलाकुण्डानि कारयेत् | अथ षष्ठचत्वरे तु कुण्डानां विंशतिश्चरेत् || १०-१२ || सप्तमचत्वरे देवि चतुर्विंशति कारयेत् | अष्टमे चत्वरे देवि चाष्टविंशति कारयेत् || १०-१३ || सप्तकुण्डानि देवेशि सूर्यस्त्वेकोत्तरो मतः | एकोत्तरक्रमे देवि महाकालमतं शृणु || १०-१४ || आदौ बिन्दुं प्रविन्यस्य द्वितीये कुण्डयुग्मकम् | तृतीये वेदसंख्यानि चतुर्थे ऋतुसंख्यकम् || १०-१५ || पञ्चमे वसुसंख्यानि षष्ठे तु द्वादशैव तु | प्राक् प्रत्यक् च प्रकुर्वीत दक्षवामे तु वेदकम् || १०-१६ || दक्षवामेऽठवा देवि वसुकुण्डानि कारयेत् | प्राग्या मलं तथा प्रत्यक् कारयेत् परमेश्वरि || १०-१७ || गिरिसंख्याचत्वरे तु कुण्डविंशतिकं चरेत् | अष्टमे चत्वरे देवि कुण्डद्वाविंशतिं चरेत् || १०-१८ || प्राच्यां तु गिरिसंख्यानि तत्साम्मुख्ये तु सप्त वै | दक्षे तु वेदसंख्यानि तत्साम्मुख्ये तु दक्षवत् || १०-१९ || दक्षवामे च देवेशि गिरिसंख्यानि कारयेत् | तदा प्राच्यां प्रतीच्यां च वेदसंख्यानि कारयेत् || १०-२० || एवं मिलित्वा देवेशि कुण्डानि दिग्युगद्वियुक् | प्. ११६) नवमे चत्वरे देवि षड्विंशतिः प्रकल्पयेत् || १०-२१ || प्राच्यां तु वसुसंख्यानि प्रतीच्यां वसुसंख्यकम् | दक्षिणे बाणसंख्यानि तूत्तरे दक्षवद्भवेत् || १०-२२ || दक्षोत्तरेऽथवा देवि वसुसंख्यानि कारयेत् | दक्षे तु वसुसंख्यानि वसुसंख्यानि वामके || १०-२३ || प्राच्यां तु बाणसंख्यानि तत्साम्मुख्ये तु पूर्ववत् | एवं मिलित्वा जानीहि शतकुण्डानि पार्वति || १०-२४ || एकोत्तराख्यः सूर्ययो हि किमन्यत् श्रोतुमिच्छसि | कैलासाख्यक्रमेणायं मेरुः संकथितो मया || १०-२५ || शृंखलाख्यक्रमेणात्र कुण्डानि परिकल्पयेत् | शुद्धकुण्डं शक्तिकुण्डं शिवशक्त्यात्मकं तथा || १०-२६ || नवकुण्डीविधानेन कुण्डानि परिकल्पयेत् | निर्वाणदीक्षिते देवि त्वष्टोत्तरशतैर्भवेत् || १०-२७ || प्रथमचत्वरे देवि श्रीबिन्दुं पातयेत् प्रिये | द्वितीयचत्वरे देवि कुण्डत्रितयमाचरेत् || १०-२८ || तृतीयचत्वरे देवि वेदकुण्डानि कारयेत् | चतुर्थचत्वरे देवि वसुकुण्डानि कारयेत् || १०-२९ || बाणाख्यचत्वरे देवि कलासंख्यानि कारयेत् | ऋत्वाख्यचत्वरे देवि कुण्डविंशतिकं चरेत् || १०-३० || ऋष्याख्यचत्वरे देवि तत्त्वसंख्यानि कारयेत् | वस्वाख्यचत्वरे देवि द्वात्रिंशत्कुण्डसंहृतिः || १०-३१ || शतं सप्त च कुण्डानि त्वष्टमः सूर्य ईरितः | अक्षोभ्यस्य मतं देवि शृणु यत्नेन सांप्रतम् || १०-३२ || बिन्दुस्थानं भवेदादौ द्वितीये चत्वरे चरेत् | प्. ११७) तृतीयचत्वरे देवि वेदकुण्डानि कारयेत् || १०-३३ || चतुर्थचत्वरे देवि वसुसंख्यानि कारयेत् | रत्नाख्यचत्वरे देवि कलाकुण्डानि कारयेत् || १०-३४ || अथ षष्ठचत्वरे तु कुण्डविंशतिकं चरेत् | सप्तमचत्वरे देवि मर्म्मसंख्यानि कारयेत् || १०-३५ || अथाष्टमे चत्वरे च द्वात्रिंशत्कुण्डसंहृतिः | अथ नीलामते देवि नवचत्वरभेदतः || १०-३६ || तत्रादिचत्वरे देवि बिन्दुस्थानं प्रकीर्त्तितम् | द्वितीयचत्वरे देवि चन्द्रसंख्यानि कारयेत् || १०-३७ || तृतीयचत्वरे देवि वह्निसंख्यानि कारयेत् | चतुर्थचत्वरे देवि वेदसंख्यानि कारयेत् || १०-३८ || भूताख्यचत्वरे देवि वसुसंख्यानि कारयेत् | रसाख्यचत्वरे देवि कलासंख्यानि कारयेत् || १०-३९ || ऋष्याख्यचत्वरे देवि कुण्डानां विंशतिश्चरेत् | अष्टमचत्वरे देवि तत्त्वसंख्यानि कारयेत् || १०-४० || नवमचत्वरे देवि द्वात्रिंशत्कुण्डसंहृतिः | तृतीयमेरुं वक्ष्यामि नवोत्तरक्रमे शिवे || १०-४१ || प्रथमचत्वरे देवि बिन्दुस्थानं प्रकीर्त्तितम् | द्वितीयचत्वरे देवि पूर्ववन्नेत्रसंख्यकम् || १०-४२ || तृतीयचत्वरे देवि वेदसंख्यानि कारयेत् | चतुर्थचत्वरे देवि रससंख्यानि कारयेत् || १०-४३ || पञ्चमचत्वरे देवि वसुसंख्यानि कारयेत् | षष्ठे देवि कलाख्यानि दिग्युगं सप्तमे भवेत् || १०-४४ || अष्टमे तत्त्वसंख्यानि मर्म्मसंख्या तु रंध्रके | प्. ११८) नवोत्तरक्रमेणैव मेरूणां त्रितयं शिवे || १०-४५ || त्रयाणामधिकारोऽस्ति कलौ तु यस्य कस्यचित् | अधिकारविहीनस्य नेदं साधनमीरितम् || १०-४६ || इति संक्षेपतः प्रोक्तं करालाख्यमतं शृणु | अष्टोत्तरशताख्यं तु मेरुं संशृणु पार्वति || १०-४७ || आदौ बिन्दुं विधायाथ ततः कुण्डत्रयं चरेत् | तृतीयचत्वरे देवि कलासंख्यानि कारयेत् || १०-४८ || चतुर्थचत्वरे देवि ऋतुसंख्यानि कारयेत् | बाणाख्यचत्वरे देवि वसुसंख्यानि कारयेत् || १०-४९ || ऋत्वाख्यचत्वरे देवि कलासंख्यानि कारयेत् | गिरिसंख्याचत्वरे तु विंशत्संख्या तु कारयेत् || १०-५० || रंध्राख्यचत्वरे देवि षड्विंशानि प्रकल्पयेत् | चतुर्विंशतिकुण्डानि पूर्ववत् कारयेत् प्रिये || १०-५१ || कुण्डयुग्मं प्रकूर्वीत दक्षिणोत्तरतः शिवे | प्राक् प्रत्यक् वा प्रकर्त्तव्यं कुण्डयुग्मं महेश्वरि || १०-५२ || अष्टमः सूर्ययसंज्ञः स्यादेवमष्टोत्तरम् शतम् | रत्नगर्भक्रमेणैव मेरुं शृणु महेश्वरि || १०-५३ || आदौ बिन्दुं प्रविन्यस्य द्वितीये कुण्डयुग्मकम् | पृष्ठाग्रतः पार्श्वतो वा कुण्डयोग्मं प्रविन्यसेत् || १०-५४ || कुण्डत्रयं तृतीये तु योनिवत् विन्यसेच्छिवे | चतुर्थचत्वरे देवि ऋतुसंख्यानि कारयेत् || १०-५५ || बाणाख्यचत्वरे देवि वसुकुण्डानि कारयेत् | रसाख्यचत्वरे देवि कलाकुण्डानि कारयेत् || १०-५६ || मुनिसंख्याचत्वरे तु कुण्डविंशतिकं चरेत् | प्. ११९) वसुसंख्याचत्वरे तु कुण्डविंशति कारयेत् || १०-५७ || रंध्राख्यचत्वरे देवि मर्म्मसंख्यानि कारयेत् | शतं सप्त तु कुण्डानि जातानि परमेश्वरि || १०-५८ || अष्टमः सूर्यय इत्युक्तस्त्वेवमष्टोत्तरं शतम् | चत्वराणां पताकानां तथा षट्शाम्भवस्य च || १०-५९ || तोरणानां लक्षणं तु कथ्यते शृणु साम्प्रतम् | क्रमात्क्रमादुन्नतोऽपि द्विद्विक्रमप्रभेदतः || १०-६० || त्रित्रिक्रमादुन्नतः स्याद्वितस्तिक्रमभेदतः | उच्छ्रायो हस्तमात्रं स्यात् त्रिगुणा एव हि प्रिये || १०-६१ || आयामः परमेशानि चतुर्विंशवितस्तियुक् | वंशः प्रोक्तो महेशानि क्रमान्मण्डपवर्धनम् || १०-६२ || पताकानां चतुःषष्टिस्तत्त्वसंख्यानि वा प्रिये | पनसाश्वत्थचूतेन करवीरैश्च कैतकैः || १०-६३ || नानाचित्रविचित्रैश्च तोरणानि प्रकल्पयेत् | जम्बुदाडिम बिल्वाद्यैर्बीजपूरैस्तथाम्बरैः || १०-६४ || नववर्णमयैर्द्रव्यैश्चत्वराणां विभूषणम् | वामक्रमेण देवेशि दक्षमार्गक्रमेण च || १०-६५ || बिन्दुसर्गान्वितं कृत्वा सृष्टिसंहारतोऽपि वा | अष्टवर्गक्रमेणैव अष्टोत्तरकलाक्रमात् || १०-६६ || पूजयेत्तत्र देवेशि स्वस्तिवाचनसंयुतः | महाविद्यामण्डलं च वियामण्डलमेव च || १०-६७ || चतुर्द्वीप क्रमेणैव चतुर्वेदक्रमेण च | चतुर्द्वारं तु सम्पूज्य बहिः प्राकारचिन्तनम् || १०-६८ || प्. १२०) महाश्मशानं सञ्चिन्त्य तत्र देवीं विचिन्तयेत् | एवं यः कुरुते देवि होमद्रव्यं च देववत् || १०-६९ || यत्प्राप्तं ऋतुभेदेन कालभेदेन पार्वति | पुष्पं फलानि धान्यानि यत्किञ्चिज्जगतीगतम् || १०-७० || तत्तत्र होमयेद्देवि सर्वसिद्धीश्वरो भवेत् | आचार्यं तोषयेद्यत्नाद्गुरुं यत्नेन पूजयेत् || १०-७१ || ब्रह्मणान् पूजयेत् पश्चात् स्वर्णरत्नाम्बरादिभिः | अष्टाष्टकं चरेत्तत्र सर्वसिद्धीश्वरो भवेत् || १०-७२ || दुन्दुभीनां द्वादशं तु द्वारि कोणे प्रवादयेत् | नानावादित्रघोषाद्यैश्चतुर्विंशतिवाद्यतः || १०-७३ || गन्धर्वनीलवेषं वा कृत्वा सिद्धीश्वरो भवेत् | षट्पारायणमासाद्य सर्वसिद्धीश्वरो भवेत् || १०-७४ || ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले | समस्ताः सिद्धयो देवि तस्य पादगता भवेत् || १०-७५ || रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् | सपताकादुन्दुभिर्वा गले धारणयोगतः || १०-७६ || शक्रकर्त्ता भवेत् सोऽपि धनदः किङ्करो गृहे | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १०-७७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मेरुकथनं नाम दशमः पटलः || १० || एकादशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | श्रीशिव उवाच | रहस्यं कथ्यते देवि शृणु सावहिता भव || ११-१ || दलाकाराणि सर्वाणि कुण्डानि कारयेत् प्रिये | किंवा श्रीचक्रवत्कार्यं तत्क्रमं शृणु पार्वति || ११-२ || चत्वरा नव वै कार्याः प्रथमे बिन्दुसङ्गमः | तत्र त्रिकोणं कर्त्तव्यमष्टारं तदनन्तरम् || ११-३ || ततो दशारं देवेशि द्वितीयं च दशारकम् | मन्वस्त्रं च ततः कार्ययं ततो नागदलं शिवे || ११-४ || षोडशाख्यदलं देवि ततो वृत्तत्रयं लिखेत् | चतुर्द्वारोपशोभाढ्यं श्रीचक्रं मेरुरूपकम् || ११-५ || क्रमात् क्रमादुन्नतं तु कृत्वा विरचयेत् सुधीः | तत्रोपरि महेशानि मण्डपं रचयेत्ततः || ११-६ || नव कुण्डानि जायन्ते तत्रैव क्रमशः शिवे | तत्राग्निं चैव प्रज्वाल्य सुन्दरीध्यानपूर्वकम् || ११-७ || तदायुधविभूषाढ्यं मेरुं श्रीसर्वतोमुखम् | महामेरुरयं देवि दलाकारं तु कारयेत् || ११-८ || निःसप्तसु दलाकारं कीर्त्तितं परमेश्वरि | एवं करोति यो देवि सर्वसिद्धीश्वरो भवेत् || ११-९ || प्. १२२) सप्तत्रिंशच्चत्वरान् हि क्रमात् क्रमगतं चरेत् | सृष्टिसंहारमार्गेण कालचक्रं द्विधा भवेत् || ११-१० || सृष्टिसंहारमार्गेण मुख्यशाम्भवयोगतः | चतुर्विधो निगदितः कालचक्रं समाचरेत् || ११-११ || तत्रोपरि महेशानि श्रीविद्याचक्रमुत्तमम् | पराचक्रं ततो देवि ततः षट्शाम्भवाभिधम् || ११-१२ || चतुर्विधं यद्गदितं संवर्तेशक्रमे शृणु | चत्वरं पुरुषाकारं कलाबाहुमितं शिवे || ११-१३ || उत्तरोत्तरतोच्चत्वं किं वा पुरुषसंहृतिः | षट्पञ्चाशद्भवेदादौ नवकुण्डक्रमेण || ११-१४ || द्वितीये तु द्विपञ्चाशत् द्विषष्टिस्तु तृतीयके | पञ्चाशद्वेदप्रमिता चतुर्थे परमेश्वरि || ११-१५ || द्विसप्ततिः पञ्चमे तु चतुःषष्टिस्तु षट्क्रमे | शिरोबिन्दुर्महेशानि संवर्तेशं प्रपूजयेत् || ११-१६ || अथवान्यप्रकारेण क्रममन्यं शृणु प्रिये | सूर्ययसंख्याचत्वराणि कृत्वा यत्नेन पार्वति || ११-१७ || तत्र कुण्डानि देवेशि रचयेत् क्रमतः शिवे | आदौ बिन्दुर्महेशानि द्वितीये वह्निकुण्डकम् || ११-१८ || तृतीयचत्वरे देवि रससंख्यानि कारयेत् | चतुर्थे वसुसंख्यानि कलासंख्यानि पञ्चमे || ११-१९ || षष्ठे द्वाविंशति शिवे त्रिंशत् कुण्डानि सप्तमे | चतुस्त्रिंशति देवेशि वसुसंख्याभिधे भवेत् || ११-२० || अष्टत्रिंशद्रंध्रसंख्ये द्विचत्वारिंशच्च दिक्क्रमे | चत्वारिंशत्तथाष्टौ च रुद्रसंख्याभिधे भवेत् || ११-२१ || प्. १२३) द्वादशे पञ्चपञ्चाशत् कामसंख्याभिधं शृणु | पञ्चाशद्वसुसंख्यानि यथायोगेन कारयेत् || ११-२२ || शाम्भवाख्यो महामेरुर्महासाम्राज्यदायकः | तस्य विज्ञानमात्रेण त्रैलोक्यविजयी भवेत् || ११-२३ || इति संक्षेपतः प्रोक्तं रहस्यातिरहस्यकम् | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् || ११-२४ || स ज्ञानी स च विज्ञानी सर्वदेवरहस्यवित् | तारिण्यास्तु चतुःषोढा काल्यास्तु पञ्चषोढिका || ११-२५ || सुन्दर्याः पञ्चषोढा च विन्यस्तव्या प्रयत्नतः | शक्तिन्यासे भवेदेकश्चक्रन्यासेषु भिन्नता || ११-२६ || सर्वमेकं महेशानि शक्तिसंख्य(?)तंत्रके | पूर्णाभिषेकमारभ्य दिव्यसाम्राज्यतः शिवे || ११-२७ || योगोऽयं गदितो देवि रहस्यातिरहस्यकृत् | अहो धन्यवतां धन्यो दिव्यसाम्राज्यविन्नरः || ११-२८ || पूर्णाभिषेकसंयुक्तो न प्रणाम समाचरेत् | सर्वदा ध्यानसम्पन्न सदा * * तत्परः (?) || ११-२९ || तत्त्वचिन्तापरो भूत्वा देवरूपो नरो भवेत् | आस्तिक्यं मनसः स्थैर्ययं दातृत्वं च दयालुता || ११-३० || गुरुभक्तिर्देवभक्तिर्भक्तभक्तिपरो भवेत् | परापवादं तद्द्रोहं परनिन्दां विवर्जयेत् || ११-३१ || स्त्रीषु निन्दां प्रहारं च सर्वथा परिवर्जयेत् | परद्रव्यं परस्त्रीं च परान्नं सर्वथा त्यजेत् || ११-३२ || परशक्तिं वर्जयेच्च परहस्तं विवर्जयेत् | प्. १२४) एकान्ते निवसेन्नित्यं पर्वते च विशेषतः || ११-३३ || योषिद्रूपं स्मरेत् सर्वं जगदेतच्चराचरम् | सदानन्दपरो भूत्वा देव्यानन्दपरायणः || ११-३४ || सिन्दूरतिलको स्वच्छः स्वेच्छाचारी जितेन्द्रियः | क्रोधं लोभं मदं दम्भं मात्सर्यं चञ्चलत्वताम् || ११-३५ || वार्त्तालापं वर्जयेच्च बहुवार्तां विशेषतः | आसनस्य जयं देवि तथा निद्राजयं शिवे || ११-३६ || इन्द्रियाणां जयं देवि सर्वथा कारयेद्बुधः | आहारस्य जयं देवि खेचरीमुद्रिकां भजेत् || ११-३७ || यत्र कुत्र वसेन्नित्यं यत्र कुत्र स्मरेच्छिवाम् | पूजयेद्विपिने घोरे कामिनीमण्डले शिवे || ११-३८ || वेश्यामण्डलगो भूत्वा सर्वदा चिन्तयेच्छिवाम् | मितवाक्यो मिताहारो मितग्रासी महोत्तमः || ११-३९ || तेजोरूपं तु संभाव्य जगदेतच्चराचरम् | विभाव्य प्रजपेन्नित्यं मायां यत्नेन संत्यजेत् || ११-४० || कोऽहं कस्य किमात्मत्वं किंरूपोऽहं कथं स्थितिः | कुत्रोत्पन्नः कथं जातः किंरूपः किं ममास्ति च || ११-४१ || किमाज्ञप्तमिति ध्यात्वा सर्वं तु तृणवत्त्यजेत् | अहं तारा भवाम्यद्य तारारूपोऽहमेव सा || ११-४२ || तत्कृतं कारितं यद्यत्सूचितं स्मारितं च यत् | प्रेरितं दर्शितं यद्यद्दापितं दीयते च यत् || ११-४३ || तया तत् क्रियते सर्वं नान्यः कर्त्तास्ति भूतले | प्. १२५) पूर्णाभिषेकसंयुक्तो यस्मिन्देशे विराजते || ११-४४ || स देशो धन्यतां याति समन्ताल्लक्षयोजनम् | पूर्णाभिषेकहीनानां दीक्षा नहि फलप्रदा || ११-४५ || सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ | शीतोष्णसमतां कृत्वा सदा तद्गतमानसः || ११-४६ || देवतायां लयं कृत्वा देवरूपो नरो भवेत् | पूर्णाभिषेकहीनानां दीक्षा पूजा च निष्फला || ११-४७ || आशीर्ग्राह्या महेशानि पूर्णदीक्षायुतस्य च | तन्नतिर्नैव संग्राह्या तत्तोषं च समाचरेत् || ११-४८ || तस्य तोषणमात्रेण सन्तुष्टाः सर्वदेवताः | सर्वमंत्राधिकारो हि तस्य हस्ते व्यवस्थितः || ११-४९ || महाविद्यास्वरूपो हि स एव परिकीर्त्तितः | नीला वक्त्रे वसेत्तस्य काली हस्तगता भवेत् || ११-५० || सुन्दरी गेहगा तस्य कमला नेत्रगोचरा | बगला तस्य क्रोधे तु बालाम्बा हृदये स्थिता || ११-५१ || एवमन्या महाविद्या सिद्धविद्याश्च पार्वति | सर्वास्तद्धस्तगा देवि नात्र कार्यया विचारणा || ११-५२ || पूर्णाभिषेकयुक्तस्य न कोपं कारयेत् शिवे | तस्य कोपेन देवेशि जगदेतद्विनश्यति || ११-५३ || तस्य तोषणामात्रेण त्रैलोक्यं रक्षितं भवेत् | पञ्चवर्षभवो बालः पूर्णदीक्षासमन्वितः || ११-५४ || सर्वज्येष्ठो महेशानि न ज्येष्ठो वयसाऽधिकः | अपि चण्डालजातिस्तु पूर्णदीक्षासमन्वितः || ११-५५ || प्. १२६) ब्राह्मणादपि स ज्येष्ठो दीक्षामार्गाख्यकर्मणि | न वयस्त्वे न जातित्वे न विद्यात्वे महेश्वरि || ११-५६ || पण्डितत्वे न देवेशि राज्यत्वे नापि पार्वति | तस्यापमानो देवेशि न कर्त्तव्यः कदाचन || ११-५७ || प्रमादात्कुरुते यस्तु तस्य पातो भविष्यति | अज्ञानात् मोहतो दम्भात् गर्वादपि महेश्वरि || ११-५८ || सदा तं पूजयेद्यत्नान्नान्यथा तारिणीवचः | तस्य नाशं करिष्यामि ताराहं भैरवेण च || ११-५९ || पूर्णाभिषेकयुक्तस्य स्थापनं देववच्चरेत् | यथा देवालये देवः सदा वसति पार्वति || ११-६० || तथा पूर्णायुते देवि विद्या तिष्ठति सर्वदा | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् || ११-६१ || इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातंत्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे षट्शाम्भवमेरुविधौ सिद्धमतरहस्यं नाम एकादशः पटलः || ११ || द्वादशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् | पूर्वं संसूचितं यन्मे तन्मे कथय शङ्कर || १२-१ || श्रीशिव उवाच | रहस्यातिरहस्यं च तारायोगरहस्यकम् | कथ्यते देवदेवेशि शृणु सावहिता भव || १२-२ || तारायोगो योग एव तथा ताराजपो जपः | तारामंत्रो महामंत्रोत्तमोत्तमः || १२-३ || स धन्यः स च विज्ञानी स व्रती स च दीक्षितः | स चात्मा स महादेवः सर्वदेवाधिकः प्रभुः || १२-४ || परमात्मा स एवात्र सर्वदेवनमस्कृतः | स दर्शनी स विज्ञानी ब्रह्मानन्दपरायणः || १२-५ || तस्यैव जननी धन्या पिता तस्य सुरोपमः | ताराजापी पूर्णदीक्षासंयुक्तस्तारिणी स्वयम् || १२-६ || सर्वेश्वरः सर्वगश्च सर्वमंत्रपरायणः | सर्वतंत्रार्थवेत्ता च सर्वतंत्रपरायणः || १२-७ || पञ्चपारायणासक्तः पञ्चरत्नप्रजापकः | यं कञ्चिन्मंत्रमालोक्य जपेद्दीक्षायुतो यदि || १२-८ || ततः सिद्धिर्विजानीयात् नात्र कार्यया विचारणा | पुस्तके लिखिता मंत्रा जपे जापे न सिद्धिदाः || १२-९ || प्. १२८) तस्य दर्शनमात्रेण मंत्रक्षोभविनाशनम् | मूको जडोऽपि देवेशि पूर्णदीक्षायुतस्य च || १२-१० || जलं वस्त्रं स्पृशेद्यो हि महाकविवरो भवेत् | सिद्धमंत्रं पुरस्कृत्य तारायाः परमेश्वरि || १२-११ || घटे हस्तं यदा दद्यात् तदा घटसरस्वती | सर्वं वदति देवेशि प्रहरद्वयमेव च || १२-१२ || एतद्योगफलं प्रोक्तं तव प्रीत्या महेश्वरि | इतोऽपि वाच्यं किं देवि किमन्यत् श्रोतुमिच्छसि || १२-१३ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि पूर्वोक्तं यद्रहस्यकम् | श्रीशिव उवाच | रहस्यातिरहस्यं च तव प्रीत्या निगद्यते || १२-१४ || महापदि महाघोरे प्राप्ते प्राणस्य सङ्कटे | राज्यहानौ द्रव्यनाशे सुतनाशे समागते || १२-१५ || महामारीभये प्राप्ते राष्ट्रभङ्गे महेश्वरि | राज्यरक्षणयोगं च परराज्यविनाशकम् || १२-१६ || महाप्रीतिकरं योगं षट्कर्मसाधनं परम् | तत् कथ्यते महेशानि शृणु सावहिता भव || १२-१७ || आदौ पञ्चाक्षरीं तारां कुल्लुकासहितां जपेत् | अधिष्ठात्री चण्डघण्टा कूर्चबीजाह्वया परा || १२-१८ || काल्याः शक्तिः सैव शिवे ताराबीजं तदेव तु | तारा प्रणवनामाख्या तदेव परिकीर्त्तितम् || १२-१९ || छिन्ना चैकाक्षरीमंत्रः स एव परिकीर्त्तितः | प्. १२९) एकस्मिन् त्रितये देवि महाक्रोधाभिधं ततः || १२-२० || चतुर्विद्यारूपधरं कूर्चबीजाह्वयं शिवे | चण्डघण्टेति विख्याता कूर्चबीजाह्वया भवेत् || १२-२१ || केवलं यस्य जापेन त्रिशक्तिजपभाग्भवेत् | कूर्चबीजं परं शक्तिरन्त्यं कीलकमुच्यते || १२-२२ || यथा प्रीत्या महेशानि त्रिशक्तिर्देवता मता | कालीबीजं तथा तारा छिन्ना चैकाक्षरी तथा || १२-२३ || त्र्यक्षरी परमा विद्या त्रैलोक्यविजयाभिधा | तारा काली तथा छिन्ना तारा छिन्ना च कालिका || १२-२४ || काली छिन्ना तथा तारा छिन्ना काली च तारिणी | छिन्ना तारा कालिका च षट्भेदा विजया कला || १२-२५ || मंत्रश्रवणसन्तुष्टा त्रैलोक्यराज्यदायिनी | देवता तारिणी पूर्वा प्रतिदेवी तु घण्टिका || १२-२६ || अधिदेवी तु विजया त्र्यक्षरी परमा कला | यद्बीजमादौ देवेशि तदेवायुधभूषणे || १२-२७ || मध्यबीजं स्वरूपं स्यादन्त्यबीजं च वाहनम् | नवाक्षरी परा विद्या वेदार्णा वा महेश्वरि || १२-२८ || त्रिंशदर्णा महातारा त्रिशक्तेर्मुखमीरितम् | त्रैलोक्यविजया विद्या स्मृतमात्रवरप्रदा || १२-२९ || त्रैलोक्यविजयास्त्राख्यं तदेव परिकीर्त्तितम् | यद्बीजमादौ देवेशि तदेव यंत्रमीरितम् || १२-३० || अथवा यत्र भक्तिः स्यात्तत्पीठे पूजनं शिवे | एतत्प्रयोगे देवेशि छिन्नाबाणः प्रकीर्त्तितः || १२-३१ || प्. १३०) संहारास्त्रं महेशानि बाणाग्रं परिकीर्त्तितम् | सैव चार्द्रपटी विद्या शुष्कवस्त्रा तु जीवहा || १२-३२ || शुभाशुभप्रवक्ता तु श्रीवार्ताकथनी भवेत् | त्रैलोक्यवार्त्ताकथनी महापद्मावती कला || १२-३३ || ऊनविंशाक्षरी विद्या त्रैलोक्यज्ञानगोचरा | किञ्चिज्जपेन्मूलविद्यां तदान्यां प्रजपेत् शिवे || १२-३४ || सर्वासां तु महेशानि जपपूजादिकं बलिम् | अनुलेपनगन्धं च दद्याद्यत्नेन पार्वति || १२-३५ || त्रिमासाभ्यासयोगेन उदयास्तमितं जपेत् | चलस्थिरासनत्वेन यज्जातं तन्निवेदयेत् || १२-३६ || एतत्प्रयोगयोगेन किं तद्यन्न करे स्थितम् | साम्राज्यमुद्रिकायोगात् किन्न सिध्यति भूतले || १२-३७ || काली तारामयी प्रोक्ता वटुकस्य स्वरूपिणी | प्रणवं च तथा माया सम्बद्धदानयुग्मकम् || १२-३८ || कुरुयुग्मं बीजयुग्मं स्वाह्यता(?) चैकविंशतिः | एतस्य धारिणी देवी पताकास्थानगोचरा || १२-३९ || पताकायां लिखेद्यंत्रं बटुकं मध्यकोष्ठके | बटुकं बालवेषं च नागयज्ञोपवीतिनम् || १२-४० || कपालशूलभूषाढ्यं स्वयूथैः परिवेष्टितम् | कुक्कुरैर्नववर्णैश्च वेष्टितं ब्रह्मरूपिणम् || १२-४१ || द्वादशारस्थितं देवं प्रत्यक्षफलदं कलौ | प्रेतासनसमासीनं त्रैलोक्यजयदं विभुम् || १२-४२ || एतत्पताकां सन्धार्यय त्रैलोक्यविजयी भवेत् | प्. १३१) महाराज्यपदं जित्वा त्रैलोक्यविजयी भवेत् || १२-४३ || पञ्चाङ्गाख्यपुरश्चर्ययाक्रमेण तु विशेषतः | कृष्णसारं च हरिणं जातिमात्रं परित्यजेत् || १२-४४ || कुञ्जरं च हयं नारं प्रीत्यर्थं तारिणीमनोः | बलिदानं प्रकुर्वीत यदेव पच्यते शिवे || १२-४५ || महिषत्वेन कुष्माण्डं छागत्वेन तु कर्कटी | बीजपूरं नरत्वेन रम्भापुष्पं हयः स्मृतः || १२-४६ || मूलकं मत्स्यभेदेन यथायोगेन कारयेत् | सात्त्विकं राजसं देवि तामसं तु तृतीयकम् || १२-४७ || त्रिविधं बलिदानं तु कीर्त्तितं परमेश्वरि | श्रीदेव्युवाच | बटुके को विशेषोऽस्ति का शक्तिः किंस्वरूपधृक् || १२-४८ || शिवशक्त्यात्मको वापि ब्रह्मविष्ण्वात्मकोऽपि वा | भर्ता पुत्रोऽथवा भ्राता का क्रिया तद्वद प्रभो || १२-४९ || अत्र मे संशयो जातः संशयं मेऽत्र नाशय | श्रीशिव उवाच | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || १२-५० || कथं तत् कथ्यते देवि शपथं कुरु पार्वति | श्रीदेव्युवाच | शपे त्वच्चरणाभ्यां तु हिमाद्रिशिरसा शपे || १२-५१ || स एव विमुखो भूयात् किमन्यैर्बहुजल्पितैः | प्. १३२) श्रीशिव उवाच | शपथेन प्रहृष्टोऽस्मि तत्कथा कथ्यते शृणु || १२-५२ || वेतालाः प्रेतकुष्माण्डा यक्षराक्षसकिन्नराः | ब्रह्मा विष्णुस्तथा रुद्रो ग्रहाश्चान्ये महेश्वरि || १२-५३ || सञ्जाताः परमेशानि तैर्ग्रस्तं तु चराचरम् | केचिद्विरिञ्चिं सेवन्ते शिवं विष्णुं तथापरे || १२-५४ || महाविद्यां भजन्त्यन्ये न ते वै सिद्धिभागिनः | वेतालाद्या महादेवि जपपूजादिहारकाः || १२-५५ || तेषां विनाशनार्थाय भक्तानुग्रहणाय च | बटुकोऽयं महेशानि ताराकाल्या विभावितः || १२-५६ || पञ्चाशद्वै महापद्म महामन्त्रा महेश्वरि | पञ्चाशत्कोटिगणना योगिनीनां तु कोटिशः || १२-५७ || भैरवाणां कोटिकोटिर्महाविद्यास्त्वनेकशः | त्रिखर्वसंख्या तारा स्यात् काली दशार्बुदा शिवे || १२-५८ || कलाकोटिप्रभेदा तु सुन्दरी तेन संयुता | बाला त्रिकोटिसंख्याभिश्छिन्ना षोडशखर्वतः || १२-५९ || षट्त्रिंशल्लक्षब्रह्मास्त्रैश्चन्द्रषोडशमायुता | कोटिद्वादशभिर्देवि भुवनांशेन पार्वती || १२-६० || धूम्रकला लक्षभेदैः सिद्धविद्याख्यतत्त्वतः | चतुरशीतिलक्षैश्च मातङ्गीमंत्रतः शिवे || १२-६१ || एतत् सर्वमयं तेजः सर्वब्रह्माण्डरूपधृक् | सर्वतेजःसमुद्भूतं बटुरूपं सनातनम् || १२-६२ || सत्त्वरजस्तमोयुतैः ब्रह्मविष्णुमहेश्वरैः | तच्छक्तिभिर्महेशानि रूपत्रयधरं परम् || १२-६३ || प्. १३३) तत्रापि दशधा भिन्नं बटुरूपं सनातनम् | महोग्रतारया दत्तमुपवीतं महेश्वरि || १२-६४ || कपालं छिन्नया दत्तं काल्या कालो निवेदितः | दत्तं त्रिशूलं कालेन यन्मूले तु त्रिशक्तयः || १२-६५ || काली तारा तथा छिन्ना शूलरूपेण सन्ति च | अन्ये देवाः सिद्धयश्च यक्षगन्धर्वकिन्नराः || १२-६६ || रूपं कौक्कुरमासाद्य संभजन्ति निरन्तरम् | एवं बटुकरूपं तु संजातं परमेश्वरि || १२-६७ || यदारम्य धृतं रूपं बटुकाख्यं शिवेन तु | तदा प्रभृति देवेशि वेतालाद्या न दुःखदाः || १२-६८ || सिद्धिं संलेभिरे स्वां स्वां देवतादर्शनोत्सुकाः | एवं तु बटुकं पूज्य वास्तुपूजार्थमेव वा || १२-६९ || ये पूजयन्ति देवेशि ते नराः शिवरूपिणः | सर्वसिद्धीश्वरा देवि साधकाः सम्भवन्ति च || १२-७० || वेतालादेः किंकरत्वं यक्षिणीपादुकागणः | खड्गाञ्जनविलासाद्याः परकायप्रवेशनम् || १२-७१ || तदारम्य महेशानि साधकस्य करे स्थितम् | सर्वं तु शावराद्यन्तु यत्स्मृत्या करगं भवेत् || १२-७२ || एवं तु बटुको जातः सर्वसिद्धिप्रदः शुभः | दशविद्या योगरूपं समासाद्य वसन्ति च || १२-७३ || ज्येष्ठी या दशमी शुद्धा दशयोगसमन्विता | बटुकस्य तिथिः प्रोक्ता बटुकोत्पत्तिकारिणी || १२-७४ || देव्याः पुत्रत्वतां यातो बटुकः परमेश्वरि | त्वां विहाय च ये मां च सम्भवन्ति युगे युगे || १२-७५ || प्. १३४) तेषां न सिद्धिर्देवेशि कोट्यर्बुदयुगैरपि | खड्गशूलधरं काल्या तारायां पूर्वमीरितम् || १२-७६ || द्विचतुर्वसुहस्ताढ्यं बटुकं परमेश्वरि | रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || १२-७७ || सर्वसिद्धिप्रदो देवि सर्वसाम्राज्यदायकः | सर्वापत्तारणो योगो स्वसैन्यरक्षकः परः || १२-७८ || परसैन्यस्य राष्ट्रस्य विद्रावी नाशकः परः | परराज्ये महेशानि नानोपद्रवकारकः || १२-७९ || अहोरात्रेण देवेशि वीरसाधनयोगतः | बटुकस्तु प्रसन्नः स्यात्तारा काली तथा शिवे || १२-८० || अन्यप्रयोगा देवेशि क्वचित्सिद्ध्यन्ति वा न वा | गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १२-८१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे तारासूक्ते सिद्धप्रयोगो नाम द्वादशः पटलः || १२ || त्रयोदशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि वीररात्र्यादिनिर्णयम् | श्रीशिव उवाच | वीररात्रिर्महारात्रिः कालरात्रिस्तथैव च || १३-१ || मोहरात्रिर्घोररात्रिः क्रोधरात्रिस्तथैव च | तथैव चाबलारात्रिस्तारारात्रिस्तथैव च || १३-२ || शिवरात्रिर्दिव्यरात्रिर्दारुणा च यथाक्रमात् | कथ्यते परमेशानि शृणु सावहिता भव || १३-३ || चतुर्दशीसंक्रमश्च कुलर्क्षकुलवासरः | अर्धरात्रौ यथा योगो वीररात्रिः प्रकीर्त्तिता || १३-४ || शुक्लाष्टमी चाश्विनस्य नवरात्रं तु तस्य वै | महारात्रिर्महेशानि कालरात्रिं शृणु प्रिये || १३-५ || दीपोत्सवं चतुर्द्दश्यां त्वमाया योग एव च | कालरात्रिर्महेशानि ताराकालीप्रियंकरी || १३-६ || जन्माष्टमी महेशानि मोहरात्रिः प्रकीर्त्तिता | कृष्णावतारपर्ययन्तं तारायाः शाप ईरितः || १३-७ || जाते कृष्णावतारे तु निर्मुक्ता तारिणी परा | उत्पत्तौ विन्ध्यवासिन्या विद्युद्रूपे समागते || १३-८ || श्रीमहातारिणी विद्या महारण्यपरायणा | स्मरणादेव संसिद्धा स्मृतिपुष्टिकरी परा || १३-९ || चैत्रे मासि नवम्यां च शुक्लपक्षे च भूसुते | प्. १३६) क्रोधरात्रिर्महेशानि तारारूपा भविष्यति || १३-१० || मासे मार्गशिरे प्राप्ते कृष्णाष्टम्यां महेश्वरि | महाकालस्वरूपा च घोररात्रिः प्रकीर्त्तिता || १३-११ || प्राप्ते फाल्गुनके मासि कृष्णैकादशिका तु या | भृगुभौमयुता चेत् स्यादबलारात्रिरीरिता || १३-१२ || ज्येष्ठी या दशमी शुद्धा भृगुवासरसंयुता | दशयोगसमायुक्ता रात्रावेकादशी यदि || १३-१३ || सा तिथिर्दिव्यरात्रिश्च कीर्त्तिता परमेश्वरि | ज्येष्ठी या दशमी शुद्धा दशयोगसमन्विता || १३-१४ || बटुकस्य तिथिः प्रोक्ता बटुकोत्पत्तिकारिणी | अमाभौमसमायुक्ता संक्रमेण समन्विता || १३-१५ || कुल-ऋक्षसमायुक्ता ग्रहणं यदि चेद्भवेत् | तारारात्रिस्तु संप्रोक्ता भाग्यादेव तु लभ्यते || १३-१६ || फाल्गुने कृष्णपक्षे तु ह्यर्धरात्रौ भृगौ शिवे | शिवरात्रिस्तु संजाता सर्वसिद्धिप्रदायिनी || १३-१७ || अमाभृगुसमायुक्ता सूर्ययग्रहणयुक् यदि | अपराह्णे यदा योगो मृतसंजीवनी तिथिः || १३-१८ || स्नानदानादिहोमान्तमनन्तफलदं भवेत् | अष्टमी चैत्रमासी या संक्रमेण समन्विता || १३-१९ || सिद्धिरात्रिरिति ख्याता ताराकालीसमाकुला | तृतीया माधवे शुद्धा कुलवारर्क्षसंयुता || १३-२० || दारुणा कीर्त्तिता देवि सर्वसिद्धीश्वरी परा | प्. १३७) क्रमेण कथितं सर्वं पर्वराजाभिधं शृणु || १३-२१ || तृतीया पौषमासीया भृगुवासरसंयुता | साऽपि चेन्मकराक्रान्ता कुलनक्षत्रसंयुता || १३-२२ || चतुर्थीसहिता चेत्स्यात् रेवतीसहिता क्वचित् | पर्वराजाभिधं पर्वं सर्वपर्वोत्तमोत्तमम् || १३-२३ || तृतीया चैत्रमासीया रेवतीसंयुता यदि | ऋद्धियोगो महेशानि होमकर्म्मणि शस्यते || १३-२४ || प्रतिमासे पौर्णमासी मासनक्षत्रसंयुता | कुलवारसमायुक्ता सा तिथिः सुन्दरी भवेत् || १३-२५ || अष्टमी प्रतिमासस्य कृष्णपक्षस्य पार्वति | भौमयुक्ता तथा ऋक्षयुक्ता वा केवला च वा || १३-२६ || देवीरात्रिरिति ख्याता सर्वसिद्धिप्रदायिनी | चतुर्थी माघमासस्य मकराक्ता भवेद्यदि || १३-२७ || गणपस्य तु सा रात्रिरिति ख्यातेति औडवः | नवमी कृष्णपक्षस्य कुल-ऋक्षसमन्विता || १३-२८ || वारयुक्ताथवा देवि सिद्धिरात्रिः प्रकीर्त्तिता | चतुर्थी कृष्णपक्षस्य कुलवारर्क्षसंयुता || १३-२९ || केवलं भौमयुक्ता वा बालरात्रिः ससंक्रमे | अमाभौमसमायुक्ता कुलर्क्षसंयुता यदि || १३-३० || कृष्णरात्रिरिति ख्याता अक्षोभ्यप्रीतिकारिणी | अमार्कश्रवणे जाते युक्तश्चेत् पौषमाघयोः || १३-३१ || अर्द्धोदयः स विज्ञेयः किंचिन्न्यूनो महोदयः | धर्म्मरात्रिर्महेशानि कीर्त्तितेयं सुरर्षिभिः || १३-३२ || अमाभौमेन सोमेन योगेन भृगुणाथवा | प्. १३८) गुरुणा रविणा देवि कुल-ऋक्षसमन्विता || १३-३३ || दिव्यमाण्डलिको योगः सूर्यपर्वशताधिकः | माघमासे शुक्लपक्षे सप्तमी या प्रकीर्त्तिता || १३-३४ || सौरी तिथिस्तु सा ज्ञेया जपहोमादिकं चरेत् | रवियुक्ता कुलर्क्षैस्तु वासरेणापि संयुता || १३-३५ || महासौरीति विज्ञाता त्रैलोक्योत्पत्तिकारिका | सप्तमी प्रतिमासस्य रवियुक्ता यदा भवेत् || १३-३६ || हंसी तिथिस्तु विज्ञेया मोक्षधर्म्मपरायणा | बुधाष्टमी महेशानि प्रतिमासस्य या भवेत् || १३-३७ || विष्णुरात्रिरिति ख्याता भाद्रे मासि विशेषतः | माघे मासि शुक्लपक्षे पञ्चम्यां भृगुवासरे || १३-३८ || वसन्तपञ्चमी प्रोक्ता कामसंजीवनी तिथिः | आरात्रिकं जपो होमः कीर्त्तनं कामनर्त्तनम् || १३-३९ || श्रावणे पौर्णमास्यां तु तदृक्षे परमेश्वरि | पवित्रारोपणं कार्ययं रक्षां दशविधां चरेत् || १३-४० || पौर्णिमा चैत्रमासीया तस्यां मदनपूजनम् | प्रतिविद्याविधौ देवि प्रोक्तयोगे प्रपूजनम् || १३-४१ || एतद्योगपूजनाद्धि सिद्धिं विन्दन्ति किं पुनः | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १३-४२ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सिद्धितंत्रे वीररात्र्यादिनिर्णयो नाम त्रयोदशः पटलः || १३ || चतुर्दशः पटलः | श्रीदेव्युवाच | देवदेव महादेव सर्वेषां सुखवर्द्धन | केन सिद्धिं ददात्याशु तारा त्रैलोक्यतारिणी || १४-१ || श्रीमहादक्षिणा काली सिद्धिं किं नः प्रयच्छति | तन्मे वद महादेव यद्यहं तव वल्लभा || १४-२ || श्रीशिव उवाच | रहस्यातिरहस्यं च कथं त्वयि निवेद्यते | शपथं कुरु देवेशि तर्हि तत्त्वं वदाम्यहम् || १४-३ || श्रीदेव्युवाच | शपे त्वच्चरणाभ्यां च सैव मे विमुखी भवेत् | श्रीशिव उवाच | शपथेन प्रहृष्टोऽस्मि कथ्यते शृणु साम्प्रतम् || १४-४ || सिद्धिर्मधुमती नाम्ना प्रादुर्भूता तवाज्ञया | काली तारा *ं(?) धाम त्वत्सकाशादभूच्छिवा || १४-५ || श्रीविद्यया मुखं दत्तं काल्या करयुगं शिवे | तारया चाङ्गुलिर्दत्ता भुवनेश्या हृदम्बुजम् || १४-६ || छिन्नया चरणद्वन्द्वं मातङ्ग्या नयनद्वयम् | लक्ष्म्या ललाटं दत्तं च तथैव सिद्धविद्यया || १४-७ || प्. १४०) केशा दत्ता महेशानि गुल्फौ ब्रह्मास्त्रविद्यया | हासस्तु बालया दत्तो वाजी दत्तो महेश्वरि || १४-८ || श्रिया च रुचकं देवि धूमावत्या तु निग्रहः | अन्यदेवास्तु केशान्ते ब्रह्माण्डं हृदयाम्बुजे || १४-९ || एवं सर्वांशतो जाता तेजोराशिसमुद्भवा | महामधुमती सिद्धिस्त्रैलोक्याकर्षणी परा || १४-१० || पार्वत्यरुन्धती दुर्गा मृतसञ्जीवनी परा | सर्वमाकर्षयेत्तूर्णं त्रैलोक्याकर्षकारणात् || १४-११ || काली तारामयं धाममाविर्भूतमभूच्छिवा | महापायससन्तुष्टा पायसान्नपरायणा || १४-१२ || महामधुमती विद्या त्रैलोक्याकर्षणी परा | भैरवाकर्षणी विद्या वेतालाकर्षणी तथा || १४-१३ || किन्नराकर्षणी देवि देवाकर्षणकारिणी | तस्या मंत्रं प्रवक्ष्यामि त्रैलोक्याकर्षणं परम् || १४-१४ || प पञ्चमं पावकयुक् नादबिन्दुविभूषितम् | महाकामकला युक्ता प्रोक्ता त्वेकाक्षरी कला || १४-१५ || मधुमतीं समुद्धृत्य नान्तं कामसमन्वितम् | स्थावरेति समुद्धृत्य जङ्गमाकर्षणीति च || १४-१६ || ठ युग्मान्ता वह्निजाया चित्कलार्णा प्रकीर्त्तिता | अष्टादशाक्षरी विद्या त्रैलोक्याकर्षणी परा || १४-१७ || कामदेवो ऋषिः प्रोक्तो निवृद्गायत्रिका ततः | छन्दः प्रोक्तं महेशानि देवता सैव कीर्त्तिता || १४-१८ || म्री/ बीजं च तथा स्वाहा शक्तिः प्रोक्ता महेश्वरि | प्. १४१) स्थावरजङ्गमाकर्षे विनियोगः प्रकीर्त्तितः || १४-१९ || षड्दीर्घभाजा बीजेन कुर्ययादङ्गानिषट्क्रमात् | ततो ध्यानं प्रकुर्वीत वक्ष्यमाणं महेश्वरि || १४-२० || गौराङ्गी शरदिन्दुसुन्दरमुखीं पीतांशुकां पीवरां प्रोत्तुङ्गस्तनमण्डलप्रविलसज्जाम्बूनदकावलीम् | श्वेतोत्तुङ्गतुरङ्गगां त्रिनयनां पीताङ्गरागस्रजां ध्यायेत्पायसलालसां मधुमतीं दोर्भ्यां दधानां सृणिम् || १४-२१ || दिग्बन्धभूतशुद्ध्यादीन् कालीवत् समुपाचरेत् | यंत्रावरणकं नास्ति केवलं पूजयेच्छिवे || १४-२२ || सर्वं त्रिशक्तिवत्प्रोक्तं विशेषः कथ्यते शृणु | एवं ध्यात्वा जपेद्विद्यां सर्वाकर्षणकारिणीम् || १४-२३ || पुरश्चरणसिद्ध्यर्थं सहस्राणां तु सप्ततिः | सिद्धमंत्रे सिद्धचर्या प्रोक्ता देवि मया तव || १४-२४ || कदलीवनमासाद्य वर्षमात्रं महेश्वरि | सर्वकालं जपेन्मंत्रं पायसान्नपरायणः || १४-२५ || वीरसाधनवद्देवि लक्षमात्रं जपेत्ततः | ततः सप्ततिसाहस्रं प्रत्यक्षार्थं महेश्वरि || १४-२६ || पायसं कदलीपत्रे पायसं घृतशर्करम् | भुक्त्वा मोचावने वीतजने कुर्यादतन्द्रितः || १४-२७ || गन्धर्ववेशो गतभीर्विर्भागैः पायसं चरेत् | अंशद्वयं पुरा कृत्वा तत्क्रमं शृणु पार्वति || १४-२८ || एकाशे चांशयुग्मञ्च एकांशं पूर्णमेव च | परस्यांशस्य पूर्वांशं स्वयं च भक्षयेच्छनैः || १४-२९ || प्. १४२) एकस्मिन् कदलीपत्रे म्री मित्युत्सर्गमालिखेत् | प्रथमसप्तके याति तूष्णीं नैव यथा तथा || १४-३० || द्वितीयसप्तके देवि प्रतिमां काञ्चनीमिव | तृतीयसप्तके देवि प्रत्यक्षाश्नाति पायसम् || १४-३१ || वरं ददाति हठतः साधकस्य यथेप्सितम् | तिष्ठत्यहर्निशं सार्द्धं साधकस्य यथेप्सितम् || १४-३२ || आकर्षयत्यम्बुनिधेः सुमेरोश्च दिगन्ततः | पातालादिन्द्रलोकाच्च हैमश्रीशैलभूरुहात् || १४-३३ || अलन्यानि च वस्तूनि दूराद्भूमितलादपि | नदीं पुरीं च रत्नानि समाकर्षति तत्क्षणात् || १४-३४ || वृत्तान्तं च पुरस्थानां राज्ञां च कथयत्यपि | रहस्यं विद्विषां चापि सत्यं सत्वरमाविशेत् || १४-३५ || त्रैलोक्याकर्षणी विद्या न देया यस्य कस्यचित् | बटुकेमां गृहाण त्वं सिद्धिदो मेऽस्तु सर्वदा | इति संक्षेपतः प्रोक्तं मन्त्रभेदश्च साधनम् || १४-३६ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे ताराकल्पाङ्गसिद्धिर्नाम चतुर्दशः पटलः || १४ || पञ्चदशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि मन्त्रानन्यांश्च साधनम् | श्रीशिव उवाच | एकाक्षरी चाद्यबीजा ठयुग्मा त्र्यक्षरी भवेत् || १५-१ || ठहीना स्वाहया युक्ता त्र्यक्षरी कामपूजिता | बीजसम्बोधनयुता पञ्चार्णा परिकीर्त्तिता || १५-२ || बीजसम्बोधनयुता ठद्वयान्ता मुनिप्रिया | बीजसम्बोधनयुता स्वाहान्ता ऋषिपूजिता || १५-३ || सम्बोधनठयुग्मान्ता षड्वर्णा सकलार्थदा | सम्बुद्धिः स्वाहया युक्ता सर्वाकर्षणकारिणी || १५-४ || बीजकर्मान्तगा विद्या दशार्णा विश्वरूपिणी | कर्माद्या ठद्वयान्ता च रुद्रार्णा परमेश्वरि || १५-५ || कर्माद्या वह्निजायान्ता विद्याद्या परिकीर्त्तिता | बीजकर्मठद्वयान्ता महाविद्या प्रकीर्त्तिता || १५-६ || बीजकर्म ततः स्वाहा सिद्धविद्या प्रकीर्त्तिता | बीजसम्बोधनपदं कर्मान्ता च परा कला || १५-७ || बीजसम्बोधनपदं कर्मठद्वयसंयुतम् | बीजसम्बोधनपदं कर्मस्वाहान्विता परा || १५-८ || प्. १४४) बीजसम्बोधनपदं ठयुक्स्वाहान्विता परा | बीजं ठयुक् ततः स्वाहा विद्यान्या परिकीर्त्तिता || १५-९ || सम्बोधनं ठयुक् स्वाहा विद्या सर्वार्थदा परा | बीजकर्म ठयुक् स्वाहा विद्या सर्वाङ्गसुन्दरी || १५-१० || सम्बोधनं ततः कर्म ठद्वयान्ता परा भवेत् | सम्बोधनं ततः कर्म ठयुक्स्वाहान्विता परा || १५-११ || सम्बोधनं ततः कर्म स्वाहान्ता शिवसुन्दरी | चतुर्विंशतिभेदैस्तु गदिता परमा कला || १५-१२ || बाला मधुमती भिन्ना तथैव सुन्दरीमनोः | निधिसिद्धौ भवेद्भिन्ना त्रिभेदा सा प्रकीर्त्तिता || १५-१३ || एवं त्रिंशतिधा प्रोक्ता त्रैलोक्याकर्षणी परा | विजने कदलीपत्रवने गत्वा निशामुखे || १५-१४ || शुभलग्ने शुभदिने सङ्कल्पं कामनान्वितम् | अष्टादशाक्षरस्यास्य महामधुमतीमनोः || १५-१५ || मंत्रसिद्ध्यर्थमित्युक्त्वा चाद्यप्रभृति चोच्चरेत् | एकविंशति चोद्धृत्य दिवसान्तं समुच्चरेत् || १५-१६ || जपरूपं ततः प्रोच्चैः पुरश्चरणमुच्चरेत् | षडङ्गयुग्ममाद्येन कृत्वा ध्यात्वा प्रपूज्य च || १५-१७ || गोदुग्धपायसं कृत्वा कदलीपत्रगोचरम् | बीजं मधुमतीत्युक्त्वा चतुर्थ्यन्तं समुद्धरेत् || १५-१८ || पायसं तत्र दत्वा च निवेद्य च पुनः पुनः | तस्यां संभुक्तवत्यां तु पुनराचमनीयकम् || १५-१९ || दद्यात्ताम्बूलं सन्दर्श्य प्रणम्य च पुनः पुनः | प्. १४५) पायसार्द्धं पृथक् स्थाप्य शेषार्द्धं भक्षयेत् स्वयम् || १५-२० || रक्तमाल्यादिभिर्देवि दिव्याम्बरविभूषितम् | गन्धर्ववेशं कृत्वा च प्रत्यहं त्रिसहस्रकम् || १५-२१ || त्रिशतं च चतुस्त्रिंशत् एकविंशतिवासरान् | प्रजपेत् परमेशानि देवता वरदा भवेत् || १५-२२ || बटुकस्य च संयोगात् सिद्ध्यत्येव न चान्यथा | श्रीतारोपासको यस्तु कालिकोपासकस्तु यः || १५-२३ || इमां विद्यां साधयित्वा सिद्धिमाप्नोति नान्यथा | यान् यान् प्रार्थयते कामांस्ता/स्तान् कामान् क्षणे क्षणे || १५-२४ || ददाति सा परा विद्या सर्वाकर्षणकारिणी | लोहप्राकारसन्नद्धदुर्गाद्देवालयाच्छिवे || १५-२५ || धनदं शङ्करं विष्णुं पार्वतीं चाप्यरुन्धतीम् | एवं दशमहाविद्यां समाकर्षति तत्क्षणात् || १५-२६ || लङ्कां समुद्रान् द्वीपांश्च सिद्धयक्षमहोरगान् | अश्रुतान्यपि वस्तूनि समाकर्षति तत्क्षणात् || १५-२७ || किन्नरान् यातुधानादीन् निधीन् सिद्धीः क्षणेन च | सुमेरुं चैव कैलासं क्षणादाकर्षयेच्छिवे || १५-२८ || तत्तद्देशस्थितं देवि त्रैकाल्यज्ञानमेव च | सर्वं वदति देवेशि सावधानं करोति यः || १५-२९ || त्रैलोक्याकर्षणी विद्या न देया यस्य कस्यचित् | आदौ विद्यां च संसाध्य ततः सिद्धिं प्रसाधयेत् || १५-३० || गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १५-३१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मधुमतीसिद्धिविधिर्नाम पञ्चदशः पटलः || १५ || षोडशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि क्रमदिक्षाविनिर्णयम् | श्रीशिव उवाच | रहस्यातिरहस्यं च कथं तत् कथयामि ते || १६-१ || तथापि तव सद्भक्त्या कथ्यते शृणु साम्प्रतम् | चन्द्राग्निपक्षषोढाख्या परा निर्वाणतत्परा || १६-२ || षट्शाम्भवं ततो देवि चक्रसंभेदनेन च | स्वचक्रदेहविज्ञानं परकायप्रवेशनम् || १६-३ || एतज्ज्ञानाद्भवेन्मेधा दीक्षा प्रोक्ता मया तव | हादाविदं निगदितं शृणु कादौ महेश्वरि || १६-४ || चन्द्राग्निरसराज्ञी च महाराज्ञी ततः शिवे | महाकामकला काली गुह्यकाली ततः शिवे || १६-५ || गुह्यकाली द्विधा प्रोक्ता सकला निष्कला क्रमात् | दशवक्त्रा तु सकला प्रोक्ता वाशिष्ठिका कला || १६-६ || उग्रा सौम्या महाक्रूरा त्रिविधा सा प्रकीर्त्तिता | निष्कला गुह्यशब्दान्ता कालीभेदेन कीर्त्तिता || १६-७ || केवललेयं भवेन्मेधा प्रीत्या साम्राज्यदायिनी | चन्द्राग्निवेदपञ्चार्णा तथा नीलाक्रमेण च || १६-८ || हंसतारा महानीला तदन्ते चीनशाम्भवी | केवला तु भवेन्मेधा सिद्धि-ऋद्धिक्रिया द्विधा || १६-९ || प्. १४७) तृतीया दिव्यसाम्राज्यमेधा दीक्षा प्रकीर्त्तिता | देवरूपा दिव्यरूपा मन्त्ररूपा महत्परा || १६-१० || सर्वरूपा सर्वपूर्वा महत्साम्राज्यमेधया | सिद्धि-ऋद्धिक्रमेणैव भेदबाहुल्यमीरितम् || १६-११ || विद्याराज्याभिधा दीक्षा छिन्नमस्ताविधौ स्मृता | चन्द्रवह्निरसो रक्तं श्यामा च षोडशी तथा || १६-१२ || पराषोढा सप्तदशी तदतीता परा भवेत् | दीपिनी मालिनी कुल्ला क्रमाद्विद्यादिराज्यता || १६-१३ || बगलाख्या महेशानि साम्राज्यपारमेष्ठिता | चन्द्रवेदसूक्ष्ममेरुं मंत्रहीनं शिवात्मकम् || १६-१४ || हृदयं च शतार्णा च पञ्चास्त्रं कुल्लुका तथा | गायत्रीक्रमयोगेन साम्राज्यपारमेष्ठ्यधृक् || १६-१५ || एतत्पञ्चकसंयुक्तः सर्वसाम्राज्यबुद्धिधृक् | श्रीदिव्यसर्वसाम्राज्यदीक्षा सर्वोत्तरा भवेत् || १६-१६ || ततोऽपि दीक्षा देवेशि नास्ति ब्रह्माण्डगोलके | दशविद्याप्रभेदाश्च महाविद्याप्रभेदजाः || १६-१७ || सिद्धिविद्याप्रभेदाश्च महामंत्रास्तथैव च | तदङ्गमंत्रा देवेशि शाबरं दशशाबरम् || १६-१८ || कालशाबरकं देवि तथैव सिद्धशाबरम् | त्रिधा दर्शनमंत्राश्च तथाम्नायक्रमोद्भवाः || १६-१९ || कादिहादिकहत्वेन ऊर्ध्वाम्नायाः कलौ शिवे | तथायतनमन्त्राश्च यत्किञ्चिन्मंत्रजालकम् || १६-२० || सर्वाधिकारो देवेशि एतद्दीक्षाविधौ भवेत् | प्. १४८) एतद्दीक्षासमायुक्तः साक्षात् श्रीकालिका स्वयम् || १६-२१ || प्रहराष्टक्रमेणैव दशविद्यास्वरूपधृक् | कामकलाभिधा विद्या सभेदा वृत्तिदेवता || १६-२२ || अङ्गमन्त्रास्तथान्येऽपि तस्य वक्त्रगताः सदा | क्रमदीक्षा महेशानि पञ्चविद्यासु भेदतः || १६-२३ || तदङ्गमन्त्रा गायत्री कुल्लुकापञ्चकः शिवे | अन्यविद्याविधौ प्रोक्तं रहस्यातिरहस्यकम् || १६-२४ || क्रमदीक्षा विना देवि यो जपेत् साधकाधमः | स दरिद्रो महापापी सुतहारी प्रजायते || १६-२५ || श्रीविद्यायां कालिकायां तारायां परमेश्वरि | क्रमदीक्षां विना देवि यो जपेत् साधकाधमः || १६-२६ || स दरिद्रो महाघोरो लक्ष्मीहीनस्तु निन्दितः | अन्धः काणः कृशः कुब्जः पङ्गुः षण्ढस्तु कुष्ठयुक् || १६-२७ || सर्वरोगयुतो भूयादाधिचिन्तासमाकुलः | सुतहारी च स्त्रीहारी कन्याराज्यविनाशकः || १६-२८ || अथवा वातुलो भूयान्मन्त्रक्षोभमवाप्नुयात् | देवताशापमाप्नोति दारिद्र्यं तद्गृहे सदा || १६-२९ || विशेषाद्देवदेवेशि स्त्रीहारी विकलः सदा | क्रमदीक्षासमायुक्तो राजा भवति निश्चितम् || १६-३० || महाविभवसंयुक्तः सर्वसिद्धिसमन्वितः | विजयी विनयी साधुः सिद्धश्च सिद्धिदः शुभः || १६-३१ || प्रहृष्टात्मा सत्यवेत्ता त्रिकालज्ञः कविः सुखी | कोटिसिद्धीश्वरः शूरः सुन्दरः काममोहनः || १६-३२ || आनन्दात्मा परात्मा च परातीतगुणोत्तरः | प्. १४९) राजराजेश्वरः साक्षात् सहृत्कालसमः कलौ || १६-३३ || एतद्विद्योपासकस्य दारिद्र्यं दीनता क्वचित् | गुरुहीनात् क्रमत्यागात् सम्प्रदायवियोगतः || १६-३४ || दारिद्र्यं प्रथमं भूयान्नात्र कार्यया विचारणा | चिन्तामणिगृहं यत्र यत्र रहस्य मन्दिरम् || १६-३५ || नवरत्नात्म्यसोपानं सर्वैश्वर्ययमयं(?) गृहम् | कल्पवृक्षवनं यत्र पारिजात्वनं तथा || १६-३६ || स्पर्शमणेस्तु प्राकारो दारिद्र्यं तत्र कुत्र वै | तस्मात् क्रमविहीनस्य दारिद्र्यं तु पदे पदे || १६-३७ || क्रमयुक्तं गुरुं प्राप्य क्रमं सम्प्रार्थयेत्सुधीः | अन्यथा गुरुमौढ्येन दारिद्र्यत्वमवाप्नुयात् || १६-३८ || अल्पायुर्वा भवेद्देवि नात्र कार्यया विचारणा | विधेर्लिपिं तु साम्राज्यं तस्यायुः क्षीणतां व्रजेत् || १६-३९ || इति संक्षेपतः प्रोक्तं क्रमहीनस्य वै फलम् | गोपनीयं गोपनीयं किमन्यत् श्रोतुमिच्छसि || १६-४० || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमदीक्षाविधायको नाम षोडशः पटलः || १६ || सप्तदशः पटलः श्रीदेव्युवाच | देवेश श्रुतुमिच्छामि पूर्वोक्तं यद्रहस्यकम् | गोपनीयम् गोपनीयं तदेव कथय ध्रुवम् || १७-१ || श्रीशिव उवाच | रहस्यातिरहस्यं च यन्न कस्यापि कीर्त्तितम् | तदेव कथ्यते देवि शृणु सावहिता भव || १७-२ || उत्सर्जनमुपाकर्म पवित्रारोपणं तथा | विधिवत्तु प्रकर्त्तव्यं रक्षाबन्धस्तदुत्तरम् || १७-३ || क्रमेण परमेशानि साधकः कारयेत्सदा | चैत्रे मासि पौर्णमास्यां मदनारोपणं चरेत् || १७-४ || श्रावणे मासि सम्प्राप्ते पवित्रारोपणक्रियाम् | न कुर्ययात्साधको यस्तु निष्फलाः सकलाः क्रियाः || १७-५ || वर्षमात्रं कृतं जापं होमपूजादिसत्क्रियाम् | सर्वं हन्ति महेशानि तस्मादेतत् समाचरेत् || १७-६ || आदौ नित्यं महेशानि ततो नैमित्तिकं चरेत् | उपाकर्माभिधं कर्म नित्यवत् परिकीर्त्तितम् || १७-७ || नैमित्तिकं पवित्राख्यं काम्यो रक्षाविधिर्भवेत् | नैमित्तिकद्वयं यत्र तदन्त्यं काम्यमुच्यते || १७-८ || काम्यद्वयं यत्र भवेत्तदाद्यं च निमित्तजम् | नित्यद्वयं यत्र भवेत्तदन्त्यं काम्यनित्ययुक् || १७-९ || प्. १५१) आश्वलायनं श्रवणे पूर्णा कात्यायने भवेत् | पौर्णमास्यां सामगानां पञ्चम्यां हस्तजेऽपि च || १७-१० || उपाकर्म प्रकर्तव्यं तदन्ते नित्यपूजनम् | ततः पवित्रपूजा स्यात्ततो रक्षाविधिर्भवेत् || १७-११ || सूतकद्वितये देवि ग्रहणे संक्रमे परे | उपाकर्माणि देवेशि कुर्ययात् भाद्रपदे नरः || १७-१२ || पवित्ररक्षणं शान्तिं कुर्ययात् भाद्रपदे सदा | पञ्चम्यां च दशम्यां च चतुर्दश्यां तथैव च || १७-१३ || पौर्णमास्यां विशेषेण कुलयोगे विशेषतः | ग्रहणं तत्र चेद्भूयात् रक्षायोगं समाचरेत् || १७-१४ || तत्र नित्यं प्रकर्तव्यं उपाकर्म ततो भवेत् | इति चन्द्रग्रहे देवि सूर्ययवेधं समुत्सृजेत् || १७-१५ || अधिवास्य चतुर्दश्यां पौर्णमास्यां प्रपूजयेत् | दशैकविंशतिग्रन्थिं सप्तविंशतिरेव च || १७-१६ || चतुःपञ्चाशद्देवेशि शतमष्टोत्तरं तथा | पञ्चविंशति वा ग्रन्थिं त्रिशतं वा सहस्रकम् || १७-१७ || अष्टादशरश्मिसंख्यं व्युत्क्रमात् परिकीर्त्तितम् | उत्तमादिक्रमेणैव पवित्रं त्रिविधं भवेत् || १७-१८ || सूत्रं पट्टस्वर्णमयं कुशजं लोमजं च वा | रत्नजं रौप्यजं देवि ताम्रजं शान्तिकर्मणि || १७-१९ || सार्द्धग्रन्थिद्वयं वापि सार्द्धग्रन्थित्रयं च वा | एकग्रन्थिं च वा देवि क्रमेण कारयेत् प्रिये || १७-२० || सार्द्धग्रन्थिद्वयं देवि नागपाशः प्रकीर्त्तितः | सार्द्धग्रन्थित्रयं देवि ब्रह्मग्रन्थिः प्रकीर्त्तितः || १७-२१ || प्. १५२) चन्द्रग्रन्थिर्महेशानि सूत्राणि ग्रन्थिसंख्यया | पट्टेन सूत्रनियमः स्वर्णे रौप्येऽपि नास्ति च || १७-२२ || स्वर्णसूत्रमये पट्टे स्वर्णजे ग्रन्थिरीरितः | ग्रन्थिं कृत्वा महेशानि पूजयेद्ग्रन्थिदेवताम् || १७-२३ || सूत्रजं वैष्णवे प्रोक्तं शैवे पट्टसमुद्भवम् | स्वर्णजं शक्तिमंत्रे स्यात्तद्द्वयोक्तं तु सर्वतः || १७-२४ || पञ्चसिद्धिविधौ देवि रत्नजं परिकीर्त्तितम् | वृत्तं त्रिकोणं भूबिम्बं षट्कोणं च षडस्रकम् || १७-२५ || दलाष्टकं च वस्वारं दशारं भुवनारकम् | द्वादशारं षोडशारं पञ्च चारं चतुर्दशम् || १७-२६ || दन्ताब्जं च कलाब्जं वा यन्त्राण्येतानि कारयेत् | मध्ये यन्त्रं च परितो रत्नानि विविधानि च || १७-२७ || धारयेत् परमेशानि पवित्ररक्षणक्रमात् | स्वर्णादौ शृङ्खलारूपा ग्रन्थयः परिकीर्त्तिताः || १७-२८ || उत्तमादिक्रमेणैव कारयेत् परमेश्वरि | माणिक्यं च तथा रत्नं कुरुविन्दमणिस्तथा || १७-२९ || हीरके चैव वैडूर्ये गोमेदे पुष्परागके | पद्मरागे नीलमणौ हरिते च गरुत्मके || १७-३० || करिके परिशे कीटे शिवरत्ने च विष्णुजे | बिन्दुरत्ने च मायूरे पाचे (?) कुक्कुटसंज्ञके || १७-३१ || रासे कृष्णे चन्द्रमणौ प्रवाले मौक्तिकाम्बरे | रक्षायन्त्रफलं देवि कोष्ठरत्नसमं भवेत् || १७-३२ || प्. १५३) यन्त्राण्येतानि विलिखेत् सर्वकार्ययार्थसिद्धये | श्रीविद्यायां कालिकायां ताराछिन्नाविधौ शिवे || १७-३३ || मातङ्ग्यां भुवनेश्वर्ययां कमलायां च कारयेत् | चतुर्दले महेशानि चतुर्वर्णात्मको मनुः || १७-३४ || चतुरक्षरमात्राणि कारयेत् परमेश्वरि | यथा दलानि कोष्ठानि तथा विद्याक्षराणि च || १७-३५ || विलिखेत् परमेशानि बीजमात्रं च वा लिखेत् | वयः शोभा यथा देवि यथाप्युक्ता समाचरेत् || १७-३६ || यदा बध्नाति मन्त्रेण त्वां पवित्रेण वा प्रिये | आपदुद्धारकेणापि मूलेन विद्यया क्रमात् || १७-३७ || रक्षणं बन्धयेद्देवि रक्षा सर्वकृता भवेत् | बलिमुखं च रक्षार्थं ज्ञानार्थं गौतमादिभिः || १७-३८ || मोक्षार्थं कपिलाद्यैश्च शक्त्यर्थं शङ्करादिभिः | सूत्रे भेदाः क्रमेणैव यथायोगेन वै शृणु || १७-३९ || श्वेते रक्ते तथा पीते नीले च हरितेऽपि च | कर्पूरे बहुचित्रे च यथायोगेन कारयेत् || १७-४० || सूत्राणि कामनाभेदात् यथायोगेन कारयेत् | सर्वसिद्धीश्वरो भूयान्नात्र कार्यया विचारणा || १७-४१ || प्रतिविद्याविधौ देवि पवित्रारोपणं भवेत् | प्रतिविद्याविधौ देवि रक्षा वर्णक्रमाद्भवेत् || १७-४२ || अष्टगन्धभवं सूत्रं जीवचक्रभवं च वा | पुष्पराजसारभवमम्बरोत्थं च वा प्रिये || १७-४३ || तथैवागुरुसारोत्थं सूत्रं प्रोक्तं महेश्वरि | प्. १५४) रहस्यातिरहस्यं च रहस्यातिरहस्यकम् || १७-४४ || गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले || १७-४५ || समस्ताः सिद्धयो देवि रक्षाधारकसाधके | सम्भवन्ति महेशानि नात्र कार्या विचारणा || १७-४६ || वाञ्छासिद्धिर्भवेद्देवि नात्र कार्यया विचारणा | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १७-४७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरखण्डे प्रथमभागे श्रीमदक्षोभ्यमहोग्रतारासंवादे सूत्रनिर्णयो नाम सप्तदशः पटलः || १७ || अष्टादशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि गोप्याद्गोप्यतरं महत् | श्रीशिव उवाच | रहस्यातिरहस्यं च कथ्यते शृणु साधनम् || १८-१ || पूर्णाभिषेकदीक्षादियुक्तानामपि पार्वति | पवित्रारोपणं रक्षा समैव परिकीर्त्तिता || १८-२ || सद्योऽधिवासनं वापि पूर्वाधिवासनं च वा | कृत्वा पवित्रं कर्त्तव्यं सर्वकामार्थमेव च || १८-३ || सर्वरत्ने च परिशे तथा गरुडरत्नके | सर्वरक्षासुसिद्ध्यर्थं रक्षणं बन्धनं चरेत् || १८-४ || तारा श्रीकामवाङ्माया काली छिन्ना च तारिणी | बगला विमला धूम्रा वसोर्धारा षडङ्गकम् || १८-५ || त्रितारं पञ्चतारं च सप्तर्षिरध्रयोगतः | आकर्षिण्यां परां मायां पराप्रासादकेऽपि च || १८-६ || बीजान्येतानि बाणाश्च प्रेतफेत्कारकामतः | एकद्वित्रिचतुःपञ्चषडर्णक्रमयोगतः || १८-७ || विद्यां संयोजयेद्यंत्रे सर्वसिद्ध्यर्थमेव च | श्रावण्यां पौर्णमास्यां तु रक्षां दशविधां चरेत् || १८-८ || गोरक्षा हयरक्षा च गजरक्षा तृतीयका | जनरक्षा देशरक्षा गृहरक्षा रसाभिधा || १८-९ || प्. १५६) धनरक्षा बालरक्षा क्षेत्ररक्षा परा मता | सर्वरक्षा च दशमी रक्षा दशविधा मता || १८-१० || अष्टम्यां च नवम्यां च पञ्चम्यां दशमीदिने | चतुर्द्दश्यां पौर्णमास्यां पक्षयोरुभयोरपि || १८-११ || उपाकर्म भवेदादौ ततः पवित्रधारणम् | रक्षाबन्धस्तदन्ते स्यात् क्रमात् त्रितयमाचरेत् || १८-१२ || चतुर्थ्यामधिवासो हि गणेशे परिकीर्त्तितः | पञ्चम्यां धारणं कार्ययं मातङ्ग्यामधिवासनम् || १८-१३ || दशम्यां धारणं कार्ययं सप्तम्यामधिवासनम् | अष्टम्यां पूजनं कार्ययं धार्ययं सौरे महेश्वरि || १८-१४ || अष्टम्यामधिवासो हि नवम्यां धारणं शिवे | शक्तेः प्रोक्तमिदं देवि पाञ्चरात्रक्रमं शृणु || १८-१५ || नवम्यामधिवासो हि दशम्यां धारणं शिवे | वैष्णवे चैव द्वादश्यां त्रयोदश्यां विधारणम् || १८-१६ || अधिवासश्चतुर्द्दश्यां पौर्णमास्यां प्रपूजनम् | शैवे प्रोक्तमिदं देवि श्रीविद्यायां च पौर्णिमा || १८-१७ || चान्द्रेऽपि पौर्णमास्यां च पवित्रधारणं चरेत् | कुशैः काशैः सदा कार्ययं पवित्रं ब्रह्मचारिणाम् || १८-१८ || वनस्थानां शणभवं त्रसरीसभवं च वा | यतीनां गैरिकाक्तं च सर्ववर्णं गृही चरेत् || १८-१९ || राज्ञां सुवर्णसूत्रोत्थं क्षत्रियाणां च रौप्यजम् | द्विजानां सूत्रसम्भूतं क्रमेण परिकीर्त्तितम् || १८-२० || तथैव रक्षणं देवि सर्वथा सममत्र च | अत्रार्थे देवदेवेशि इतिहासत्रयं शृणु || १८-२१ || प्. १५७) पुरा श्रीकार्तिकेयाय पार्वत्या रक्षणं कृतम् | शव्या देवेन्द्रवश्यार्थं जयाय वृत्रनाशने || १८-२२ || महाविद्यादिभिः पूर्वं रक्षितो बटुकः पुरा | पूर्वं कृतयुगे देवि नहुषः क्षत्रियेश्वरः || १८-२३ || उपाकर्म विधायाथ पवित्रारोपणे स्थितः | कृत्वा पवित्रं यत्नेन देवेन्द्रसदनाद्गृहम् || १८-२४ || तन्मार्गमध्ये देवेशि विना रक्षां च योऽधमः | बुद्धेर्विपर्ययो जातो रक्षाहीनो नराधिपः || १८-२५ || रक्षाबन्धनमात्रेण मासद्वादशरक्षणम् | अकृते देवदेवेशि मतिभ्रष्टो नरो भवेत् || १८-२६ || वर्षमात्रकृता रक्षा रक्षाबन्धनयोगतः | अङ्कयन्त्रैर्महादेविः बीजाङ्कैरपि पार्वति || १८-२७ || अङ्कबीजैः पताकाद्यैः सर्वत्र रक्षणं भवेत् | वेदसंस्कार एवात्र चोपाकर्म प्रकीर्त्तितम् || १८-२८ || गृहीतवेदमन्त्रस्य रक्षणं तु पवित्रकम् | वदधिष्टातृ(?)रक्षार्थं रक्षाबन्धनमीरितम् || १८-२९ || तस्मात् सर्वप्रयत्नेन रक्षाबन्धनमाचरेत् | विना रक्षां महेशानि वर्षमात्रं कृता क्रिया || १८-३० || सकला निष्फला देवि देवता विमुखी भवेत् | सर्वस्वैरपि देवेशि रक्षाबन्धनमाचरेत् || १८-३१ || सर्वरक्षा तदा देवि भवत्येव न संशयः | नित्यं नैमित्तिकं काम्यं क्रमात्त्रितयमीरितम् || १८-३२ || इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि | प्. १५८) श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् || १८-३३ || श्रीशिव उवाच | किं तद्रहस्यं देवेशि तद्वदस्व प्रियंवदे | श्रीदेव्युवाच | पवित्रारोपणं कर्म मदनारोपणं तथा || १८-३४ || कथ्यतां देवदेवेश यद्यहं तव वल्लभा | श्रीशिव उवाच | आषाढ उत्तमो मासः श्रावणो मध्यमः स्मृतः || १८-३५ || हीनो भाद्रपदो मासः पक्षौ सितसितेतरौ | प्रशस्तः शुक्लपक्षस्तु तदभावे परः स्मृतः || १८-३६ || पञ्चमी चाष्टमी चैव नवमी दशमी तिथौ | द्वादश्यां च चतुर्दश्यां पौर्णमास्यामथापि वा || १८-३७ || पट्टसूत्रविशिष्टं तु कार्पासजनितं तथा | त्रिगुणं त्रिगुणीकृत्य प्रक्षाल्यामलवारिणा || १८-३८ || पश्चिमास्योक्तमनुभिर्दक्षिणैः शोधयेत्ततः | मन्त्रैरथ पवित्राणि मनोरम्याणि कारयेत् || १८-३९ || अष्टोत्तरशतं श्रेष्ठं मध्यमं तु तदर्धकम् | तदर्धं च कनिष्ठं स्यात् यथाशक्त्या तु पूर्ववत् || १८-४० || पूर्वोक्ततन्तुभेदेन द्रव्यभेदेन वा प्रिये | कृत्वा पवित्रं यत्नेन ग्रन्थिं दत्वा विधानतः || १८-४१ || उत्तरास्योदितैर्मंत्रैर्दशग्रन्थींस्तु कारयेत् | प्. १५९) चित्रवैचित्र्यसंयुक्तं कुङ्कुमादिभिरद्रिजे || १८-४२ || पवित्रदानदिवसे पूर्वोक्तमधिवासनम् | सद्योऽधिवासनं वापि कुर्ययात्तु परमेश्वरि || १८-४३ || रात्रौ समयिभिः साकं नित्यपूजामनन्तरम् | ऊर्ध्वसिंहासनैर्मन्त्रैः सूत्रपातस्तु वामतः || १८-४४ || प्रार्थयित्वा स्तवेनापि रक्षां कृत्वावगुण्ठनैः | दन्तकाष्ठं तथा गन्धं यज्ञचन्दनमृत्तिकाम् || १८-४५ || सिद्धार्थश्च तथा धात्रीफलं शृङ्गारभूषणम् | नकुलमष्टसु पट्टा (?) विज्ञेया उत्तरोत्तरम् || १८-४६ || पूर्वादिदिक्षु क्रमतः पवित्रं सूत्रभाजनम् | अश्वत्थपत्रपात्रेषु प्रक्षिपेत् सिद्धिहेतवे || १८-४७ || हु/ कारसोमस्वाहेशब्रह्मनागशिखिध्वजाः | सूर्यः सदाशिवः सर्वा देवताः स्युर्नवाः पराः || १८-४८ || सूत्रेषु पूजयेद्ब्रह्मविष्णवीशांश्च त्रिसूत्रके | कृपा च पौरुषी वाणी गायत्री चापराजिता || १८-४९ || विजया च जया देवि मुक्तिदा च सदाशिवा | मनोन्मनी च नवमी दशमी सर्वतोमुखी || १८-५० || ग्रंथिस्था देवताः पूज्या उपचारैः कलात्मकैः | मूलमन्त्रेण चामन्त्र्य पवित्रेषु कला यजेत् || १८-५१ || नित्याः षोडश देवेशि श्रीविद्यां च स्मरेत् प्रिये | अष्टौ ताराश्चाष्टवाणीः कलास्थाने प्रपूजयेत् || १८-५२ || काल्यां काल्यादिनित्याश्च पूजयेत् परमेश्वरि | प्. १६०) अधिवासविधिः प्रोक्तः पश्चादाराधनं भवेत् || १८-५३ || नित्यार्चनानन्तरं तु नैमित्तिकमिदं भवेत् | समभ्यर्च्य पवित्राणि कन्यकाभ्यश्च भोजनम् || १८-५४ || स्वगुरुं पूजयेत् पश्चात् वस्त्रालङ्कारगोधनैः | यथाशक्त्या नमस्कृत्य देवीरूपेण चिन्तयेत् || १८-५५ || आरोपयेत् पवित्रं च वित्तशाठ्यविवर्जितः | गुरुं संपूजयेत्तत्र तत्तत्कर्मफलावहम् || १८-५६ || स चेन्न पूज्यते यत्र क्रिया सा निष्फला सदा | गुरोरभावे तत्पुत्रं पुत्राभावे तदङ्गनाम् || १८-५७ || तदभावे च तत्पौत्रं दौहित्रं तदसम्भवे | सर्वाभावेऽर्चयेदन्यं गुरोर्गोत्रसमुद्भवम् || १८-५८ || पूजयेद्दिक्षितं यत्र तत्रैताः सफलाः क्रियाः | न पूज्यते निष्फलास्ता भवन्ति परमेश्वरि || १८-५९ || हुत्वा पूर्णाहुतिं पश्चादग्नौ दग्ध्वा पवित्रकम् | चक्रमभ्यर्च्य सिद्धाग्रे पूजयेत्तन्निवेदयेत् || १८-६० || न करोत्यर्चनं ह्यग्नौ तस्य धर्मो विनिष्फलः | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || १८-६१ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे क्रमदीक्षापवित्रारोपणं नामाष्टादशः पटलः || १८ || ऊनविंशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि इतिहासं पुरातनम् | श्रीशिव उवाच | शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् || १९-१ || भक्तिश्रद्धापरायास्ते नाकथ्यं विद्यते मम | न चाख्येयं त्वयान्यत्र प्राणेषु विगते(?)ष्वपि || १९-२ || रहस्यमेतद्देवानां सर्वसिद्धिमभीप्सतम् | न च विद्यामयो योगो न विधानं न चार्चनम् || १९-३ || नान्यः प्रयोगो न जपो न होमो न च पूजनम् | वक्ष्यमाणरहस्यस्य सहस्रांशं न चाहेति || १९-४ || सिद्धिमीयुः पुरैतस्याः प्रसादात् पार्थिवर्षयः | कैरवो (?) वृहदश्वश्च सोमदत्तो बृहद्रथः || १९-५ || अजमीढः कार्त्तवीर्ययो भद्रसेनः पुरूरवाः | पृथुग्रीवो रन्तिदेवो मान्धाता नहुषे रघुः || १९-६ || विदूरथश्च भरतो दिवोदासः प्रतर्दनः | कृशाश्वो जमदग्निश्च जैगीषव्यश्च देवलः || १९-७ || पैठीनसिर्वीतिहव्यः कश्यपो भृगुरङ्गिराः | संवर्तश्च वसिष्ठोऽत्रिर्व्यासः शातान्यस्तथा || १९-८ || उद्दालको भरद्वाजो जाबालो जैमिनिस्तथा | प्. १६२) सप्तद्वीपेश्वरत्वं च चक्रवर्त्तित्वमेव च || १९-९ || प्रापुः पूर्वमहीपालाश्चिरजीवित्वमप्यलम् | योगसिद्धिं तथान्येऽपि तपस्यां सर्वसाधिकाम् || १९-१० || शापानुग्रहसामर्थ्यं प्राप्तवन्तो महर्षयः | त्रैलोक्याधिपतित्वं च यत्प्रसादात् करे स्थितम् || १९-११ || ताराक्षः कमलाक्षश्च विद्युन्माली तथैव च | एते ह्यासन् कृतयुगे दैतेया भ्रातरस्त्रयः || १९-१२ || तेऽतप्यन्त तपो घोरं दिव्यं वर्षायुतं प्रिये | ततः प्रजापतिस्तेभ्यो वरं संप्रार्थितं ददौ || १९-१३ || चतुर्वरद्वयं दैत्याः सौन्दर्यमदगर्विताः | एकस्तेषामवध्यत्वं सर्वभूतेभ्य उत्थितम् || १९-१४ || द्वितीयं योजनानां हि त्रित्रिलक्षान्तरस्थितम् | त्रयाणां त्रिपुरं भूमौ न लङ्घ्यं दैवतैरपि || १९-१५ || वरं दत्त्वा च तद्धाता सर्वं शृणुत पुत्रकाः | सर्वप्रकारैः कस्यापि नावध्यत्वं जगत्त्रये || १९-१६ || एकेनापि प्रकारेण घटमानेन सर्वथा | सर्वे स्वकीयं निधनमङ्गीकुरुत दानवाः || १९-१७ || ते विचार्यावदन्सर्वे शरेणैकेन यत्क्षणात् | दहेत्त्रयाणां त्रिपुरं स नो मृत्युर्भविष्यति || १९-१८ || तथेत्युक्त्वा ययौ वेधा ब्रह्मलोकं सुरैर्युतम् | तेऽपि सर्वे तथा चक्रुर्यथा पूर्वं विचारितम् || १९-१९ || ताराक्षस्य तु सौवर्णं पुरं सर्वोपरि स्थितम् | योजनायुतविस्तीर्णं तावदेवायतं प्रिये || १९-२० || प्. १६३) राजतं कमलाक्षस्य योजनायुतविस्तृतम् | दशसाहस्रविस्तीर्णं विद्युन्मालिन आयसम् || १९-२१ || त्रित्रिलक्षोत्तरं तेषां पुरं गगनसीमनि | प्राकारपरिखोपेतं तथाट्टालकशोभितम् || १९-२२ || ध्वजगोपुरनिःश्रेणिपताकायन्त्रशोभितम् | खड्गपाशाङ्कुशारिष्टगदाकार्मुकधारिभिः || १९-२३ || पाशशूलभुशुण्ड्यष्ट्रा चक्रमुद्गरशोभिभिः | त्रिंशन्निखर्वषट्वृन्दनवत्यर्बुदकोटिभिः || १९-२४ || एकैकं पुरमाक्रान्तं दानवैर्युद्धदुर्मदैः | दृष्ट्वा तु तादृशीमृद्धिं देवाः सर्वे सवासवाः || १९-२५ || पलायाञ्चक्रिरे केचित् केचिच्च शापितं ययुः | केचिच्च युयुधुर्देवास्तत्यजुस्त्रिदिवं परे || १९-२६ || केचित् समुद्रं प्रविशुः केचिच्च गिरिकन्दरम् | जन्हुः केचिद्भिया प्राणान् ययुः केचिच्चतुर्दिशम् || १९-२७ || दृष्ट्वा सुराणामधिपो देवानामीदृशीं दशम् | रुद्रं जगाम शरणं पुरोधाय प्रजापतिम् || १९-२८ || दण्डवत् प्रणता भूत्वा ते देवाः सपितामहाः | ऊचुः प्रञ्जलयो भूत्वा पिनाकिनमुमापतिम् || १९-२९ || तपस्यया वरं धातुः सम्प्राप्य त्रिपुरासुराः | बाधन्तेऽस्मान्महेशान शैलगह्वरगानपि || १९-३० || त्वत्तः शरण्यो नास्माकं विद्यते देव कश्चन | अतो निवेदयामस्ते प्रमथाधिपते प्रभो || १९-३१ || देवाङ्गनाः समाहृत्य नयन्ति स्वपुरं प्रति | प्. १६४) निरध्वरं जगज्जातं निष्कल्पतरु नन्दनम् || १९-३२ || निर्मनुष्या मही सर्वा निर्देवाप्यमरावती | निस्तोया निम्नगा जाता नीरत्नाः सप्तसागराः || १९-३३ || पादपानां कोटरेषु कन्धरेषु महीभृताम् | लीना भूत्वा वयं सर्वे तिष्ठामस्तद्भयार्दिताः || १९-३४ || तेषां हि शास्ता त्रैलोक्ये त्वदन्यो नास्ति कश्चन | तान्निहत्यासुरान्स्वर्गे पुनरस्मान्निवेशय || १९-३५ || इत्युक्तः प्रणतैः सर्वैर्विहस्य वृषभध्वजः | प्रत्युवाच सुरान् सर्वान् रथो मे कल्प्यतामिति || १९-३६ || ततो ब्रह्माऽब्रवीत्तत्र स्मितं कुर्वन् महेश्वरम् | निर्मातव्यो रथो देव कस्त्वदारोहणक्षमः || १९-३७ || तद्वोदुं रथनिर्माणे सामर्थ्यं नैव विद्यते | स्वयोग्यं स्पन्दनं चास्त्रं कवचं चोटिकामपि || १९-३८ || त्वमेव कल्पयस्वाद्य बुद्धिः कस्यास्ति शङ्कर | इत्युक्तो ब्रह्मणा शम्भुरवदत् हर्षयन् सुरान् || १९-३९ || चत्वारो वाजिनो वेदास्ते चोपाकर्मणा तपः | वेदाः क्रियावतां यान्ति शङ्खासुरविमर्दिताः || १९-४० || ताराक्षस्य तपस्तेन चोपाकर्मप्रभावतः | क्षीणं भवति भो ब्रह्मन् कामलाक्षं पवित्रतः || १९-४१ || वर्षमात्रं कृता शान्तिः पवित्रमृषिभिः स्मृतम् | कमलाक्षतपः क्षीणं पवित्रेण प्रजायते || १९-४२ || सर्वस्वस्त्ययनं नाम पवित्रारोपणं मतम् | चत्वारो वाजिनो वेदाः संपूर्णा मेदिनी रथः || १९-४३ || प्. १६५) सूर्याचन्द्रमसौ चक्रे कूबरो गन्धमादनः | विन्ध्यो गिरिर्नाभिरस्तु कैलासोऽक्षत्वमेव च || १९-४४ || मेरुर्मे ध्वजदण्डं स्यात् सारथिर्भगवान् विधिः | प्रणवस्तु प्रतोदः स्यात् पुराणानि च रश्मयः || १९-४५ || धनुर्मे मन्दरो भूयाच्छिंजिनी वासुकिर्भवेत् | विष्णुः शरो मे भवतु बाह्वोर्वायुर्विशन्त्वपि || १९-४६ || यमो मृत्युश्च कालश्च फणामध्ये विशन्तु च | वासवः शरपृष्ठे स्यात् कुबेरवरुणावुभौ || १९-४७ || भवतः पुङ्खसंस्थाने मस्तके सर्वदेवताः | नासत्यौ वटिनीसंस्थौ यज्ञाः सर्वे पदातयः || १९-४८ || अष्टाङ्गे दशविद्याश्च शतस्थाने शतास्रकम् | षड्त्रिंशदङ्गुलो वंशो मनुबन्धनसंयुतः || १९-४९ || मन्वङ्गुलादित्यरूपाः शरा मैनाकगोचराः | पिनाकचापलक्षं च वेत्ति काली सदाशिवम् || १९-५० || स्वेच्छयान्यच्च सरलं कल्पयामास शङ्करः | अस्त्रं (?) च कवचं षोढां लब्ध्वा रक्षां विना शिवः || १९-५१ || स्वयोग्यं रक्षणं शम्भुरलब्ध्वा चिन्तितो भवेत् | निमील्य त्रीणि नेत्राणि चिरं तस्थौ जगत्पतिः || १९-५२ || अथ ध्यानवतो भूत्वा तुष्टाव विश्वतारिणीम् | स्तुत्वा सम्प्रार्थयामास रक्षां दशविधां पराम् || १९-५३ || ततः सापि दिदेशास्मै रक्षां दशविधां पराम् | दशविद्यामयी रक्षा त्रैकोक्यविजयाभिधा || १९-५४ || वेदसन्दीपनाद्ब्रह्मन् दीपकास्त्रं प्रकीर्त्तितम् | चतुरशीतिभेदानां राज्ञी विद्या परात्परा || १९-५५ || प्. १६६) इत्याम्नायैर्नवविधैर्युक्ता ब्रह्माण्डभेदिनी | स्तम्भनास्त्राभिधा स्वर्गे त्रैलोक्यविजया भुवि || १९-५६ || आकर्षणास्त्रा पाताले त्रिपुरासुरघातिनी | कालीमुखाभिधा वैरिजने वादिजने तथा || १९-५७ || तारामुखाभिधा प्रोक्ता छिन्नारूपा तु सर्वतः | त्रिशक्तिविद्यारूपा तु त्रैलोक्यविजयाभिधा || १९-५८ || त्रयाणां नाशनार्थं च त्रिशक्तिरक्षणं परम् | प्राप्तो जगाम सन्तुष्टः शङ्करस्त्रिपुरं प्रति || १९-५९ || अस्त्रं पाशुपतं चापि सन्धाय वृषभध्वजः | पुराणि त्रीणि दैत्यानां विभेदैकेन पत्रिणा || १९-६० || क्षणेन भस्मसाद्भूत्वा जग्मुर्दैत्या यमालयम् | ततः प्रभृति श्रीदेवि रक्षा रक्षेति विश्रुता || १९-६१ || लोकोत्तराभिधा रक्षा मत्स्मृत्या प्रभविष्यति | इति वृत्तं पुरावृत्तं तेन रक्षा प्रकीर्त्तिता || १९-६२ || विद्याभिमन्त्रितं सूत्रं यस्तु धारयते नरः | रक्षा भवति सर्वेषां दुष्टानां विप्रकारिणाम् || १९-६३ || महाविषं महाभूतपूतनाराक्षसादयः | दैत्याश्च दानवाः क्रूरा नश्यन्ति क्षणमात्रतः || १९-६४ || इयमेव पुरा रक्षा बटुकाय प्रकाशिता | महाविद्यादिदशकैर्बध्वा बटुकभैरवे || १९-६५ || यन्त्रं पताकां सूत्रं च मन्त्रवर्णविदर्भितम् | सर्वथा बन्धयेद्देवि रक्षा सर्वकृता भवेत् || १९-६६ || श्रावणे मासि संवृत्तं वृत्तमेतत् पुरा शिवे | प्. १६७) गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् || १९-६७ || इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे उपाकर्मपवित्रारोपणरक्षाविधिर्नामोनविंशः पटलः || १९ || विंशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि मदनारोपणक्रियाम् | श्रीशिव उवाच | पवित्रारोपणं यद्वत्तद्वन्मदनपूजनम् || २०-१ || चैत्रादयस्त्रयो मासाः पक्षौ सितसितेतरौ | एतेषां पूर्वपूर्वस्तु कालः सर्वोत्तमो भवेत् || २०-२ || अष्टम्यां च चतुर्द्दश्यां पुर्णमास्यामथापि वा | पूर्वरात्रौ प्रकुर्वीत सद्यो वासाधिवासनम् || २०-३ || आमंत्र्य मदनं वेद्यां चतुःकल्पलतादिभिः | कामनेत्रसमुद्भूत रतिनेत्रजलाप्लुत || २०-४ || ऋषिगन्धर्वसिद्धानां विमोहक नमोऽस्तु ते | शिवप्रसादसम्भूत अत्र सन्निहितो भव || २०-५ || शिवाकार्ययं समुच्छिद्य नेतव्योऽसि शिवाज्ञया | इत्यामंत्र्य रतिकामौ तत्र सम्पूजयेत् सुधीः || २०-६ || स्वयमुत्पाठ्य मदनं समूलं पल्लवैर्युतम् | आनीतं ह्यथवान्येन मौल्यादानीतमीश्वराम् || २०-७ || वामेन स्थापयेद्देवि सर्वतोभद्रकाम्बुजे | वस्वारे मदनं पात्रे स्थापयेत् पूजयेत् पुनः || २०-८ || प्. १६९) प्रणवं भुवनेशानि रतये नम इत्यपि | रतिमन्त्रो महेशानि काममन्त्रस्तु कथ्यते || २०-९ || प्रणवं कामबीजं च कामाय नम इत्यपि | मन्त्राभ्यां पूजयेत्तत्र मदनं कर्णिकागतम् || २०-१० || ततस्तत्पद्मपूर्वादिदलेषु पुटिकां न्यसेत् | अष्टस्व्यष्टभिर्मन्त्रैरष्टद्रव्ययुतां क्रमात् || २०-११ || कामो भस्मशरीरश्च तथानङ्गश्च मन्मथः | वसन्तमुख(?) नामा च स्मर इक्षुधनुर्द्धरः || २०-१२ || पुष्पवाणस्तु ताराद्यास्तुङ्गदन्ताः प्रकीर्त्तिताः | कर्पूरं रोचनायुग्मं कस्तूरीं च ततः प्रिये || २०-१३ || अगुरुं कुङ्कुमं धात्रीफलं चन्दनमेव च | पुष्पैः सुगन्धिभिः कुर्ययादष्टद्रव्याणि पार्वति || २०-१४ || सम्पूज्य मदनं सम्यग्गन्धपुष्पाक्षतादिभिः | जपेदनङ्गगायत्रीं यथाशक्त्या प्रसन्नधीः || २०-१५ || कामदेवाय इयुक्त्वा विद्महेति वदेत्ततः | भवेनङ्गगायत्री(?) तन्नोऽनङ्गः प्रचोदयात् || २०-१६ || नमोऽस्तु पुष्पबाणाय जगदानन्दकारिणे | मन्मथाय जगन्नेत्ररतिप्रीतिप्रियाय च || २०-१७ || अनेन मनुना देवि नमस्कुर्ययात्ततः परम् | अथ विज्ञापनं कुर्ययात् दिव्यैर्मदनपाणियुक् || २०-१८ || आमन्त्रितासि देवेशि सद्यः काले मया शिवे | कर्त्तव्यं तु यथालाभं पूर्वपूर्वं तवाज्ञया || २०-१९ || प्. १७०) विज्ञापनाख्यमन्त्रेण त्रिशक्तिं परितोषयेत् | ततः सम्पूज्य देवेशि गन्धपुष्पाक्षतादिभिः || २०-२० || षोडशार्णजगन्मातर्वाञ्छितार्थफलप्रदे | कृत्यान् पूरय मे देवि कामान् कामेश्वरेश्वरि || २०-२१ || अनेन प्रार्थयेद्देवि पश्चान्मदनमीश्वरि | वर्मावगुण्ठनं कुर्ययादस्त्रेणापि तु रक्षितम् || २०-२२ || ततो जागरणं कुर्ययात् सद्यश्चेत् जागरो न हि | अथ प्रातः समुत्थाय कुर्ययाच्च नित्यपूजनम् || २०-२३ || ततो नैमित्तिकं कुर्ययान्मदनस्य प्रपूजनम् | तेनैव महतीं पूजां मध्यमं पुष्पमीरितम् || २०-२४ || मनोहरं च विधिवत् कृत्वा नैवेद्यमुत्तमम् | सकर्पूरं च ताम्बूलं दद्यात् सम्प्रार्थयेत्ततः || २०-२५ || समस्तचक्रचक्रेशि सर्वविद्याशरीरिणि | देवमातर्ममैतत्तु भवत्विष्टं तवाज्ञया || २०-२६ || ततः स्वगुरुमभ्यर्च्य पुष्पधूपाम्बरादिभिः | दत्वा मदनकं तस्मै नमस्कृत्य प्रसाद्य च || २०-२७ || जलकेलिं ततः कुर्ययात्सार्द्धं समयिभिः सुखम् | अन्नदानं प्रकुर्वीत सुहृत्सङ्गसमन्वितः || २०-२८ || एवं यः कुरुते विद्वान् मदनारोपणक्रमम् | तस्य सांवत्सरी पूजा त्रिशक्तिप्रीतिदा भवेत् || २०-२९ || इति संक्षेपतः प्रोक्तमितिहासं विशेषतः | सामान्यं च प्रवक्ष्यामि येन सिद्धिं प्रविन्दति || २०-३० || तपोभङ्गाय मदनो मम शैलभवे यदा | प्. १७१) भस्मीभूतस्तदा देवि रतिप्रीती सुदुःखिते || २०-३१ || तन्नेत्रवारिसम्भूता मदनस्य लता शिवे | तत्सौरभं च सौभाग्यं महदासीत् सुलोचने || २०-३२ || तेन सन्तुष्टो हृदयाद्वरो दत्तो मया प्रिये | रत्यै प्रीत्यै च तस्मात्तु मदनः प्रकटीकृतः || २०-३३ || मदनेन च यो मंत्री वर्षमर्धेन पूजयेत् | तस्य सांवत्सरी पूजा मदनाय भविष्यति || २०-३४ || इति तस्मै वरो दत्तो मयैव सुरवन्दिते | अन्यथा तत् फलं सर्वं कृतं कामाय जायते || २०-३५ || तस्मान्मदनपूजादि कर्त्तव्यं वीरवन्दिते | समूलं मदनं गृह्य स्थापयेत् पात्रकेऽम्बुजे || २०-३६ || मदनं नवधा कृत्वा पूजयेत्तदनन्तरम् | आनन्दस्वरबीजेन नवधा बिन्दुना सह || २०-३७ || नवप्रकाररत्नाद्यैर्मदनं पूजयेत् क्रमात् | अघोरविद्यया पश्चात् अभिषिञ्चेत्तमेव हि || २०-३८ || पूर्वोक्तं वा दक्षिणस्यां दिशि सिंहासनस्थया | अस्त्रेण रक्षणं कुर्ययात् कवचेनावगुण्ठनम् || २०-३९ || बद्धत्रिशूलमुद्रां च भ्रामयेन्मदनोपरि | चैत्रे मासि चतुर्द्दश्यां मदनारोपणं भवेत् || २०-४० || उर्ध्ववक्त्रास्त्रमंत्रेण हृदयेन प्रपूजयेत् | श्रीखंडमूलदेशेषु ह्यधिवासं च कारयेत् || २०-४१ || प्रथमे दिवसे कुर्ययादधिवासमनुत्तमम् | सद्योऽधिवासनं वापि वर्षपूजाफलाप्तये || २०-४२ || प्. १७२) प्रातःकाले चतुर्द्दश्यां नित्यार्चनं चरेत्ततः | नवकोणं विरच्याथ सिन्दूरेण महाप्रभम् || २०-४३ || पात्राणि नव संस्कार्य हेमरौप्यादिपूरितम् | एकं वा कलशं रम्यं स्थापयेद्देशिकोत्तमः || २०-४४ || दक्षतो मण्डलं कृत्वा कुङ्कुमाद्यैर्विचित्रितम् | अशोकतरुमालिख्य त्रिकोणं मण्डलं लिखेत् || २०-४५ || तन्मध्ये पूजयेत् कामं वरुणं वारुणप्रभम् | रक्तवस्त्रं रक्तभूषं वामदक्षिणयोः प्रिये || २०-४६ || रतिप्रीतिविशोभाढ्यं पञ्चबाणधनुर्धरम् | वसन्तसहितं कामं पूजयेत् सर्वसिद्धये || २०-४७ || वाग्भवं भुवनेशानि श्रियं कामात्मकेन च | कामाय नम उद्धृत्य नवार्णं वरवर्णिनी || २०-४८ || कामबीजत्रयं प्रोक्तं पूर्वमात्मकमालिखेत् | रत्यै नमश्चाष्टवर्णो रतिमन्त्रो वरानने || २०-४९ || प्रीतिं वदेत् रतिस्थाने प्रीतिमन्त्रोऽष्टवर्णकः | गौरश्यामरतिप्रीती भ्रामणे मालभूषणे || २०-५० || पद्मताम्बूलवर्णे च रक्तवस्त्रविराजिते | वामदक्षिणयोर्ध्यात्वा कामस्य हृदयान्तरम् || २०-५१ || वसन्तं पूजयेत् पश्चात् कदम्बवनमध्यगम् | गौरवर्णं वामहस्ते सुधापूर्णघटान्वितम् || २०-५२ || दक्षहस्तेन दधतं नानापुष्पसमुच्चयम् | साङ्गं कामं प्रपूज्याथ धूपदीपादि दर्शयेत् || २०-५३ || सम्यक् प्रपूज्य देवेशि सर्वदेवशरीरिणम् | प्. १७३) क्रमं समर्चयेत् सम्यक् कुमारीं भोजयेत्ततः || २०-५४ || सुवासिनीं च सम्पूज्य योगिनीगणमर्चयेत् | ब्राह्मणाः परितः पूज्या नानादर्शनमानवाः || २०-५५ || तदङ्गहवनं पश्चात् गुरुं रत्नादिभूषणैः | स्वर्णभारसहस्रैस्तु दिव्यवस्त्रैर्मनोरमैः || २०-५६ || पूजयित्वा ततो देवि मदनारोपणं मतम् | तस्य सांवत्सरी पूज सफला शैलकन्यके || २०-५७ || इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि | इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथमखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मदनारोपणं नाम विंशतिः पटलः || २० || एकविंशः पटलः | श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि रहस्यमपरं वरम् | श्रीशिव उवाच | रहस्यमपि देवेशि समयक्रमयोगतः || २१-१ || समयं सम्प्रवक्ष्यामि तंत्रलेखनभेदतः | षट्गुरोः स्वामिनः पञ्च भ्रातृवर्ज्यत्रयं भवेत् || २१-२ || एवं क्रमेण सम्प्रोक्तमेकैकं पुत्रभार्ययोः | सप्त देवे महेशानि द्वे मित्रे द्विगुणं रिपौ || २१-३ || फलान्यपि महेशानि यथायोगेन वै शृणु | गुरौ सप्तपञ्चवर्ज्यं शत्रूणां द्वितयं भवेत् || २१-४ || वेदसंख्यां महच्छत्रौ एकैकं पुत्रभार्यययोः | नवनाथे महेशानि यथायोगेन कारयेत् || २१-५ || ताम्बूलसमयं तत्र शृणु देवि यथाक्रमम् | शतपर्णानि देवेशि चक्रवर्त्तिवराय च || २१-६ || गुरुभ्यः सम्प्रदातव्या द्वात्रिंशत् पर्णवीटिका | अष्टाविंशति भूपेभ्यो बान्धवेभ्यो दशाष्टकम् || २१-७ || जामात्रे पक्षपर्णानि वसु द्वादश वा प्रिये | पञ्चविंशति शक्तिभ्यः पुत्रेभ्यस्तत्त्वसंख्यकान् || २१-८ || षट्पर्णानि च शत्रुभ्यस्तुरीयं दानमुत्तमम् | प्. १७५) पर्णत्रयं शत्रुपक्षे दशपर्णारिवश्ययोः || २१-९ || वीरेभ्यः षोडश शिवे दिव्यौघे वसुपीठयुक् | तदर्द्धं चैव सिद्धौघे मानवौघे तदर्धकम् || २१-१० || भृत्येभ्यः सप्त पर्णानि कन्यायै पञ्चविंशतिः | चन्द्रयुक्तं महेशानि पौत्रेभ्यो दश पञ्च च || २१-११ || स्नुषायै त्रिंशति शिवे दास्यै चैव चतुर्दश | अन्येभ्यः परमेशानि विंशत्पर्णानि दापयेत् || २१-१२ || अग्रदानं च शत्रुभ्यो वक्रं दानं सुमित्रके | तिर्ययग्दानं सेवकादौ यथायोगेन योजयेत् || २१-१३ || इति संक्षेपतः प्रोक्तं सिद्धियोगं शृणु प्रिये | पत्नी पुत्री तथा दासी दासश्चैव चतुर्थकः || २१-१४ || परिवेत्ता पारिवेत्ता षट् ताम्बूलप्रदायकाः | म्लेच्छहस्ताच्छत्रुहस्ताच्छङ्कितस्य तथैव च || २१-१५ || अथ वैदग्धहस्तस्य ताम्बूलो हि निषिध्यते | आद्यपाकोऽभियोक्तव्यो द्वितीयस्त्वन्यता मता || २१-१६ || तृतीयो गृह्यतां यत्नात् त्रितयं त्रितयं त्रिषु | पत्रं फलं खादिरं च चूर्णं चैव चतुर्थकम् || २१-१७ || पञ्चमं तु मुखं प्रोक्तं रागः सष्ठ उदाहृतः | षडङ्गमिति सम्प्रोक्तं षडैश्वर्ययप्रदायकम् || २१-१८ || षडैश्वर्ययं यत्र वसेत्तत्र लक्ष्मीर्निरंतरम् | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || २१-१९ || श्रीदेव्युवाच | नागवल्लिकथं जाता समुत्पन्ना कथं वद | प्. १७६) श्रीशिव उवाच | जनमेजययज्ञान्ते नागानामष्टकं शिवे || २१-२० || कृत्वा तु भस्मसाद्देवि शापं दत्वा सुदारुणम् | सिंसवृक्षफलं मुक्त्वा नागनिर्मूलनं कृतम् || २१-२१ || तदुद्धारार्थमुद्युक्तः शिवोऽहं भैरवः स्वयम् | दूतीयागः कृतस्तेन तद्गता धर्मसम्भवाः || २१-२२ || बिन्दवः पतिता यत्र यद्देशे भस्मसञ्चयः | भस्म सम्प्लावितं नीरैस्तच्चैक्यं समजायत || २१-२३ || नागवल्लीलता नाम तत्र जातातिसुन्दरी | मागधे हिमवाहे च बङ्गाले च कलिङ्गके || २१-२४ || कर्नाटके च सौराष्ट्रे चौलमालवदेशके | मध्यदेशे केरले च समुद्रस्य तटे तथा || २१-२५ || नानादेशे समुत्पन्ना नानागुणसमुद्भवा | स्थूलसूक्ष्मप्रभेदेन ज्ञातव्याः पर्णजातयः || २१-२६ || ताम्बूलेन महादेवि मन्त्रसिद्धिमवाप्नुयात् | ताम्बूलशपथं नैव कर्तव्यं शुभमिच्छता || २१-२७ || ताम्बूलेन विना देवि यो मंत्रं दशधा जपेत् | इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् || २१-२८ || ताम्बूलेन विना देवि दीक्षाद्या निष्फला मताः | ताम्बूलोऽपि व्रतस्थानां यतीनां ब्रह्मचारिणाम् || २१-२९ || न मया कथितो देवि किं पुनः श्रोतुमिच्छसि | एकाकी संविदानन्दी मुक्तकेशी दिगम्बरः || २१-३० || शययास्थो वा श्मशानस्थः केवलं तिमिरालये | प्. १७७) लतां पश्यन् जपेद्रात्रौ सैव कल्पलता भवेत् || २१-३१ || बालामानीय कौमारीं चञ्चलां चारुलोचनाम् | सम्पूज्य प्रजपेद्रात्रौ एकाकी दीपवर्जितः || २१-३२ || रात्रौ यदि जपेन्मंत्रं सैव कल्पलता भवेत् | अर्धरात्रौ महेशानि मङ्गले वासरे निशि || २१-३३ || सम्पूज्य बालां यत्नेन सैव कल्पलता भवेत् | दीपं प्रज्वाल्य परितो मध्ये यंत्रं प्रपूजयेत् || २१-३४ || दीपावल्यां चरन्नेवं सैव कल्पलता भवेत् | शक्तिमाहूय तद्गात्रे विन्यस्य न्यासजालकम् || २१-३५ || स्पृष्ट्वा तां प्रजपेद्रात्रौ सैव कल्पलता भवेत् | प्रसूनतूलिकामध्ये शक्तिं स्थाप्य विधानतः || २१-३६ || शक्तिं संचुम्ब्य प्रजपेत् सैव कल्पलता भवेत् | बालामानीय देवेशि यथोक्तां शुभलक्षणाम् || २१-३७ || तामालिंग्य जपेद्रात्रौ सैव कल्पलता भवेत् | पर्वते विपिने गत्वा शक्तिमाहूय पार्वति || २१-३८ || तां सन्तोष्य समालिंग्य जपेद्रात्रौ निरन्तरम् | सैव भूयात् कामधेनुः सर्वसिद्धीश्वरो भवेत् || २१-३९ || गाने कर्णं ततो दत्वा लक्षं जप्यान्निशाकरे | बालामानीय देवेशि दिवा जप्याद्दिवाकरः || २१-४० || तद्योनिरूपं यन्त्रं स सबीजं यन्त्रमीरितम् | तत्र नाडीत्रयं वीक्ष्य विद्यायन्त्रं विभाव्य च || २१-४१ || सम्पूज्य तल्लिहेद्देवि साक्षात्कालीसमो भवेत् | विद्यामात्रे कार्ययमेतत् सर्वसिद्ध्यर्थमम्बिके || २१-४२ || प्. १७८) एतत्क्रमरतो देवि मम रूपो न संशयः | बालां शक्तिं समानीय सुन्दरीं शुभलक्षणम् || २१-४३ || न्यासान् विधाय तद्देहे ततः सावृतिदेवताम् | मूलदेवीं च सम्पूज्य सौगन्धतैलयोगतः || २१-४४ || तस्याः पादौ च प्रक्षाल्य मस्तके तैललेपनम् | ततः केशैस्तत्पदानां मार्जनं प्रोक्षणं चरेत् || २१-४५ || मूलं जपेत्ततो देवि त्रैलोक्यविजयी भवेत् | जलेन पादौ प्रक्षाल्य स्नानं तज्जलतश्चरेत् || २१-४६ || त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा | तस्या मुखं समालोक्य जप्त्वा त्रैलोक्यनायकः || २१-४७ || तस्या हस्ते करं दत्वा जपात्त्रैलोक्यसिद्धिभाक् | तिथिसिद्धिर्जापसिद्धिः पीठसिद्धिश्च षट् शिवे || २१-४८ || स्थितिसिद्धिस्तथा द्रव्यप्राप्तिसिद्ध्यादिकं भवेत् | आद्यं यामं षट्घटिकां त्यक्त्वान्त्यं पूर्वसंख्यकम् || २१-४९ || नाडीचतुष्टये देवि नाडीयुग्मेऽपि मध्यके | कामधेनुसमायोगो ब्रह्माण्डे सिद्धिदायकः || २१-५० || गोपनीयं गोपनीयं गोपनीयं स्वयोनिवत् | इति संक्षेपतः प्रोक्तं किमन्यत् श्रोतुमिच्छसि || २१-५१ || श्रीदेव्युवाच | देवेश श्रोतुमिच्छामि योगं चिन्तामणिप्रभम् | श्रिशिव उवाच | चिन्तामणिं स्पर्शमणिं द्वयं शृणु महेश्वरि || २१-५२ || प्. १७९) बालामानीय चार्वङ्गीं संशोध्य न्यासजालतः | उच्चपीठे तु संस्थाप्य योनिं मुखगतां चरेत् || २१-५३ || मुखेन चोष्य संजप्य प्रविकाश्य प्रयत्नतः | तत्रत्यं विलिहन् देवि जपश्चिन्तामणिर्भवेत् || २१-५४ || बालामानीय चपलां मैथुनानन्दमानसाम् | योनौ चक्रं स्वलिङ्गं तु सङ्कोचद्रव्यलेपतः || २१-५५ || लिखित्वा विपरीतां तां जपं कुर्ययादधः शिवे | योनिं सर्वान्ते स्वमुखे पूर्ववत्क्रममाचरेत् || २१-५६ || तद्योनिलिहनादेव मुखादुच्चार्ययते च यत् | तदेव सत्यं भवति प्रोक्तः स्पर्शः किमिच्छसि || २१-५७ || इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे प्रथखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कामधेन्वादियोगो नाम एकविंशतिः पटलः || २१ || || इति कालीखण्डः || ########### END OF FILE #######